लक्ष्मीस्तोत्रम् वेङ्कटेशकाव्यकलापान्तर्गतम्
% ३
श्रियं श्रीवेङ्कटेशस्य श्रीनिवासस्य वल्लभाम् ।
ईश्वरीं सर्वभूतानामाश्रये विश्वमातरम् ॥ १॥
विष्णोर्विचित्रचिदचिन्मिश्रविश्वविधिश्रमः ।
सफलस्सकृदालोकाद्यस्यास्तस्यै नमः श्रियै ॥ २॥
यस्या मुग्धकटाक्षदुग्धकणिका न्यूनाधिकोदञ्चिताः
द्वित्राः कुत्रचिदेकतस्त्रिचतुराः किञ्चान्यतः पञ्चषाः ।
ब्रह्मेशेन्द्रमुखामरान्नरपतींश्चोच्चावचश्रीजुषः
कुर्वन्त्याश्रितवत्सलां भगवतीं तामाश्रयामः श्रियम् ॥ ३॥
अस्तोकस्तबका स्तनद्वयमिषात् पाणिप्रवालोज्ज्वला
रोमालीललितालिअपङ्क्तिमहिता बाहुप्रतानाञ्चिता ।
सामोदा हरिकल्पवृक्षविपुलोपघ्ना वृषाद्रेस्तटे
लक्ष्मीकल्पलता स्थिरा मयि कृपावीक्षाप्रसूनं क्षिपेत् ॥ ४॥
स्वैरोद्वेलकृपाकटाक्षसुधया सम्प्लावयन्त्या जगत्
लक्ष्म्यास्तौ चरणौ प्रपन्नसुलभौ स्तोतुं प्रयस्याम्यहम् ।
यल्लाक्षारसलक्ष्म वक्षसि हरेर्वीक्ष्यैव साक्षात्परं
ब्रह्मेदं जगदेककारणमिति त्रय्यन्तवर्गा जगुः ॥ ५॥
वेदान्ता विबुधाश्चतुर्मुखमुखास्सन्तस्सनन्दादयः
व्यासाद्या मुनयश्च सूरिनिवहा लक्ष्मीपतिर्वा स्वयम् ।
सर्वे यन्महिमामृताब्धिकणिकेयत्तां न वेत्तुं क्षमाः
तां लक्ष्मीमनपत्रपः कथयितुं वाञ्छामि धिङ्मां कविम् ॥ ६॥
मातङ्गस्सुमहानणुश्च मशकः पातुं प्रवृत्तौ तृषा
दुग्धाब्धिं पिबतस्स्वशक्त्यनुगुणं कृत्स्नं न पातुं क्षमौ ।
मातर्लक्ष्मि तव प्रभावजलधौ ब्रह्माऽप्यहं चेदृशौ
यज्ञानादिषु तारतम्यमुभयोर्नौ तेन किं साधितम् ॥ ७॥
मुग्धस्तनन्धयमुखात् प्रथमोदिता वाक्
अव्यक्तवर्णमधुरा स्वदते हि मात्रे ।
श्रीरम्ब तद्वदतिमौग्ध्यकृता स्तुतिर्मे
त्वत्कर्णवर्त्मनि वमेदमृतस्य धाराम् ॥ ८॥
सुधाधारासेकादिव सुखितकर्णाः सुकवयः
स्तुवीरन् याः श्रुत्वा सपदि सशिरःकम्पमवशाः ।
तथाभूता मातरस्तुतिवचनभङ्गीस्त्वदुचिताः
विधातुं मे शक्तिं वितर वृषशैलेशदयिते ॥ ९॥
महितमहसः पङ्के मग्नान्मणीनिव चेतनान्
प्रलयतमसा गाढं गूढानसत्समतां गतान् ।
न यदि भवती मातः पश्येद्दयार्द्रदृगञ्चला
कथमिव भवेत्सत्ता तेषां पुमर्थकथा कुतः ॥ १०॥
अस्येशाना जगत इति या विश्रुता विश्वगोप्त्री
सत्यं सा त्वं भवसि कमले विष्णुपत्नीत्यनूक्तेः ।
