कमलजदयिताष्टकम् सार्थम्

कमलजदयिताष्टकम् सार्थम्

॥ श्री गुरुभ्यो नमः॥ The prayer is addressed address to Sarasvati Devi - कमलजदयिता - the beloved ( दयिता ) of Brahmaji kamalaja: The Lotus Born. (From Vishnu's navel, a lotus appeared and on that lotus appeared चतुर्मुख-ब्रह्मा ) . The author addresses Sarasvati Devi as कमलज-दयिता and prays to her so that he can successfully tread the spiritual path and attain liberation. ॥ श्रीकमलजदयिताष्टकम् ॥ श‍ृङ्गक्ष्माभृन्निवासे शुकमुख-मुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकर-सुरराड्वाहने वाक्सवित्रि । शम्भु-श्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥ कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां श‍ृङगशैले । संस्थाप्यार्चां प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥ पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा- त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥ विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥ कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥ मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः । मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥ शान्त्याद्याः सम्पदो वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने । विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥ सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ । तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥ A few words on the symbolism of Sarasvati. सरस् means lake - a reservoir of water. In the scriptures, the Vedas are symbolized as huge lake of water वेदसरः , water being the Vedic words. Out of the word-waters of the Veda lake, the lotus of Vedic wisdom - सरस्वती blooms. Knowledge is always born out of words. शब्द-प्रामणम् generates knowledge - प्रमा . Therefore, सरस्वती represents the wisdom of the scriptures. This stotram, consisting of a group of eight verses is written by a Shankaracharya of Shringeri Peetham / Sharda Peetham - Sri Sacchidananda Shivabhinava Nrisimha Bharati Mahaswamiji. The author prays to Devi asking Her for Vidya. Though Vidya stands for any knowledge, we should understand it as Para Vidya, the knowledge that gives Moksha, removing samsara. In addition to Vidya, he is asking her to bless him with Chitta Shuddhi - शुद्धां च बुद्धिं , a refined/pure intellect, i.e a mind with all qualifications for reception, retention and internalisation of the knowledge. His prayer to Her is to give this to him urgently,- सत्वरं. १ श्लोकः श‍ृङ्गक्ष्माभृन्निवासे शुकमुख-मुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकर-सुरराड्वाहने वाक्सवित्रि । शम्भु-श्रीनाथ-मुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ १॥ In the first verse, the author is glorifying Sarasvati Devi and asks for Vidya and Chitta Shuddhi urgently. The words in this verse are in sambodhana, addressing Sarasvati Devi. In this verse, the author glorifies Sarasvati Devi and asks for Vidya - spiritual knowledge and Chitta Shuddhi – a refined mind-intellect). श‍ृङ्गक्ष्माभृन्निवासे - O (Devi) one who resides on Shringa Giri - ( श‍ृङ्ग-क्ष्माभृत्-निवसा one who is resident in श‍ृङ्ग-क्ष्माभृत् ) श‍ृङ्ग = Shringa kshetram; क्ष्माभृत् = mountain ; शुक-मुख-मुनिभिः सेव्यमानाङ्घ्रिपद्मे O Devi whose lotus feet are worshipped by great Munis like Shuka etc. अङ्घ्रिपद्मे lotus feet, सेव्यमान are worshipped; शुकमुखमुनिभिः - by great Munis like Shuka etc. स्वाङ्गच्छायाविधूतामृतकर-सुरराड्वाहने - O Sarasvati, whose splendour - fair brightness complexion dispels i.e. overpowers that of the moon and of Airavata, the white elephant, who is the vehicle of Lord Indra, the king of the Devas ( स्वाङ्गच्छाया = स्वाङ्गकान्ता = the