श्रीकिरातवाराहीस्तोत्रम्
अस्य श्रीकिरातवाराहीस्तोत्रमहामन्त्रस्य
दूर्वासो भगवान् ऋषिः । अनुष्टुप् छन्दः ।
श्री किरातवाराही मुद्रारूपिणी देवता ।
हुं बीजं रं शक्तिः क्लीं कीलकं मम सर्वशत्रुक्षयार्थं
श्रीकिरातवाराहीस्तोत्रजपे विनियोगः ॥
उग्ररूपां महादेवीं शत्रुनाशनतत्पराम् ।
क्रूरां किरातवाराहीं वन्देहं कार्यसिद्धये ॥ १॥
स्वापहीनां मदालस्यामप्रमत्तामतामसीम् ।
दंष्ट्राकरालवदनां विकृतास्यां महारवाम् ॥ २॥
ऊर्ध्वकेशीमुग्रधरां सोमसूर्याग्निलोचनाम् ।
लोचनाग्निस्फुलिङ्गाद्यैर्भस्मीकृत्वाजगत्त्रयम् ॥ ३॥
जगत्त्रयं मोदयन्तीमट्टहासैर्मुहुर्मुहुः ।
खड्गं च मुसलं चैव पाशं शोणितपात्रकम् ॥ ४॥
दधतीं पञ्चशाखैः स्वैः स्वर्णाभरणभूषिताम् ।
गुञ्जामालां शङ्खमालां नानारत्नविभूषिताम् ॥ ५॥
वैरिपत्नीकण्ठसूत्रच्छेदनक्षुररूपिणीम् ।
क्रोधोद्धतां प्रजाहन्तृ क्षुरिके वस्थितां सदा ॥ ६॥
जितरम्भोरुयुगलां रिपुसंहारताण्डवीम् ।
रुद्रशक्तिं परां व्यक्तामीश्वरीं परदेवताम् ॥ ७॥
विभज्य कण्ठदंष्ट्राभ्यां पिबन्तीमसृजं रिपोः ।
गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ ८॥
कपोतायाश्च वाराही पतत्यशनया रिपौ ।
सर्वशत्रुं च शुष्यन्ती कम्पन्ती सर्वव्याधयः ॥ ९॥
विधिविष्णुशिवेन्द्राद्या मृत्युभीतिपरायणाः ।
एवं जगत्त्रयक्षोभकारकक्रोधसंयुताम् ॥ १०॥
साधकानां पुरः स्थित्वा प्रवदन्तीं मुहुर्मुहुः ।
प्रचरन्तीं भक्षयामि तपस्साधकते रिपून् ॥ ११॥
तेपि यानो ब्रह्मजिह्वा शत्रुमारणतत्पराम् ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि सर्वदा ॥ १२॥
भक्षयन्तीं भक्तशत्रो रचिरात्प्राणहारिणीम् ।
एवंविधां महादेवीं याचेहं शत्रुपीडनम् ॥ १३॥
शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि ।
सर्वशत्रुविनाशार्थं त्वामहं शरणं गतः ॥ १४॥
तस्मादवश्यं शत्रूणां वाराहि कुरु नाशनम् ।
पातुमिच्छामि वाराहि देवि त्वं रिपुकर्मतः ॥ १५॥
मारयाशु महादेवी तत्कथां तेन कर्मणा ।
आपदशत्रुभूताया ग्रहोत्था राजकाश्च याः ॥ १६॥
नानाविधाश्च वाराहि स्तम्भयाशु निरन्तरम् ।
शत्रुग्रामगृहान्देशान्राष्ट्रान्यपि च सर्वदा ॥ १७॥
उच्चाटयाशु वाराहि वृकवत्प्रमथाशु तान् ।
अमुकामुकसंज्ञांश्च शत्रूणां च परस्परम् ॥ १८॥
विद्वेषय महादेवि कुर्वन्तं मे प्रयोजनम् ।
यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु ॥ १९॥
यस्मिन् काले रिपुस्तम्भं भक्षणाय समर्पितम् ।
इदानीमेव वाराहि भुङ्क्ष्वेदं कालमृत्युवत् ॥ २०॥
मां दृष्ट्वा ये जना नित्यं विद्वेषन्ति हसन्ति च ।
दूषयन्ति च निन्दन्ति वाराह्येतान् प्रमारय ॥ २१॥
हन्तु ते मुसलः शत्रून् अशनेः पतनादिव ।
शत्रुदेहान् हलं तीक्ष्णं करोतु शकलीकृतान् ॥ २२॥
हन्तु गात्राणि शत्रूणां दंष्ट्रा वाराहि ते शुभे ।
सिंहदंष्ट्रैः पादनखैर्हत्वा शत्रून् सुदुस्सहान् ॥ २३॥
पादैर्निपीड्य शत्रूणां गात्राणि महिषो यथा ।
तांस्ताडयन्ती शृङ्गाभ्यां रिपुं नाशय मेधुना ॥ २४॥
किमुक्तैर्बहुभिर्वाक्यैरचिराच्छत्रुनाशनम् ।
कुरु वश्यं कुरु कुरु वाराहि भक्तवत्सले ॥ २५॥
एतत्किरातवाराह्यं स्तोत्रमापन्निवारणम् ।
मारकं सर्वशत्रूणां सर्वाभीष्टफलप्रदम् ॥ २६॥
त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्त फलमश्नुते ।
मुसलेनाथ शत्रूंश्च मारयन्ति स्मरन्ति ये ॥ २७॥
तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न संशयः ।
अचिराद्दुस्तरं साध्यं हस्तेनाकृष्य दीयते ॥ २८॥
एवं ध्यायेज्जपेद्देवीमाकर्षणफलं लभेत् ।
अश्वारूढां रक्तवर्णां रक्तवस्त्राद्यलङ्कृताम् ॥ २९॥
एवं ध्यायेज्जपेद्देवीं जनवश्यमाप्नुयात् ।
दंष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति ॥ ३०॥
दूर्वास्यां संस्मरेद्देवीं भूलाभं याति बुद्धिमान् ।
सकलेष्टार्थदा देवी साधकस्तत्र दुर्लभः ॥ ३१॥
इति श्रीकिरातवाराहीस्तोत्रं सम्पूर्णम् ।