तस्या मातस्तव परिजनेप्वात्मसु प्रेमबन्धः
तद्वात्सल्यं निरवधिकृपा सर्वमेतन्न चित्रम् ॥ ११॥
श्रुतिशिरोवरकोशगृहाहितान् स्मृतिपुराणसुदीपविदीपितान् ।
स्फुरिततावकदिव्यगुणान् मणीन् स्वहृदये सुधियो दधतीन्दिरे ॥ १२॥
रस्यं गवामपि पयो रसनोपघातात्
पैत्येन तिक्तमिति वक्ति यथा तथाऽपि हि ।
तत्त्वं परं त्वदुपगूढमपोढहेयं
हेयास्पदं वदति कश्चन गाढपापः ॥ १३॥
नित्योदञ्चितचञ्चरीकनिनदां नीरन्ध्रपुष्पद्रुमां
निर्यन्निर्झरशीतलां वृषगिरेरुत्तुङ्गशृङ्गस्थलीम् ।
कृत्वा केलिगृहं रमे रमयसे सर्वेश्वरं त्वत्प्रियं
भोगोपक्रमविभ्रमभ्रमिमुखे भग्नं मुहुः कुर्वती ॥ १४॥
मधुकरमौलिदघ्नमकरन्दरसप्रसर-
प्रकलितभूलसेकपरिबृंहितपुष्पवने ।
विरचितपादचारमिह वेङ्कटशैलतटे
विहरसि देवि लक्ष्मि करलम्बितकान्तकरा ॥ १५॥
कमलपलाशदेश्यपरिपेशलचिह्नपद -
द्वितयनिवेशनाङ्कपरिकर्मपवित्रशिलाः ।
तव च तव प्रियस्य विनमन्ति वृषाद्रितटे
विकचकुशेशयोदरविहारिणि सर्वसुराः ॥ १६॥
उपनिषदां सहस्रमुपबृंहणमप्यखिलं
वदति परोक्षमम्ब दयितेन समं भवतीम् ।
अथ पुनरञ्जनाद्रिरपरोक्षमवेक्षयते
शरणमयासिषं तमधिकाद्भुतभूमिमहम् ॥ १७॥
त्वयि वृषशैलसीम्नि कुसुमापचयावसरे
दयितविलोभनाय धृतदिव्यलतावपुषि ।
पतिरपि ते प्रगल्भमतिरेत्य मधुव्रतताम्
अतिपतितान्यवल्लि भवतीमभिकामयते ॥ १८॥
सुतनु लुनाव पुष्पमधिकापचयेऽस्तु जयः
तव मम वेत्युदीर्य कुसुमानि लुनन् कमले ।
त्वदुदितनर्मसूक्तिरसनिघ्नमनाः प्रहसन्
प्रसवपराङ्मुखश्च विजितो वृषशैलपतिः ॥ १९॥
सहचरवेङ्कटेशकरनम्रितकल्पतरोः
अभिनवपुष्पजातमपचेतुमुदग्रमुखी ।
प्रियतममुग्धहासमुखचन्द्रविलोपितधीः
त्वमपचिनोषि तस्य मणिदाममहःप्रसवान् ॥ २०॥
जननि सखीसमक्षमुपगूहनलोलमतेः
तव पतिमिङ्गितज्ञमतिपुष्पितवृक्षतनुम् ।
सपुलककम्पघर्मसलिलादिविकारभृतः
कुचयुगतो निपीड्य कुसुमानि लुनासि शनैः ॥ २१॥
अन्तर्वसन्तमवलम्बितहेमशृङ्गां
आलिप्तकुङ्कुमकुचामरुणोत्तरीयाम् ।
आनीलवेणिमनुरूपसखीवृतां त्वां
आलोक्य विस्मयभरस्तिमितः पतिस्ते ॥ २२॥
प्राप्ता स्वामिसरः प्रसन्नसलिलं स्नातुं सह प्रेयसा
दृष्ट्वा स्वप्रतिबिम्बमम्ब सुभगं स्तब्धा प्रतिश्रीधिया ।
आस्फाल्या(म्बुनि) कम्पितेऽत्र विमतादृष्ट्या प्रसन्ना पुनः
