लक्ष्मीस्तवः

लक्ष्मीस्तवः

सुधासारासारादपि बहुलसारा कुवलया- वलीदामश्यामा शुभविभवसामस्त्यजननी । मम श्रेयो भूयो वितरतु सुधासिन्धुदुहितुः कृपातुङ्गापाङ्गोल्लसदसमश‍ृङ्गारलहरी ॥ १॥ जगत्स्रष्टा स्रष्टा श्रुतिभिरनवद्यप्रसृतिभि- चतुर्मुख्या मुख्यानपि गुणलवांस्ते कवयितुम् । रमे नेष्टामीष्टां तव शिशुरयं त्वत्करुणया ग्रहीतुं स्तम्बोऽपि प्रभवति सितां सैकतयुताम् ॥ २॥ महिम्नः पारं ते द्रुहिणपुरजित्तारक जितः क्षमन्ते वानन्ते जननि न चतुष्पञ्चषमुखाः । यदि त्वन्ये मन्ये जलधिपतिकन्ये कवयितुं यतेरन्नीशेरन मशकशिशुकाः सिन्धुगिलने ॥ ३॥ नृपान् नावन्नावं भवजलधिनावं तव कृपां रमे नीचाः केचिज्जहतु भुवि निर्विण्णरसनाः । किमेतैर्जाह्नव्यास्तटभुवि खनद्भिः प्रवणता- दुरापोद कूपं त्वयि कृतभरोऽहं तदधुना ॥ ४॥ तव स्तोत्रं चित्रं त्रिभुवन पवित्रं जिगदिषोः समन्ताज्जृम्भन्ताममलवदने पद्मसदने । नटद्भाषायोषाकरकमलभूषापरिकन- न्मणीभूषोन्मेषप्रतिमगतयो मे भणितयः ॥ ५॥ श्रियामेकं मूलं द्विरदगतिनम्रं त्रिविधचि- त्कलापं संसेव्यं सविनति चतुष्पञ्चषमुखैः । प्रदीपत्सप्ताश्वं प्रभवतु सदाष्टापदपदं महालक्षम्याश्चित्ते मम नवलसद्यौवनदशम् ॥ ६॥ सरस्वत्या सत्या वलमथनसत्याप्यसुलभं भवद्दास्यं पश्यञ्जिगदिषति यस्ते तदुपमाम् । अयं निम्बं बिम्बं विवदिषति पद्मे सुरतरोः समं लोष्टं स्पष्टं हि कलयिषतेऽष्टापदगिरेः ॥ ७॥ त्वया जुष्टस्तुष्टः कमपि खलु दुष्टं बलिभुजं समत्रास्त त्रस्तं परमपुरुषो रुक्मिणमपि । तवासान्निध्येऽहन् दशवदनचैद्यादिचपला- नितीदं ते लक्ष्मि प्रथयति घृणैकप्रवणताम् ॥ ८॥ जगद्रक्षाशिक्षाप्रभृतिमहिमानं भगवति त्वदेकान्तं प्राहुः कतिचिदपरे त्वत्पतिगतम् । नयापेतैरेतैरलमखिलवेदान्तकलने प्रतीमस्तन्मिश्रं खलु शुभवतोरम्ब भवतोः ॥ ९॥ तवानल्पं तल्पं फणिकुलपतिस्तद्गिरिपते- रुरोरत्नं प्रत्नं तव भजति भद्रासनगतिम् । त्रयो वेदाः सौधा जननि कमलं सद्म विमलं भवद्भूमा भूमावहह न पदं वाङ्मनसयोः ॥ १०॥ महावृत्ते यत्ते सकरुणकटाक्षप्रसरणात् पदं स्वं स्वं प्राप्ता हरिहरविरिञ्चिप्रभृतयः । जगच्चित्तायत्ता जगदुदयसत्तावगतयो यतस्तत् त्वं तत्त्वं परमिति रमे निश्चिनुमहे ॥ ११॥ नवोन्मीलन्नीलोत्पलदलकुलश्यामलतमः कटाक्षस्ते हस्ते कलयति नरं यं भगवति । अयं रङ्गद्भृङ्गोत्कटकरटिगण्डस्थलगल- न्मदस्यन्देऽलिन्दे चरति चरितं तेऽद्भुतमिदम् ॥ १२॥ तव भ्राता त्राता कुवलयगरिम्णस्तव पिता महासत्त्वो धत्ते भुवि भुवनसाम्राज्यमखिलम् । क्षमः सृष्टौ पुष्टौ पतिरपि निघृष्टौ च जगतां रमे साम्राज्यं ते क इह विवरीतुं प्रभवति ॥ १३॥ रणे शक्तिं युक्तिं नयविधिषु रक्ति गुणगणे गुरौ भक्तिं सक्तिं कृतफणितिवृक्तिं च सदसि । वहन्तोऽपि क्ष्मापा दधति लघुतां त्वद्विमुखिता- स्त्वया दृष्टो दुष्टोऽप्यखिलगुणजुष्टोऽम्ब भवति ॥ १४॥ कृपावर्षोत्कर्षादमरशिखिहर्षं विदधतं परव्योम्नि स्फीतं सकलफलदं कृष्णजलदम् । श्रिता विद्युल्लेखा चलनरहिता नित्यमहिता रमा तृष्णापूर्त्यै वसुविसरमाकल्पयतु नः ॥ १५॥ प्रवालश्रीरोष्ठे कचभुवि घनालिद्युतिरुरो- भुवौ कुम्भावब्जप्रथितकदनं चापि वदनम् । कटी गोत्राभोगास्पदमहिमहीभृत्तटवस- त्युरःसद्मे (पद्मे) भगवति ततस्त्वं जयमयी ॥ १६॥ मुखे चान्द्रीं शाङ्खीं गलभुवि च मैनीं नयनयो रुचिं सौधीं वाचि त्रिवलिषु च वैचीं प्रपदयोः । पदोः कौर्मीं पाद्मीं नखततिषु मौक्तीं च दधती व्यनक्षि श्री(रब्धे)र्लयमनुवहन्ति स्त्रिय इति ॥ १७॥ सुमोल्लासो हासो भ्रमरनिकरास्तेऽम्ब चिकुरा मधुद्रोणी वाणी भगवति करौ पल्लववरौ । भुजौ शाखाभेदौ नखमुखततिः कोरकतति- स्ततो मन्येऽम्ब त्वां मनसि ललितां कल्पलतिकाम् ॥ १८॥ त्रं वक्त्रं वचनरचने माधवरुचिः कचः कृष्णश्चक्रप्रकृतिमपि रोमालिरयते । वलग्ने संलग्ना हरिविहतिरित्यम्ब सततं पदं धत्तां चित्ताम्बुरुहि मम ते विष्णुमयता ॥ १९॥ सुधांशुस्ते वक्त्रं सुमविलसितं मन्दहसितं सुधा वाणी वेणी सुरपतिमणीभङ्गसरणिः । सुषिर्नाभिर्बाहू सुरतरुलतासुन्दरतमौ सुवर्णप्रागल्भ्यं तव जननि गात्रेषु जयति ॥ २०॥ त्रिवृद्भावं पञ्चीभवनमपि च क्वापि समये यतः स्वैरं नारायणि तव बरीभर्ति कबरी । तमो नाम श्यामं त्रिगुणसमतायां यदुदितं जगन्मातस्तत् ते तदिति हृदि तां निश्चिनुमहे ॥ २१॥ सुधासान्द्रश्चन्द्रस्तव सुमुखतां प्राप्य नतदृक् चकोरीनारीणां मुदमपि धुरीणां रचयति । इति श्रुत्वा मत्वा स्वयमपि तदाशिश्रयिषयो- दितां श्यामां श्यामां तव किरणयामाम्ब कबरीम् ॥ २२॥ किरीटाद्रेर्नीलोपलफलकसोपानपटली शिरःपश्चाच्चक्रद्युमणितनुसञ्जातयमुना । श्रियं दद्यादुद्यत्सदनकमलामोदवशव- र्त्यलिश्रेणी वेणी रतिपतिकृपाणी जननि ते ॥ २३॥ मणीभूषावेषावरुणहरिणाङ्कौ निगलितौ तमःश्रेणी वेणीघृतमकृत सीमन्तमभितः । जगन्मातर्यत्तत्तिमिरनिगलोपाङ्गवलय- प्रणालीवाराली भवदलकपाली विजयते ॥ २४॥ गरादुग्रे व्यग्रे गलति गतभीः कन्तुरुदधे- र्जनित्रीभिःस्त्रीभिर्जितवलभिदाप्त्वेन्द्रजिदिति । प्रथां कृष्णं जिष्णुस्तव जननि वेणीकपटतो- ऽसृजन्मायामेघावलिमुदितशैलीमुखरुचिम् ॥ २५॥ स्फुरच्चूडारत्नद्युमणियमुनायाः कचतते- स्त्रिकाकुल्या श्रोणीगिरियुगलगा तेऽम्ब जयतु । कलां कालोन्मीलत्कनककदलीकन्दलदला- न्तरालीनां लीनामिव पिदधती या विलसति ॥ २६॥ महानीलावाले मृगमदरजोलेशकलिते जलं काले काले रविदुहितुरालिप्य च यदि । तमालं पुष्णीयुर्यदि च परिपुष्येत् स कमले तदा तन्मञ्जर्यः कथमपि दधीरन् कचरुचिम् ॥ २७॥ अहेर्जेता बर्हिःस्थितिभृदिनजातानुकृतिरु- त्पलादेशः पाशी मरुदधिपतिः श्रीदविभवः । शिवः स्रष्टा कृष्णस्तव कचभरोऽष्टावपि दिशां पतीन् मूर्तीस्तिस्रः स्वयमनुविधत्ते भगवति ॥ २८॥ हलाघाताद् भीतां शरणमुपयातां विनिहितां त्वया पश्चाद्भागेऽवितुमकरुणोद्यत्करुणया । रवेः कन्यां मन्यामह उदधिजे तेऽम्ब कबरीं भयात् कृष्णा वेणीत्यनुकलितनामान्तरधृतिम् ॥ २९॥ सुवासघ्रीचीभिर्वचनरचनाभिर्निचुलितं लसद्भासोल्लासच्छविशमितनम्रार्तितिमिरम् । शशाङ्कं शङ्कन्तां कतिचन मुखं तेऽम्बुजसखं न चैतत् सम्मन्ये स हि जननि जन्मादिकुटिलः ॥ ३०॥ जले स्थित्वा कृत्वा मुखमभिमुखं चापि सवितु- र्भ्रमद्भृङ्गारावच्छलमनुजपाप्याप नलिनी । न ते वक्त्रच्छायालवमपि निजे स्मेरजलजे विधौ वैरं स्वैरं वहति न तपोऽप्यम्ब भवति ॥ ३१॥ सदादर्शस्फूर्तिं दधति वदने तेऽब्जसदने क्व चन्द्रस्योन्मेषः सम इति कथा तस्य वितथा । जगन्मातस्तस्मात् स बहुलकृशस्तावकमुख- श्रियै धत्ते तप्तं भवशिरसि गीर्वाणशिरसि ॥ ३२॥ सदा नासामुक्ताभरणमिषरोहिण्युपगतं पतिं दृष्ट्वा वक्रं परुषरुषमेकत्र मिलिताम् । चहन्तीं तारालीमिव सवुसृणां मौक्तिकमयीं ललन्तीं श्रीकान्ते तव जयतु सीमन्तसरणिः ॥ ३३॥ मणीताटङ्काञ्चच्छुरणकचनीलावरणस-- द्रदश्रेणीमुक्ताच्छुरणसुपथे मन्मथरथे । वचोविज्ञेयाश्चे तव मुखमये पार्श्वकलितं कपोलद्वन्द्वं ते मुकुरयुगमम्बामनुमहे ॥ ३४॥ जयन् मूर्तीस्तिस्रस्तिसृभिरिषुभिर्मध्यफलके लिखन् रोमालीं ते जयलिपिमुदीर्णत्रिवलिकाम् । स्मरः श्रान्त्यानेनाननशशिनि दत्तौ सकमलो- त्पलारोपौ रोपौ किमु जननि दृग्भ्रूयुगमिदम् ॥ ३५॥ महासौरभ्यं ते मुखनलिनमास्वादितुमणो- रणीयस्त्वादास्ते किमु तिलकरूपेण स हरिः । भवत्फाले नो चेन्निरतिशयसौरभ्यभरिते प्रकर्षः कस्तूर्याः क इव भविता लोकजननि ॥ ३६॥ भवद्वक्त्रच्छायां कलयितुमिहाम्भोजशशिनौ तपस्तप्त्वा रात्रिन्दिवमनुकल पुष्करतटे । गतावर्थानर्थौ परिमलकलङ्कप्रसरणा- दतो हेतोरेतौ मम जननि वैरं कलयतः ॥ ३७॥ न सौरभ्यं चन्द्रे न च सरसिजे रम्यममृतं सदादर्शश्चाम्भोरुह वनविहारैकरसिके । विधत्ते कस्तूरीतिलककलने सेवकविधिं ततस्ते वक्त्रेन्दोरुपमितिपदं व्योमकमलम् ॥ ३८॥ वृषोल्लासावासं तव वदनचन्द्रं भ्रमरकै- र्वृतं साम्यं प्रेप्सन्नलिकुलयुतः सन्नुपगतः । ततो राकाचन्द्रो मम जननि दैवज्ञविबुधै- रिहोच्चोऽयं नीचोऽयमिति विवृणद्भिः परिहृतः ॥ ३९॥ हरेर्वक्षोभागे कमलदलमाल्यभ्रमभृतः श्रयद्दारिद्र्याद्र्युद्दलनशतकोटिप्रसृतयः । ददन्तां कल्याणं मम जलधिकन्ये जननि ते कटाक्षाः कालिन्दीकुवलकुलकूलङ्कषरुचः ॥ ४०॥ कुरङ्गस्ते रङ्गेश्वरि नयनश‍ृङ्गारविजितो जहत्तन्द्रं चन्द्रं शरणमगमत् त्वन्मुखरुचा । स चापास्तो हस्तार्पितमकृत शम्भोर्मृगमतः स्फुरत्स्वैश्वर्येष्वष्टसु चरति भिक्षां पशुपतिः ॥ ४१॥ दृशोस्ते साम्येप्सर्भगवति चकोरैः सह मृगो भवद्वक्त्रामित्रं ह्यकृत शरणं शीतकिरणम् । इति द्वेषादास्ये मृगमदमदास्तस्य रुधिरं ध्रुवं नो चेत् का स्यादुपकृतिरिहात्यन्तसुरभौ ॥ ४२॥ श्रुतिश्रेणीवेणीकुसुमरसपा णिङ्गय(म) पद- प्रवालश्रीर्नीलोत्पलविसदृशौ तावकदृशौ । शिशू खञ्जन्या इत्यनुमनुमहे यत्प्रसरणा- स्पदे नृत्यन्त्य(न्ये) सदवधयः सिद्धिनिधयः ॥ ४३॥ पुरा पारावारे स्फुरदमृतसारे समुदितः सरोजानां द्रोग्घा जननि भवती चेत्यश‍ृणवम् । करोषि त्वं दृष्ट्या कलितदरहासप्रसरया परं सिन्धूनिन्दून् भगवति सुधैकात्मवपुषः ॥ ४४॥ दशाकृत्या सत्त्वं नखरमिषतोऽलक्तकमिषा- द्वजो रक्तं व्यक्तं भगवति पदो तेऽश्रयदिति । तमोऽक्ष्णोरर्केन्द्वोः शरणमगमत् कज्जलमयं न चेत् त्वद्दृष्टानां कथमिव तमोऽम्ब प्रसरति ॥ ४५॥ धनुर्मीनौ भ्रूदृग्युगमजनिषातां समकरौ कुचौ कुम्भौ श्रोणी कटकमिथुनाभां कलयतः । कचेऽस्त्युन्मेषोऽलिश्रित उदधिकन्ये कृतषिय- स्तदेते सूक्ष्मत्वाज्जननि न-वलग्नं विवृणुते ॥ ४६॥ स्वदृक्शीताशीतांश्चनुकलननेमस्फुटमुखो- न्मरन्दस्ते हस्ते सितकमलकोशोऽतिललितः । महालोकानीकात्मक शिशुपरीपोषधृतस- त्पयःशङ्खाशङ्कां दधदखिलपुष्टिं दिशतु नः ॥ ४७॥ फणावत्पर्यङ्कप्रणयिनि तवापाङ्गतुलना- गुणाकाङ्क्षं स्वेन्दीवरमुपनतार्थं कलयितुम् । स्वबिम्बावालान्तर्न्यधित सुवया पुष्टिमयता- मिति स्तोकालोकास्तदुपगतिमङ्कं विवृणते ॥ ४८॥ त्रयो भागाः प्राप्ता इति दनुसुतानां दिविषदां सुधायां तत्र द्वावसुरविषयावन्तरदधात् । दृशोस्ते मोहिन्याकृतिरुदधिकन्ये तव पति- स्तवापाङ्गासङ्गात् तदिह जगदानन्दमयते ॥ ४९॥ जगुः प्रत्नं रत्नं कतिचिदपरे विद्रुमदलं परे बिम्बं निम्बच्छदनसदृशभ्रूर्भुगवति । तवोष्ठं वक्त्रेन्दोः सविधभुवि भक्त्यौषधिकुलैः परिन्यस्तं मन्ये ललितमुपदापल्लवमिति ॥ ५०॥ पयः पारावारे फणिनि शयितायाः सदयितं सुधाभिर्गण्डूषानुषसि रचयन्त्या रुचिलवाः । तवोष्ठाद्ये मिश्राः पयसि त इमे शैलकषणाद् बहिर्वेलं न्यस्ता जननि दधते विद्रुमपदम् ॥ ५१॥ पुरा पारावारं मथितवति वर्गे दिविषदां विभज्यादान्मोदादमितममृतं यो भगवति । जिताविद्यां विद्यामपि कलयतां योऽमृतमदा- दहो बिम्बोष्ठात् ते मधुरममृतं वष्टि स हरिः ॥ ५२॥ सुधां प्रेप्सन्नब्धेः सलिलमुपगृह्याम्बुदमयैः करैर्मुक्तासारो यदमृतमुपादत्त तरणिः । बलाद् दर्शे गृह्णात्युदधितनये तत्सुहृदि ते मुखे न्यासं कर्तुं रदनवसनान्तस्त्वदनुजः ॥ ५३॥ हरिः साक्षाल्लाक्षालसितमलिकं वीक्ष्य भवतीं भवद्रोषोन्मेषां यदरुणिमलीलामपदिशन् । प्रसन्नां त्वां कृत्वा समरमत मायी त्वदधरः समे दद्यादद्यानुपमविभवानम्ब जगताम् ॥ ५४॥ इयं साक्षान्मोक्षस्रुतिररुणबिम्बा त्वदधरा- दुपर्यास्ये चन्द्रे स्मितमहसि साङ्के तिलकतः । ललन्ती मुक्तालिर्जननि कनकाकल्पतटिता श्रितं वेणी श्रेणीकृतिवरुणलोकं प्रसजति ॥ ५५॥ स्वयं सारग्राही हरिरुदधिसम्बन्धनविधा- वधाद् रम्भादिस्त्रीः सुरपतिगृहे त्वां तु जगृहे । व्यभाङ्क्षीन्निःसारं त्वमृतममरेभ्यस्त्वदधरे सुवां रस्यां पास्यञ्जननि मम सौभाग्यजननि ॥ ५६॥ सरोजावासिन्या रदनवसनस्य प्रतिमितौ गिरां भावं तावद् विरमयत श‍ृङ्गारकवयः । शरच्चन्द्रे यावद् दिनदिनमनुप्लुत्य सुधया प्ररोहन् पुण्ड्रेक्षुः फलति फलमारुण्यभरितम् ॥ ५७॥ मम श्रेयो भूयो वितरतु सुधासिन्धुदुहितु- र्महीयान् बिम्बोष्ठः प्रणमदभयालापमधुरः । यमुत्प्रेक्षाञ्चक्रे हरिरिह रदैर्मौक्तिकवृते सुधापारावारे स्मितवपुषि चिन्तामणिरिति ॥ ५८॥ जपाटोपादाप्तं (त्तं) भवदधरबिम्बेन मधुजि- त्पदं मुक्ता जातास्तदनुकलनादेव च रदाः । अदः साङ्गत्येन स्मितमविरतोल्लासभरितं न चित्रं यन्मातर्भजति सुमनःसम्पदमिति ॥ ५९॥ जगन्मान्ये मन्ये जननि जलजातप्रहरणो जगन्नेतुश्चेतोमृगमृगयुरेतन्निपतितम् । भवन्नाभीमध्ये निजहृदि विदन्नाक्षिपदुप- र्यहो कुन्तं रोमावलिघपुषमैन्दीवरमिति ॥ ६०॥ रतिः कामश्चेमावसिततमरोमालिशिलया मिते मध्यक्षेत्रे प्रथमरससस्यान्यतनुताम् । यतो वक्षोऽन्तस्तत्कलितफलराशिद्वयमिदं जगन्मातः स्फीतस्तनयुगलरूपेण लसति ॥ ६१॥ फणीशानक्षोणीधररमणमन्दारविटप- द्भुजालम्बामम्ब त्रिभुवनसमुज्जीवनलप्ताम् । तनूं विद्मः पद्मे तव यदुदितोरोजफलयोः पदं रोमालीदोहदमृदुलधूमालिरयते ॥ ६२॥ ग्रहोत्कर्षामर्षात् तव नयनदाक्षिण्यविरहं विदन्निन्दुः पत्नीः प्रपदनपरास्तेऽम्ब पदयोः । नखाकृत्या कृत्वा तव सुमुखतां प्रापदिति त- तकलङ्कं रोमालीं त्वमसि किमु गर्भीकृतवती ॥ ६३॥ द्विजानां राजायं तव वदनतामेत्य महितां विधाय स्वं भास्वत्करगतमरिद्वन्द्वमनिशम् । बलाद् गृह्णन् रोमावलिमयतमः श‍ृङ्खलिकया न्यबध्नादम्बास्या वलय इव नाभिर्विलसति ॥ ६४॥ जयश्रीरोमालीं स्मरनृपकनत्कञ्चुकपटी- कुटीबद्धां रज्जुं कतिचिदसितां तेऽभिदधताम् । कुचौ लीलाशैलौ प्रतिरति रतीशोपकलितां क्रमोन्मूलं नीलोपलसरणिमेनां मनुमहे ॥ ६५॥ प्रभोः पञ्चास्त्रस्य स्तनगिरिजुषः केतनकृते ध्रुवं नीतो नाभीसरससरसः कोऽपि मकरः । यदङ्घ्र्याग्रालग्ना नयनसमयाकृष्टवितता लताशैवालीव स्फुरति तव रोमालिरनघे ॥ ६६॥ स्मरः सत्या रत्या सह कुचगिरिप्रान्तभुवि ते चरन् बन्धं कञ्चिद् विहरति किमीप्सुर्हरजितम् । सुतं यस्मादम्बापतति निभृता बन्धरततत्- पृथुश्रोणीवेणी स्फुरति तव रोमावलिमयी ॥ ६७॥ जगद्रक्षाशिक्षाद्यनुगुणगुणालानगलितं हरेश्चित्तं मत्तद्विपमुरुकुचाद्र्यन्तरगतम् । पथा नेतुं चेतोभवभृतिभृता पाणिविधृता रमे रोमालिस्ते ध्रुवमजनि नीलोत्पलसृणिः ॥ ६८॥ रमे नेयं नाभिः स्मरविरचितावालवलयो न रोमाली तस्मिन्नुपजनितश‍ृङ्गारलतिका । स्तनौ नेमौ तस्यां रथपद विहङ्गद्वयमिदं मुखेन्दोरालोकान्निभृतमिव भीत्या विलसति ॥ ६९॥ असङ्ख्याका लोकास्तव जननि पाका इति कृपा- मपारां बिभ्राणा समुदमुदयन्ती जलनिधेः । सहामूभ्यां चाभ्याममृतकलशाभ्यां पृथुलसत्- कुचाभ्यामध्यष्ठाः किमु विपुलवक्षो भगवतः ॥ ७०॥ हरे रक्षोदक्षोत्करहृदयविक्षोभकरव- स्फुरद्वीरो नैवान्वभवमिह श‍ृङ्गारमिति किम् । तपस्तप्त्वा शङ्खो जननि गलतामेत्य किल ते ययौ श‍ृङ्गारित्वं मुरहरकराश्लेषवशतः ॥ ७१॥ तव स्थानं पद्मं तव च तनयः पद्मवसतिः करे धत्ते चैतत् तदिदमिह कर्णाग्रनिहितम् । वितन्यात् पैशुन्यं स्वविषय इतीन्दुर्द्विरुदगात् समुक्ताताटङ्काकृतिरवहितस्ते श्रवणयोः ॥ ७२॥ सुधासध्रीचीनप्रचुरवचनालीविरचना- नदीपारावारीभवदधरबिम्बान्तिकभुवोः । तरङ्गग्रन्यस्ता क्रमिकनवमुक्तावलिरिव स्फुरन्ती लक्ष्मि स्तान्मम शुभकरी दन्तसरणिः ॥ ७३॥ धृतोन्मेषस्त्वेष प्रसभमरुणोऽम्ब त्वदधरो वृषातन्द्रश्चन्द्रो मुखमुदधिकन्ये बुधनुते । जगन्मान्यश्रोणीकटकगुरुभावः परमनु- ग्रहोच्चत्वं कस्ते जननि विवरीतुं प्रभवति ॥ ७४॥ त्वया पद्मं सद्मीकृतमिति तदाश्रित्य सततं मृणाली त्वद्बाहुद्वयमृदुलतां काममयताम् । न तत् तस्याः शस्यं भवति जडसंसक्तविहृते- रिति ज्ञात्वा हंसास्तव गतिविदस्तां विलुनते ॥ ७५॥ जगत्कर्ता भर्ता तव तदखिलं च त्वदुदरा- दुदीतं तच्चाणु ध्रुवमिति विदन् गौतममुनिः । जगन्मूलं हे श्रीरणुममनुतैतन्न हि मृषा हरिश्चाप्यस्य स्त्रीं चरणपरमाणोरजनयत् ॥ ७६॥ गतेयत्तं चित्तं प्रणतजनताया घटयितुं भवद्रागाभोगौ भगवति करौ ते मनुमहे । ययोरेकैकस्मिन्नपि विशदयन्त्यङ्गुलिलता- प्रपञ्चः पञ्चानामिह सुरतरूणां श्रित इति ॥ ७७॥ यदालम्बा अम्ब प्रचुरवृजिनाश्चापि न पुन- र्भवासङ्गं सङ्गृह्णत इति वदन्ति श्रुतिगणाः । प्रपन्नौ तावेतौ तव मृदुकरौ सन्ततपुन- र्भवासङ्गं रङ्गक्षितिरमणश‍ृङ्गारगृहिणि ॥ ७८॥ बिभीमः पापेभ्यो न वयमवयन्तस्तव दयां यतस्ते हस्ताब्जे जननि वरविश्राणनविधौ । समाह्वानं कुर्वन् खलखलखलेत्येवमभयं भवत्या भक्तानां कथयति कनत्कङ्कणगणः ॥ ७९॥ मनोवाक्चेष्टाभिर्मम जननि शेषाचलपतेः प्रतीपं नैवापः कथमपि कदाचित् क्वचिदिति । व्रतं श्रुत्या सत्यापितमपि स म(त)त्याज हि कुतो यतो मुक्ताहारं त्वमुपरि कुचेऽलङ्कृतवती ॥ ८०॥ स्मितक्षीराम्भोधिः समजनि मुखेन्दोर्विकसितो- त्पलाभ्यां ते दृग्भ्यामपि समुदितापाङ्गयमुना । स्तनाद्री प्रासूत स्तबकव(द)सौ रोमलतिका रमे चित्रं कार्यात् करणजनिरेषा वपुषि ते ॥ ८१॥ सशर्वाणी वाणी मघवशुकवाणीमुखनम- त्सुरीवेणीश्रेणीपटुनटनमाणिक्यकटकम् । मनोवृत्त्या धृत्या मम समनुसृत्यापि तव पत्- सरोजं दध्रे श्रीः किमु कमलिनीभावविभवम् ॥ ८२॥ महापद्मे पद्मे सततकृतसद्मे यदुदिते मुकुन्दः शङ्खेनाभ्यषिचदलिनीलोपरकृते । प्रपद्ये पादाब्जं मकरकलितं कच्छपयुतं तदेतद् यत्सङ्गाद् भवति नवनिक्षेपविभवः ॥ ८३॥ प्रभोः प्राभून्नाभेर्नभ इति बभाषे भगवती श्रुतिः साभून्मध्यान्नभस इति बाभाति हृदि नः । हृदश्चन्द्रः सान्द्रोऽभवदिति तयाभाणि कमले नखालिस्ते चन्द्रान्नियुतमयुतं चापि सृजति ॥ ८४॥ कदाचित्कैलासे जननि विचरन्त्यां त्वयि पद- श्रिया शोणेनायं रजतगिरिरेषोऽरुण इति । भ्रमाद्रुद्रेऽन्याद्रिं जिगमिषति ते मन्दहसितं पुना रौप्यं कृत्वारुणदिति रमे संश‍ृणुमहे ॥ ८५॥ महीयस्यां यस्यां पृथगधित गानोपनिषदा नमः शर्वे खर्वेतरविनयपूर्वं रचयति । रमे चूडाचुम्बी शशधरशिशुः सा च तटिनी नखानां तां कान्तिं क इव विवरीतुं प्रभवति ॥ ८६॥ कला कापि त्वं श्रीः किसलयपदा कीर्तिमहिता कुमार्यब्धेः कूर्मप्रपद्दलसिता केशवयुता । त्विषां कोटिः कैशिक्यसि सपदि ते कौतुकमयः कटाक्षः कल्याणीः करकनकधाराः किरतु नः ॥ ८७॥ ध्रुवं धावन्धावं धृतपरिभवं सम्प्रति भवं नवं नावन्नावं नमदनुभवं तेऽम्ब विभवम् । अचं जीवञ्जीवं शशभृदुपजीवन्तमिव मां कटाक्षः कल्याणीः करकनकधाराः किरतु नः ॥ ८८॥ वरं वारन्धारं प्रपदनमरं रञ्जितवतां धुरं धारन्धारं प्रघणभुवि रंरंस्यस इति । स्तुते पारं रङ्गेश्वरि तव कटाक्षोऽचिरमसून् द्विषां छिन्दन् भिन्दन्नपि भसितसात्कृत्य रमताम् ॥ ८९॥ स्वयं ध्यायन्ध्यायं सुगुणसमुदायं रसमयं वयं पायम्पायं सदमृतमयं श्रीरिति पदम् । प्रहृष्यामः सायन्तनविकचमल्लीरसमिरुत्- कबर्यम्बालम्ब सधनमविलम्बं वितर नः ॥ ९०॥ नमन्मुक्ताकारं मम हृदयशुक्तौ जननि ते शरीरं तं मन्त्रं स्वयमपुनरुक्तं बहु जपन् । प्रपद्ये सद्यस्त्वां तुरगरथहस्त्यादिबहुलां तवापाङ्गस्तुङ्गस्थिरकनकधारां दिशतु नः ॥ ९१॥ सुधासिन्धौ सन्धौ फणिपफणमाणिक्यमहसां परीरम्भारम्भानुभवसुभगं भावुकहृदा । लसद्रत्याः पत्या श्रिय उदयदानन्दकलिकः कटाक्षः कल्याणीं कलयतु स नः काञ्चनखनिम् ॥ ९२॥ जहन्मूल्यं माल्यं सकुतुकमलौल्यं वितरितु- र्हरेर्योऽभूद्योऽभादपि चिपिटमुष्टिं वितरतः । यदालम्बः शम्बप्रहरणवतः कोऽपि विभवः कटाक्षोऽसौ लक्ष्म्याः पृथुलधनधारा दिशतु नः ॥ ९३॥ श्रियां दातुर्जेतुः श्रितसुरतरोरण्णयगुरोः स्वयं जिह्वासिंहासनमधिगता मे भगवती । मनोमूर्तिः श्रीस्ते मनसि विलसन्ती विगलित- प्रपन्नार्तिस्फूर्तिर्वसुविसरपूर्तिं दिशतु नः ॥ ९४॥ शिशोरिष्टां चेष्टां जगति जननीवालिकलनां लता पद्मस्येव त्वसि मम कृपावारिधिमयी । वचः पूजाव्याजाद्रचितमपचारं मम रमे क्षमित्वा कल्याणीं करकनकधारां वितर नः ॥ ९५॥ अतिप्रत्नै रत्नै ....रत्नैः सुरुचिरैः कृतोन्मेषा भूषाः सुतटिदविशेषा धृतवती । स्फुरन्ती पद्मान्तर्मम कनकवर्षाणि किरती रमेथास्त्रायेथा हरिपुरुषकारैकरसिके ॥ ९६॥ त्रयीसौधे गाधे शठमथनगाथेष्टसरणौ स्थिरश्रीमद्रामानुजमुनिवचः पुष्पशयने । शयाना तन्वाना भगवत इहानन्दमयतां कटाक्षैवीक्षेथाः प्रपदनयुतां दासजनताम् ॥ ९७॥ कृतानन्दस्यन्दं कनकजलधाराजलघरं कटाक्षं लक्ष्मि त्वं कलय मयि कारुण्यविवशा । विषक्तो यस्यासौ करितुरगरत्नालिभरित- स्त्रयाणां लोकानां दिशति वरसाम्राज्यविभवम् ॥ ९८॥ इति श्रीलक्ष्मीस्तवः समाप्तः । स्तोत्रसमुच्चयः २ (८६) The Lakmlstava (86) in ninety-eight verses in the SikharinI metre is probably a work of Bukkapattanam Venkatacharya, the author of the other work in the codex. He mentions the name of Surapuram Annayacharya in this stotra (v. 94). Proofread by Rajesh Thyagarajan
% Text title            : Lakshmi Stava
% File name             : lakShmIstavaH.itx
% itxtitle              : lakShmIstavaH
% engtitle              : lakShmIstavaH
% Category              : devii, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org