कुण्डलिनीस्तोत्रम् २ कन्दवासिनीस्तोत्रम्

कुण्डलिनीस्तोत्रम् २ कन्दवासिनीस्तोत्रम्

श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि श‍ृणुष्व मम तत्त्वतः । शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी ॥ ३२-१॥ कलिकल्मषहन्त्री च जगतां मोक्षदायिनी । तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं श‍ृणु प्रभो ॥ ३२-२॥ यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः । चैतन्यानन्दनिरतो भवेत् कुण्डलिसङ्गमात् ॥ ३२-३॥ आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् । अमृतानन्दरूपाभ्यां करोषि पालनं नृणाम् ॥ ३२-४॥ कुण्डलिनी-ध्यानम् । श्वासोच्छ्वासकलाभ्यां च शरीरं त्रिगुणात्मकम् । पञ्चभूतावृता नित्यं पञ्चानिला भवेद् ध्रुवम् ॥ ३२-५॥ कोटिसूर्यप्रतीकाशां निरालम्बां विभावयेत् । सर्वस्थितां ज्ञानरूपां श्वासोच्छ्वासनिवासिनीम् ॥ ३२-६॥ स्वयम्भूकुसुमोत्पन्नां ध्यानज्ञानप्रकाशिनीम् । मोक्षदां शक्तिदां नित्यां नित्यज्ञानस्वरूपिणीम् ॥ ३२-७॥ लोलां लीलाधरां सर्वां शुद्धज्ञानप्रकाशिनीम् । कोटिकालानलसमां विद्युत्कोटिमहौजसाम् ॥ ३२-८॥ तेजसा व्याप्तकिरणां मूलादूर्ध्वप्रकाशिनीम् । अष्टलोकप्रकाशाढ्यां फुल्लेन्दीवरलोचनाम् ॥ ३२-९॥ सर्वमुखीं सर्वहस्तां सर्वपादाम्बुजस्थिताम् । मूलादिब्रह्मरन्ध्रान्तस्थानलोकप्रकाशिनीम् ॥ ३२-१०॥ त्रिभाषां सर्वभक्षां च श्वासनिर्गमपालिनीम् । ललितां सुन्दरीं नीलां कुण्डलीं कुण्डलाकृतिम् ॥ ३२-११॥ अभूमण्डलबाह्यस्थां बाह्यज्ञानप्रकाशिनीम् । नागिनीं नागभूषाढ्यां भयानककलेवराम् ॥ ३२-१२॥ योगिज्ञेयां शुद्धरूपां विरलामूर्ध्वगामिनीम् । एवं ध्यात्वा मूलपद्मे कुण्डलीं परदेवताम् ॥ ३२-१३॥ भावसिद्धिर्भवेत् क्षिप्रं कुण्डलीभावनादिह । ततो मानसजापं हि मानसं होमतर्पणम् ॥ ३२-१४॥ अभिषेकं मुदा कृत्वा प्रातः काले पुनः पुनः प्राणायामं ततः कृत्वा स्तोत्रं च कवचं पठेत् ॥ ३२-१५॥ एतत्स्तोत्रस्य पाठेन स्वयं सिद्धान्तविद्भवेत् । कुण्डली सुकृपा तस्य मासाद्भवति निश्चितम् ॥ ३२-१६॥ निद्रादोषादिक्ं त्यक्त्वा प्रकाश्याहं शरीरके । अहं दात्री सुयोगानामधिपाहं जगत्त्रये ॥ ३२-१७॥ अहं कर्म अहं धर्मः अहं देवी च कुण्डली । यो जानाति महावीर कुण्डलीरूपसेवनात् ॥ ३२-१८॥ इति तं पात्रकं कर्तुमवतीर्णास्मि सर्वदा । अत एव परं मन्त्रं कुण्डलिन्याः स्तवं शुभम् ॥ ३२-१९॥ प्रपठेत् सर्वदा देहे यदि वश्या न कुण्डली । तावत् कालं जपं कुर्याद् यावत् सिद्धिर्न जायते ॥ ३२-२०॥ कुण्डलिनीस्तोत्रम् -- आधारे परदेवता भवनताधोकुण्डली देवता । देवानामधिदेवता त्रिजगतामानन्दपुञ्जस्थिता ॥ ३२-२१॥ मूलाधारनिवासिनी त्रिरमणी या ज्ञानिनी मालिनी । सा मे मातृमनुस्थिता कुलपथानन्दैकबीजानना ॥ ३२-२२॥ सर्वाङ्गस्थितिकारिणी सुरगणानन्दैकचिन्हा शिवा । वीरेन्द्रा नवकामिनी वचनदा श्रीमानदा ज्ञानदा ॥ ३२-२३॥ सानन्दा घननन्दिनी घनगणा छिन्ना भवा योगिनी । धीरा धैर्यवती समाप्तविषया श्रीमङ्गली कुण्डली ॥ ३२-२४॥ सर्वाकारनिवासिनी जयधराधाराधरस्थागया । गीता गोधनवर्द्धिनी गुरुमयी ज्ञानप्रिया गोधना ॥ ३२-२५॥ गार्हाग्निस्थिति चन्द्रिका सुलतिका जाड्यापहा रागदा । दारा गोधनकारिणी मृगमना ब्रह्माण्डमार्गोज्ज्वला ॥ ३२-२६॥ माता मानसगोचरा हरिचरा सिंहासनकारणा । यामा दासगणेश्वरी गुणवती छायापथस्थायिनी ॥ ३२-२७॥ निद्रा क्षुब्धजनपिरया वरतृषा भाषाविशेषस्थिता । स्थित्यन्तप्रलयापहा नरशिरोमालाधरा कुण्डली ॥ ३२-२८॥ गाङ्गेशी यमुनेश्वरी गुरुतरी गोदावरी भास्करी । भक्तार्तिक्षयकारिणी समशिवं यद्येकभावान्विता ॥ ३२-२९॥ त्वं शीघ्रं कुरु कौलिके मम शिरोरन्ध्रं तदब्जं मुदा । तत्पत्रस्थितदैवतं कुलवती मातृस्थलं पाहिकम् ॥ ३२-३०॥ भालोर्द्ध्वे धवला कलारसकला कालाग्निजालोज्ज्वला । फेरुप्राणनिकेतने गुरुतरा गुर्व्वी सुगुर्व्वी सुरा ॥ ३२-३१॥ हालोल्लाससमोदया यतिनया माया जगत्तारिणी । निद्रामैथुननाशिनी मम हरा मोहापहा पातुकम् ॥ ३२-३२॥ भालं नीलतनुस्थिता मतिमतामर्थप्रिया मैथिली । भालानन्दकरा महाप्रियजना पद्मानना कोमला ॥ ३२-३३॥ नानारङ्गसुपीठदेशवसना सिद्धासना घोषणा । त्राणस्थावररूपिणी कलिहनी श्रीकुण्डली पातुकम् ॥ ३२-३४॥ भ्रूमध्यं बगलामुखी शशिमुखी विद्यामुखी सम्मुखी । नागाख्या नगवाहिनी महिषहा पञ्चाननस्थायिनी ॥ ३२-३५॥ पारावार विहारहेतुसफरी सेतुप्रकारा परा । काशीवासिनमीश्वरं प्रतिदिनं श्रीकुण्डली पातुकम् ॥ ३२-३६॥ या कुण्डोद्भवसारपाननिरता मोहादिदोषापहा । सा नेत्रत्रयमम्बिका सुवलिका श्रीकालिका कौलिका ॥ ३२-३७॥ काकस्था द्विकचञ्चुपारणकरी संज्ञाकरी सुन्दरी । मे पातु प्रियया तया विशदया सच्छायया छादिता ॥ ३२-३८॥ श्रीकुण्डे रणचण्डिका सुरतिका कङ्कालिका बालिका । साकाशा परिवर्जिता सुगतिका ज्ञानोर्मिका चोत्सुका ॥ ३२-३९॥ सौकासूक्ष्मसुखप्रिया गुणनिका दीक्षा च सूक्ष्माख्यका । मामन्द्यं मम कन्दवासिनि शिवे सन्त्राहि सन्त्राहिकम् ॥ ३२-४०॥ एतत्स्तोत्रं पठित्वा त्रिभुवनपवनं पावनं लौकिकानाम् । राजा स्यात् किल्बिषाग्निः क्रतुपतिरिह यः क्षेमदं योगिनां वा ॥ ३२-४१॥ सर्वेशः सर्वकर्ता भवति निजगृहे योगयोगाङ्गवक्ता । शाक्तः शैवः स एकः परमपुरुषगो निर्मलात्मा महात्मा ॥ ३२-४२॥ प्रणवेन पुटितं कृत्वा यः स्तौति नियतः शुचिः । स भवेत् कुण्डलीपुत्रो भूतले नात्र संशयः ॥ ३२-४३॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने मूलचक्रसारसङ्केते भैरवभैरवीसंवादे कन्दवासिनीस्तोत्रं नाम द्वात्रिंशः पटलः ॥ ३२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Kundalini Stotram 2 Kandavasini Stotram
% File name             : kuNDalinIstotram2.itx
% itxtitle              : kuNDalinIstotram 2 kandavAsinistotram (rudrayAmalAntargatam)
% engtitle              : kuNDalinIstotram 2
% Category              : devii, ShaTchakrashakti, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 1 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 1 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org