पत्या निर्विशसि त्वमञ्जनगिरौ कीलाललीलारसम् ॥ २३॥
कान्तेन शृङ्गसलिलैस्सकृदुक्षितां त्वां
वीक्ष्यासहिष्णुभिरुपेत्य सखीजनैस्ते ।
पर्युक्षितः पतिरनारतमम्बुवृष्ट्या
निर्णिक्तनीलमणिशैलरुचिं दधाति ॥ २४॥
सिञ्चन्त्यां करवारिणा प्रियमुखं त्वाय्येकया हेलया
सिञ्चन्तीष्वभितः सखीष्वपि निरुच्छवासो निमज्ज्यान्यतः ।
उन्मज्ज्य स्मितफुल्लगण्डफलकां त्वां पुण्डरीकेक्षणः
पश्यन् साञ्जलि वारयत्यभियतीं भूयश्च सेकोत्सुकाम् ॥ २५॥
यस्ते श्रीः पुष्पमेकं चरणकमलयोरर्पयेद्भूतिकामो
वज्रालङ्कारहस्तस्स खलु सुरपुरीवीधिकाभ्यन्तरेषु ।
दिव्यस्त्रीभिस्स्वहस्तैरचिरमुपचितैः पारिजातप्रसूनैः
आरादाकीर्यमाणश्चरति सुरपतिस्स्वैरमैरावतेन ॥ २६॥
सम्पत्कामस्सकृत्त्वां प्रणमति कमले या (यो) यदृच्छाप्रवृत्तिः
सोयं हंसाधिरूढः प्रतिदिशवदनो भारतीप्राणनाथः ।
ब्रह्माण्डैकाधिपत्यस्मयकृतविकृतिः सेव्यते (साव)रायैः (रोधैः)
देवैर्दिक्पालमुख्यैरधिगतविनयैरञ्जलिव्यग्रहस्तैः ॥ २७॥
यो वा कश्चिज्जातु काम्येष्वकामो
भूयिष्ठां ते नमौक्ति विध(त्ते) ।
(दत्त्वा तस्मै) देवि भोगापवर्गौ
न त्वं दृ(तृ)प्ता कीदृगौदार्यमेतत् ॥ २८॥
कश्चित्त्वाश्चर्यबुद्धिः कबलयति कला याश्चतुष्षष्टिसङ्ख्याः
कश्चि(त्त्वत्यन्तमन्दः पिककरटभिदा)न्नेव(न्नैव) शक्तो विवेक्तुम् ।
कोऽप्यन्यस्सार्वभौमो भुवमनुभवति क्षुत्कृशः कोऽपि भिक्षुः
वैषम्यस्यास्य हेतुर्भगवति कमले त्व(त्कटाक्षाकटाक्षौ) ॥ २९॥
कनकलतेव नीलमणिशैलविशालतटं
कपिशिमदीप्रकम्रकलिकेव तमालतरुम् ।
अभिनवमम्बुवाहमचलेव तटिल्लतिका
मुरजिदुरः पयोधि(दुहि)तः परिभावयसे ॥ ३०॥
अमृतलहरीमालालीलाविजित्वरविभ्रमैः
शिशिरमधुरैः श्रीरम्ब त्वत्प्रतिक्षणवीक्षणैः ।
उपचितमहाबाहाशाखश्शुचि (स्मित) का(को)रकः
फलतु भजतां तत्तत्कामांस्तव प्रियकल्पकः ॥ ३१॥
अयि वृषगिरेरुच्चैशृङ्गाग्रमङ्गलदीपिके
निजपरिजनस्त्रीनेत्राणां निरन्तर चन्द्रिके ।
भवहुतवहज्वालार्तानां सुधामयदीर्घिके
जय जय जगज्जन्ये धन्ये जनार्दनजीविके ॥ ३२॥
नारीणामुत्तमा त्वं पतिरपि पुरुषेषूत्तमस्ते विभूतिः
नित्या भोगाय लीलारसपरिणतये कल्पितैषा विभूतिः ।
भृत्या ब्रह्मादिदेवास्सहजपरिजनास्सूरयो नित्यशुद्धाः