splendour/fairness of her body; विधूता = dispels/overpowers; अमृतकर = moon, the one with nectarine rays; सुरराड्वाहने = the vehicle-vahanam of Lord Indra i.e Airavata, the elephant; सुर-राड् = King of the Devas - Indra, वाहनम् = vehicle) वाक्सवित्रि = Addressing Saraswati as O rouser of speech - शम्भु-श्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने - O Sarasvati, who is worshipped joyfully by the host of Gods led by Shambhu (Shiva) and Shrinath (Vishnu) निकरैः = by hosts ; शम्भु-श्रीनाथ-मुख्यामरवर of eminent Gods led by Shiva and Vishnu ; मोदतः = joyfully ; पूज्यमाने - being worshipped by. विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati devi सत्वरं = very fast देहि = give मह्यम् = to me. अन्वयः हे श‍ृङ्गक्ष्माभृन्निवासे । हे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे । हे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने । हे वाक्सवित्रि । हे शम्भुश्रीनाथमुख्यामरवरनिकरैः मोदतः पूज्यमाने । हे कमलजदयिते । त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि । २ श्लोकः कल्यादौ पार्वतीशः प्रवर-सुरगण-प्रार्थितः श्रौतवर्त्म- प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां श‍ृङगशैले । संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ २ ॥ In this verse, the author informs us of how Sarasvati Devi was Installed in Shringa Giri. कल्यादौ = in the beginning of kali yuga; पार्वतीशः = Lord of Parvati i.e Lord Shiva; प्रवर-सुरगण-प्रार्थितः = was worshipped by hosts of eminent Gods; श्रौतवर्त्म-प्राबल्यं-नेतुकामो Lord Shiva who was desirous of reinforcing the Vedic path ( श्रौतवर्त्मप्राबल्यं = to reinforce the Vedic Path, way of life नेतुकामो = was desirous of - adj to pArvatIshaH Shiva) ; आगत्य = came यतिवरवपुषा = with the form of the best of Sannyasins i.e Lord Shiva assumed the body of Adi Shankaracharya ; यां श‍ृङगशैले-संस्थाप्य Whom He installed on Shringa Giri प्रचक्रे अर्चाम् = performed poojas ; बहुविध-नुतिभिः = through various Stotras ; सा त्वमिन्द्वर्धचूडा (सा त्वम् इन्द्वर्ध-चूडा) = You are she who (who was installed on Shringa Giri) has a digit of the moon as an adornment on your hair ; सा त्वम् You are that (Sarasvati who has been installed) who has अर्धेन्दु = half-moon i.e a digit of the moon ; चूडा hair i.e as adornment on your hair) विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me - अन्वयः कल्यादौ प्रवरसुरगणप्रार्थितः, श्रौतवर्त्मप्राबल्यं नेतुकामः, पार्वतीशः यतिवरवपुषा आगत्य, श‍ृङगशैले यां संस्थाप्य, बहुविधनुतिभिः अर्चां प्रचक्रे, सा त्वमिन्द्वर्धचूडा (त्वम् असि) । हे कमलजदयिते । त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि । ३ श्लोकः पापौघं ध्वंसयित्वा बहुजनि-रचितं किं च पुण्यालिमारा+ त्सम्पाद्यास्तिक्य-बुद्धिं श्रुति-गुरुवचनेष्वादरं भक्ति-दार्ढ्यम् । देवाचार्य-द्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ ३ ॥ After glorifying Sharada Devi in the first two verses, now the author has a prayerful request to her asking for deep devotion and shradha/ faith. पापौघं = group of sins; ध्वंसयित्वा = having destroyed; बहु-जनि-रचितं = accumulated/created over several births; पुण्यालिमारात् = bundle of punyam immediately; पुण्य-आलिम् = bundle of punyam; आरात् = immediately/directly; सम्पाद्य = having accomplished, brought about, आस्तिक्यबुद्धिं - reverence and faith; श्रुतिगुरुवचनेष्वादरं = towards the words of the Veda and Guru; आदरम् = respect; भक्तिदार्ढ्यम् = strong/deep devotion; देवाचार्य-द्विजादिष्वपि = even towards Deva, Acharya and dvijadi/brahmanas. तावकीने मनुनिवहे = towards groups of mantras extolling you मनुनिवहे = of mantras; ( मनु = mantra; निवहे = groups) ; तावकीने thy/thine (extolling you) goes with मनुनिवहे ; नितान्तं = in a high degree / extraordinary विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे कमलजदयिते । त्वं बहुजनिरचितं पापौघं ध्वंसयित्वा, किं च पुण्यालिम् आरात् सम्पाद्य, आस्तिक्यबुद्धिं च, श्रुतिगुरुवचनेषु आदरं च, देवाचार्यद्विजादिषु अपि, तावकीने मनुनिवहे च भक्तिदार्ढ्यं च, नितान्तं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि । ४ श्लोकः विद्या-मुद्राक्षमालामृतघट-विलसत्पाणि-पाथोजजाले विद्यादान-प्रवीणे जड-बधिर-मुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहज-रिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ ४ ॥ In line 1, the description of Devi is given, first the four hands - the whole line is one word addressing Saraswati Devi विद्या = grantha = वेदग्रन्थ - in one hand the Veda ; मुद्रा = चिन्मुद्रा = in the other hand a mudra in which the index finger and thumb are joined, symbolising the oneness of the individual and paramatma; अक्षमाला can be रुद्राक्षमाला or a sphatika-mala = in the third hand she holds a mala which indicates doing japa; अमृतघट = pot of nectar = in the fourth hand, she holds a pot of nectar that represents moksha. (This means, if you study the scriptures, practise sadhanas referred to by japa, go to the Shastra, understand your oneness with paramathma, you will get moksha. पाणि = hands; विलसत् = shining - four hands are shining ; पाथोजं = जलजं - lotus i.e. the four hands are compared to lotus - the lotus hands of Saraswati is shining with these four symbols as described; जाले = group of - refers to the group of four hands विद्या-दान-प्रावीणे = Your are expert in bestowing knowledge; जड-बधिर- मुखेभ्य: अपि - Even dull(inert) students (you can teach!) जड = dull/inert , बधिर = literally deaf, here it means one whose mind is not available to listen; मुखेभ्यः = to such students; नतेभ्यः = to those who have devotion to you; शीघ्रं = quickly; कामादीन् आन्तरान् रिपुवरान् = great internal enemies (to spiritual growth) like (impure) desires etc. मत्सहज = innate, natural to oneself देवि = O Devi ; निर्मुल्य = having uprooted ; वेगात् = quickly विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले । जडबधिरमुखेभ्यः अपि नतेभ्यः शीघ्रं मत्सहजरिपुवरान् अन्तरान् कामादीन् निर्मूल्य वेगात् विद्यादानप्रवीणे । हे देवि । त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि । ५ श्लोकः कर्मस्वात्मोचितेषु स्थिरतर-धिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवन-विदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ ५ ॥ कर्मसु In action/karma आत्म-उचितेषु = proper / appropriate for one's spiritual growth (also appropriate as per my duties and designation) स्थिरतर- धिषणां (add दत्वा from line 3)= give me deep conviction - स्थिरतर = deep-rooted, strong, धिषणां = intellect/conviction/knowledge/clear understanding ; तदर्थं = for implementing this good karma / karmayoga; देह-दार्ढ्यं = strength/ physical fitness of the body दीर्घं च आयुः = a sufficient long life ; र्यशश्च त्रिभुवन-विदितं and may you give me a fame which spreads all over यश = fame, त्रिभुवन = 3 lokas , विदितं = which extends to / is known पापमार्गात् = from the path of sin विरक्तिम् = let be disinclination/detachment सत्सङ्गं = company of the noble; सत्कथायाः श्रवणम् = listening to spiritual kathas/stories; सदा = always; देवि कृपाब्धे - O Devi, Ocean of mercy; दत्वा = having given me (all this); विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः आत्मोचितेषु कर्मसु स्थिरतरधिषणां दत्वा तदर्थं देहदार्ढ्यं च दीर्घं आयुः च त्रिभुवनविदितं यशः च पापमार्गात् विरक्तिं सत्सङ्गं च सत्कथायाः श्रवणम् अपि दत्वा, हे कृपाब्धे, हे देवि, हे कमलजदयिते, सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि । ६ श्लोकः मातस्त्वत्पादपद्मं न विविध-कुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमति-रलसस्त्वद्गुणान्दिव्यपद्यैः । मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम् ॥ ६ ॥ मातः O Mother न = not; विविध-कुसुमैः = by different types of flowers; भक्त्या = with devotion; त्पादपद्मं = Your lotus feet; पूजितं = had been worshipped; जातु = at all/ever नैव अहम् ईशे गातुं = I am not capable of / talented of even singing त्वत्गुणान् your glories, (as a pooja) दिव्यपद्यैः = through divine hyms; जड-मति = dull-witted; अलसः = lazy; अपि = even मूके = Towards me who am dumb; सेवाविहिने = not done any service; अनुपम-करुणामर्भकेऽम्बेव कृत्वा = having had mercy on me like a mother with unparalleled / immeasurable compassion towards her child ( अनुपम-करुणाम् = incomparable compassion, अम्बा = mother ; अर्भके = towards a child , इव = like) विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = immediately/ very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे मातः । त्वत्पादपद्मं जातु भक्त्या विविधकुसुमैः (मया) न पूजितम् । जडमतिः अलसः अहं त्वद्गुणान् दिव्यपद्यैः गातुं न एव ईशे । मूके, सेवाविहीने अपि, अर्भके अम्बा इव, अनुपमकरुणां कृत्वा, हे कमलजदयिते, मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि । ७ श्लोकः शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्री-शिवा-सेव्यमाने । विद्यातीर्थादि-योगिप्रवर-करसरोजात-सम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥ In this verse, the acharya is asking Devi to grant him with the four-fold qualifications required by a seeker to receive, retain and assimilate the teaching - the विद्या that he is asking for. In fact words ᳚ शुद्धां च बुद्धिं ᳚ is. being explained. In brief the qualifications called साधन-चतुष्टय-सम्पत्तिः are: A. Discrimination betwen the real and the epheremeral - called here नित्यतद्भिन्नबोधं , B. Dispassion towards the ephemeral/ fleeting called here as वैराग्यं , C. Deep desire for Moksha called here मोक्षवाञ्छाम् , and D: Discipline - the sixfold inner wealth / discipline referred to Here as शान्त्याद्याः संपदः . In brief, these six are 1) Thought or mental regulation or शमः or शान्तिः , 2) sense control - दमः , 3) quietitude, withdrawal i.e. maintaining the mastery over both the mind and senses उपरमः , 4) faith in the validity of the teaching - श्रद्धा , 5) Forbearance/ tolerance - तितिक्षा and 6) Focused concentration including ability to focus on the long term goal without distraction / focus in life - समाधानम्. शान्त्याद्याः शुभकरीः संपदो मे वितर May you grant me the 6 fold auspicious, wealth of discipline starting with शान्ति or शम ( शान्त्याद्याः = beginning with शान्ति, शुभकरीः = causing auspiciousness, संपदो = wealth; मे वितर = May you bestow on me); नित्य-तद्भिन्न-बोधं = discrimination between the eternal and non-eternal; वैराग्यं = Dispassion, मोक्षवाञ्छाम्, = desire for moksha; अपि = also; लघु कलय = May you give me quickly श्री-शिवा-सेव्यमाने = O Devi who is worshipped by श्री - Lakshmi and shivA Parvathi विद्यातीर्थादि-योगिप्रवर-करसरोजात-सम्पूजिताङ्घ्रे You are worshipped by the Lotus hands of great Acharyas like Vidya Teertha who have adored the Shringeri Peetha ; ( योगिप्रवर = great yogis विद्यातीर्थादि = like Vidya Teertha etc.; करसरोजात-सम्पूजिताङ्घ्रे = your feet have been worshipped by the lotus hands) विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = very fast/ speedily dehi = गिवे mahyam = तो मे अन्वयः शान्त्याद्याः शुभकरीः सम्पदः मे वितर । नित्यतद्भिन्नबोधम्, वैराग्यम्, मोक्षवाञ्छाम् अपि, लघु कलय । हे श्रीशिवासेव्यमाने । हे विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे । हे कमलजदयिते । मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि । ८ श्लोकः सच्चिद्रूपात्मनो मे श्रुति-मनन-निदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ । तुङ्गातीराङ्कराजद्वरगृह-विलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥ After having been blessed by Devi with the qualifications as asked for in the above verses, the Acharya is ready now for Jnana Yoga in the form of श्रवणम् - listening to Vedanta / Upanishad Shastra from a Guru, मननम् - reflecting and clearing doubts to get conviction and निदिध्यासनम् - meditating on the words of Upanishad Shastra for internal assimilation of the message and to get out of habitual notion that I am this body. Jnana Yoga is analysis of vedantic scriptures to know my Real nature i.e. सत् चित् आत्मा - which is the unobjectifiable observer whose nature is pure existence and consciousness. The acharya asks for help in this long drawn process and to get absorbed in His Higher Nature.(The capacity for absorption is a faculty the mind has. In short he is asking - Let me attain Moksha through Jnana Yoga. Translation O Mother, may you accomplish for me the three sadhanas of Jnana Yoga - श्रवणम्-मनन-निदिध्य्सनानि quickly, endowing me with a mind which has a liking to, an inclination to this knowledge. May I remain absorbed in my real nature - सत् चित् आत्मा constantly. You are residing/installed in the simhasana of the Shri Chakra (a very sacred symbol upon which Devi is invoked and installed) in the sacred Sharada Temple which shines, located on the curved bank of the Tunga river. O Devi installed in the Temple, may you bless me with Vidya and Chitta Shuddhi. मातः = O Mother, श्रुति (श्रवणम्)-मनन-निदिध्यासनानि = the 3 sadhanas of shravaNam, shravaNam, nididhyAsanam; आशु = quickly ; संपाद्य = Having accomplished ( You should accomplish these Three sadhanas for me). सच्चिद्रूपात्मनो मे = my Higher Nature i.e. Existence and Consciousness ; एतद् रुचियुतम् = endowed with a taste, liking inclination for this; स्वान्तम् = in my mind; निर्विकल्पे समाधौ = remaining absorbed in (my Higher Nature), ; अनिशम् =regularly, constantly तुङ्गातीराङ्कराजद्वरगृह-विलसच्चक्रराजासनस्थे = Addressing Devi as the one residing in the Shri Chakra in the Sharda Temple which is situated on the curved banks of the Tunga River ( चक्रराजासनस्थे = Adressing Devi as one installed / residing /situated on the Shri Chakra simhasana; विलसत् = shines ; वर-गृहं = sacred temple ; तुङ्गातीराङ्क = curved bank of the तुङ्गा - Tunga River; तीर = bank; अङ्क = curved ) विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे मातः । सच्चिद्रूपात्मनः मे श्रुतिमनननिदिध्यासनानि आशु सम्पाद्य, निर्विकल्पे समाधौ एतद् स्वान्तं अनिशं रुचियुतं (कुरु) । हे तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे । हे कमलजदयिते । सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि । इति श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् । Translation, encoding, and proofreading by N.Balasubramanian nbalubn at gmail.com
% Text title            : Kamalajadayita Ashtakam with Meaning
% File name             : kamalajadayitAShTakamsArtham.itx
% itxtitle              : kamalajadayitAShTakam sArtham (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : kamalajadayitAShTakam with meaning
% Category              : aShTaka, devii, sarasvatI, devI, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian nbalubn at gmail.com 
% Proofread by          : N.Balasubramanian nbalubn at gmail.com 
% Translated by         : N.Balasubramanian nbalubn at gmail.com 
% Indexextra            : (Scans 1, 2, Video)
% Latest update         : September 29, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org