(हे श्री)स्त्वद्भागधेयं निरवधिकमहं भावयेयं कथं वा ॥ ३३॥
मातर्महत्त्मतिवाङ्मनसंवत्वदीवयं
यस्यास्तव प्रणयरोषकषायितायाः ।
नीराज(य)म(त्य)रुणमङ्घ्रियुगं किरीट-
रत्नत्विषा निखिललोकपतिर्मुकुन्दः ॥ ३४॥
नानादेवादिदेहप्रकृतिपरिणतौ कर्मपाशेन बद्धान्
पर्यायेणोच्चनीचभ्रमितजलघटी(धारि) यन्त्रस्य नीत्या ।
ऊर्ध्वाधोलोकगत्या गतिजवविवशान् प्राणिनस्त्रातुमेतान्
को वाऽन्यश्शक्यशङ्कः प्रभुरिति कमले त्वत्सखाद्वेङ्कटेशात् ॥ ३५॥
दुर्लङ्घे दुःखसिन्धौ दुरनुभवमहाव्याधिभेदोत्तरङ्गे
सम्भग्नान्वीक्ष्य जीवान् सहजकरुणया प्रेरिता लोकमातः ।
कूपान्तर्मुग्धपुत्रं पतितमनुपतन्मातृवल्लोकमेतं
प्राप्ता वैकुण्ठधाम्नस्त्वमिह वृषगिरौ वर्तसे त्रातुमेतान् ॥ ३६॥
स्मितरुचिकौमुदीकवदनेन्दुरुदारवपुः
त्वरितमवातरद्य(रिष्य)दमृतेन न चेद्भवती ।
चलितचतुर्भुजस्य मथितोद्धतदुग्धनिधेः
ध्रुवमभविष्यदम्ब कमितुस्तव नीरसता ॥ ३७॥
प्रवहदमृतपूरात् प्रादुरासीः पयोधेः
अमृतमथनदान्तं मोहयन्ती मुकुन्दम् ।
अथ विपुलमयासीदन्तरं तस्य बाह्वोः
अनिमिषममराणां पश्यतां पद्मवासे ॥ ३८॥
सान्द्रार्द्रागसि संहितादनुगतादस्त्रादतित्रासिनि
भ्रान्त्वा सर्वजगत् सु(स्व)गोप्तृविरहात् काके पुरः पेतुषि ।
दृष्ट्वैनं जननि त्वया सदयया विज्ञाप्य वीरव्रतं
पत्युस्ते प्रतिबोधिता रघुकुलोत्तंसस्य पुंसः कृपा ॥ ३९॥
पद्मे परिष्कृतमतीं परिफुल्लदृष्टिं
सीतां समीक्ष्य जनकाङ्कनिषेदुषीं त्वाम् ।
त्वद्भ्रूविभङ्गविधिना विहितोपदेशः
शम्भोर्बभञ्ज धनुराशु रघुप्रवीरः ॥ ४०॥
रामो रमे तव कृते रघुवीरजाये
भोगीन्द्रभोगसुभगामुपधाय बाहाम् ।
आजानुबाहुरशयिष्ट तटे पयोधेः
प्रस्पर्धयन् प्रतिपयोधिरिव प्रसुप्तः ॥ ४१॥
श्रीरम्ब मैथिलि पतिस्तव धर्मपत्न्याः
प्राप्तेस्तिरोधिमुदधिं व्यतिलङ्घ्य वीरः ।
आलूय सङ्कुलमरातिकुलं समूलम्
आसीत्त्वदीयमुखपद्मविकासभास्वान् ॥ ४२॥
मातर्मनोनयन(रञ्ज)नदिव्यरूपः
कृष्णस्सतृष्णहृदयस्त्वयि भाववत्याम् ।
वीरो वहन्नुर्रसि वैरिशरान्महाजौ
त्वां रुक्मिणीमुदवहद्विजितारिलोकः ॥ ४३॥
आरभ्य शैशवमनारतमप्रयत्नात्
यत्पूतनादिविपदुत्तरणं मुरारेः ।
कल्याणि रुक्मिणि जगज्जननि त्वदीय-
मङ्गल्यसूत्रमहिमा खलु तत्र हेतुः ॥ ४४॥
जामाता पुरुषोत्तमस्सुसदृशो लक्ष्म्यास्सुताया ममे-
त्यानन्दैरुदितैरिवान्तरमितैस्तुङ्गैस्तरङ्गैर्वृतम् ।
दुग्धाब्धि पितरं तवाम्ब दयितः पश्यन्प्रभूताकृतिः
प्रत्यग्राम्बुजलोचनः फणिपतौ शेते नभश्श्यामलः ॥ ४५॥
भव्यं पद्मादिरूपं परिमलमपि चादाय सृष्टेव मृद्वी
पद्मे त्वन्नित्यभोग्यप्रियतमवपुरुत्कर्षजातातिशङ्का ।
विश्लेष्टुं न क्षमाऽहं क्षणमपि दयितत्वादिति व्याहरन्ती
श्लिष्यन्ती कान्तवक्षस्सुदृढमविरतं मोदसे वेङ्कटाद्रौ ॥ ४६॥
श्रीमद्वेङ्कटशैलनीलजलदव्राताभिजाताकृतेः
शार्ङ्गश्रीजितचारुशक्र धनुषश्शश्वत्कृपावर्षिणः ।
मन्द्रं मन्दसमीरपूरणकृतं शङ्खध्वनिं बिभ्रतः
विष्णोः श्रीरुरसि स्थिता वितनुषे विद्युल्लताविभ्रमम् ॥ ४७॥
यथाऽनर्घं रत्नं भवति निजदीप्त्या परिवृतं
यथा पुष्यपुष्पं नवपरिमलर्द्ध्या बहुमतम् ।
तथा वित्याश्लिष्टो भगवति भवत्या महितया
निषेव्यस्सर्वेषां भवति भगवांस्त्वत्सहचरः ॥ ४८॥
इयं गाथा काऽपि श्रवणपथवृत्ता तनुभृतां
भवेत्किञ्चिद्वस्तु स्वपरगुणनिर्वाहकमिति ।
मृषा नैषा सूक्तिर्भगवति यतः श्रीर्निरुपमा
त्वमेव श्रीमत्तां तव च तव पत्युः प्रथयसे ॥ ४९॥
स्वशेषैरुत्कर्षे सति न खलु शेषित्वविहतिः
यतश्शेषी शेषैरेतिशयकरैरेव भवति ।
अतः श्रीः कान्तस्ते त्वदुपहितनिस्सीममहिमा-
ऽप्यहीनस्वातन्त्र्यो भवति न परोपाधिकगुणः ॥ ५०॥
मन्दस्पर्शं मलयमरुतां माधुरीं माक्षिकाणां
वीणानादं क्षणरुचिरुचिं सौरभं वारिजानाम् ।
आदायाङ्गं तव कृतमिति श्रीर्वचो यौक्तिकानां
कालातीतं निगमवचसा तस्य नित्यत्वसिद्धेः ॥ ५१॥
आमोदमेदुरमरालमुदारबन्धं
मृद्वायतं चमरवालविलासजैत्रम् ।
आनीलमद्भुतमनातपवार्यमम्ब
केशापदेशतिमिरं बिभृषे किमेतत् ॥ ५२॥
किंनु स्विदम्ब तिमिरस्य विपत्ति(क्ति)रेषः
किंवा नवोत्पलजनीलिमसम्प्रदायः ।
भिन्नाञ्जनोपलरुचामथवैष राशिः
इत्यादिसंशयपदं तव केशपाशः ॥ ५३॥
कर्णावतंसकलिकायितलोचनेन
स्वर्णात्मदर्शसुहृदा सुषमोत्तरेण ।
मन्दस्मितांशु मधुरेण तवाननेन
चन्द्रः कलङ्ककलुषः कथमम्ब तुल्यः ॥ ५४॥
अभिनवमरविन्दं किन्नु भृङ्गानुलीनं
सजलदशकलं वा शारदं चन्द्रबिम्बम् ।
कनकमुकुरमाहो नीलरत्नानुविद्धं
जननि मुखमिदं ते स्निग्धनीलालकं वा ॥ ५५॥
मातस्तवैतदभिजातसुवर्णपट्ट-
सौभाग्यहारि निटिलं निरपेक्षभूषम् ।
कस्तूरिकोर्ध्वतिलकं बिभृषे तथाऽपि
नूनं तदस्य तिलकस्य परिष्क्रियायै ॥ ५६॥
असितमवनतं च स्निग्धमायुष्य[मेतत्
तव जननि समिन्धे भ्रूयुगं देवि दिव्यम् ।
विलसितविवशस्सन् यस्य निस्सीमकान्तेः
विहितविविधविश्वो विष्णुराज्ञाकरस्ते ॥ ५७॥
जिघ्रासयेव मुखमारुतसौरभाणां
द्राघीयसी जननि तावकनासिकेयम् ।
भ्रूसेतुमध्यविवरेण ललाटदिव्य-
सौन्दर्यसारसरितः प्रसृतेव कुल्या ॥ ५८॥
अधिगतवतोरक्ष्णोः कृष्णात्वमर्जुनतां च ते
जनितरणयोर् भ्रूकोदण्डस्पृशोरनुरक्तयोः ।
कथमिव परा मैत्री कर्णेन कुण्डलचारुणा
समजनि जनन्याश्चर्याणामसि त्वमपाश्रयः ॥ ५९॥
द्विजैरेतैः पङ्क्तावविवरनिविष्टैरविषमैः
उदग्रैरुद्भाभिश्शुचिभिरधरस्यास्य कमले ।
स्मयायत्तव्यक्तेरपि च परभागप्रणयिनः
बहिष्कारस्सोऽयं समुचिततरः पल्लवरुचेः ॥ ६०॥
स्फटिकमुकुरबिम्बौ नीलरत्नांशुगर्भौ
किममृतकिरणौ द्वौ शारदौ श्रीकराङ्कौ ।
अथ विमलकपोलौ देवि ते दर्शनीयौ
श्रवणकुवलयश्रीजातवर्णप्रकर्षौ ॥ ६१॥
मातः स्वभावसुषमापुनरुक्तभूषः
पत्युस्तवापि विजयावहभव्यरेखः ।
स्वामोदसम्पदधिवासित सर्वगन्धः
कण्ठो मृदुः कथय कम्बुसमः कथं स्यात् ॥ ६२॥
सौभाग्यसम्पदभिभूतसुवर्णकुम्भौ
भूयः परास्तपरिणाहिपयोजकोशौ ।
कूलङ्कषौ कुचभरौ गुरुभारहारौ
पुत्रस्य देवि कुशलं कुरुतो दृशोर्मे ॥ ६३॥
तारुण्यसौरभतरङ्गितहृत्तटाके
जातौ स्तनद्वयमिषेण सरोजकोशौ ।
तन्मूललग्नसितबालमृणालिकैव
मुक्तावलीति मम मातरभूद्वितर्कः ॥ ६४॥
बाहाश्शिरीषमृदवस्तनवस्सुवृत्ताः
शम्पारुचस्समुचिताभरणाश्चतस्रः ।
मातस्सपल्लवसकोरककल्पवल्ली -
बालप्रतानविततीरनुकुर्वते ते ॥ ६५॥
तन्वी तलोदरगता तव रोमराजिः
आभाति देवि कुचतुङ्गकुलाचलाभ्याम् ।
निष्क्रम्य नाभिसरसीमभियान् पिपासुः
आनीलभोग इव कश्चन बालसर्पः ॥ ६६॥
पीताम्बरस्थगितमध्यकटीनितम्ब-
कम्रोरुकाण्डवरजानुयुगोपमानम् ।
नास्त्यस्ति चेद्वदतु देवि तवैव कान्तः
सर्वज्ञ इत्यनुविनादितकाहलीकः ॥ ६७॥
वृत्ते तवाम्ब लभि(लि)ते विधृतानुपूर्व्ये
पीताम्बराञ्चलपिशङ्गरुचाऽभिषिक्ते ।
सौवर्णकाहलसमे समसन्निवेशे
जङ्घे तु(न) लङ्घयति सेवकलोकदृष्टिः ॥ ६८॥
प्रत्यग्रकल्पतरुपल्लवपाटलाभौ
वज्रध्वजाब्जमुखमङ्गलचिह्नगर्भौ ।
इन्द्रादिदेवमणिमौलिमहार्हपीठौ
मातस्त्वदीयचरणौ शरणं प्रपद्ये ॥ ६९॥
चन्द्रस्त्वदीयमुखकान्तिजितः कलङ्की
श्रीरम्ब वृत्तविशदांशुनखापदेशात् ।
चारु प्रपद्य चरणद्वितयं भवत्याः
पूर्णोऽकलङ्कदशमूर्तिरजस्रमासीत् ॥ ७०॥
विद्युद्दामद्युतिभिरुचितैर्दिव्यभूषासहस्रैः
स्थाने देवि स्थगयसि वपुर्दिव्यमापादचूडम् ।
नोचेत् सर्वावयवसुषमास्वस्वदेशानुकर्ष-
श्रान्तस्वान्तस्तिमितनयनो वल्लभस्ते जल[ड]स्स्यात् ॥ ७१॥
स [न] सत्कर्म ज्ञानं न च विमलमध्यात्मविषयं
त्वयि त्वत्कान्ते वा न हि परमभक्तिस्त्वजनि मे ।
ततश्चाकिञ्चित्को दुरितभरितोऽनन्यगतिकः
शरण्ये देवि त्वां शरणमभिपद्ये भगवतीम् ॥ ७२॥
अनन्तासह्यागस्कृत [मकृत] सद्वृत्तिमशुचिं
प्रहीणं शब्दादिप्रवणमतिलज्जाभयदयम् ।
प्रसक्तं स्त्रीमात्रे पशुवदशुभैकास्पदमिमं
कथं मातः क्षाम्येदखिलखलशासी तव पतिः ॥ ७३॥
कदाचित्कान्तस्ते हितपरपितृत्वेन कलुषः
कृतागस्स्वस्मासु स्वयमुचितशिक्षां तितनिषेत् ।
तदा मातस्त्वं च भ्रुकुटिपरतन्त्रं प्रणयिनं
प्रलोभ्य स्वैरङ्गैश्चरणपरिचर्यां घटय नः ॥ ७४॥
अस्पृष्टसंसरणदुःखलवैरनादि-
सिद्धैरसङ्कुचितनित्यसुखावबोधैः ।
भव्यैः परस्परपरिस्थितशेषभावैः
संवासयाम्ब सहजैस्तव किङ्करैर्माम् ॥ ७५॥
आम्ना[आम्ला] नैरमृतद्रवप्रियसखैरौदार्यकर्णेजपैः
अत्यैश्वर्यमदालसैरभिमुखेष्वाभाषितस्वागतैः ।
अम्बाविष्कृतकूलमुद्वहकृपावात्सल्यविस्रम्भणैः
आलोकैरभिषिञ्च मामनुकलं त्वत्पादपद्माश्रयम् ॥ ७६॥
त्वद्दासदासकुलराजकुलाश्रयेण
भव्योत्तमस्य मम कर्मजवाग्विमर्दान् ।
स्तोत्रापदेशविहितानपि तानसङ्ख्यान्
मातः क्षमस्व मयि केवलवत्सला त्वम् ॥ ७७॥
अस्मद्गुरुं परमकारुणिकं त्वदङ्ऽघ्रि-
निस्सीमभक्तिनिधिमार्यमनर्घशीलम् ।
सौम्योपयन्तृमुनिमात्मविदं समीक्ष्य
मातः प्रसीद मम वृत्तमचिन्तयित्वा ॥ ७८॥
देव्या मदीयरसनाध्[स]नया श्रियव
स्वप्रीतये स्तुतिमिमामुदितां गृणन्तः ।
भुक्त्वा समृद्धिमिह सद्भिरनन्यभोगैः
अन्ते च सूरिपरिषत्प्रथमार्हणीयाः ॥ ७९॥
॥ श्रीवादिभयङ्करगुरवे नमः ॥ श्रीवेङ्कटगुरवे नमः ॥
॥ इति श्रीलक्ष्मीस्तोत्रम् ॥
From venkaTeshakAvyakalApaH
Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com