श्रीललिताम्बापरमेश्वरस्तवः

श्रीललिताम्बापरमेश्वरस्तवः

श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कलयतु कल्याणततिं कमलासखपद्मयोनिमुखवन्द्यः । करिमुखषण्मुखयुक्तः कामेशस्त्रिपुरसुन्दरीनाथः ॥ १॥ एकैवाहं जगतीत्यायोधनमध्य अब्रवीदादौ । शुम्भं प्रति सा पायादाद्या शक्तिः कृपापयोराशिः ॥ २॥ ईषदिति मन्यते यत्पदभक्तः शम्भुविष्णुमुखपदवीः । सा मे निश्चलविरतिं दद्याद्विषयेषु विष इवात्यन्तम् ॥ ३॥ लभते परात्मविद्यां सुदृढामेवाशु यत्पदासक्तः । तां नौमि बोधरूपामाद्यां विद्यां शिवाजमुखसेव्याम् ॥ ४॥ ह्रीमान्भवेत्सुरेशस्तद्गुरुरपि यत्पदाब्जभक्तस्य । लक्ष्मीं गिरं च दृष्ट्वा सा मामव्यात्तयोः प्रदानेन ॥ ५॥ हसति विधुं हासेन प्रवालमपि पञ्चशाखमार्दवतः । अधरेण बिम्बमव्यात्सा मा सोमार्धमूर्धपुण्यततिः ॥ ६॥ सकलाम्नायशिरोभिस्तात्पर्येणैव गीयते रूपम् । यस्याः सावतु सततं गङ्गाधरपूर्वपुण्यपरिपाठी ॥ ७॥ कलिमलनिवारणव्रतकृतदीक्षः कालसर्वगर्वहरः । करणवशीकरणपटुप्राभवदः पातु पार्वतीनाथः ॥ ८॥ हरतु तमो हार्दें मे हालाहलराजमानगलदेशः । हंसमनुप्रतिपाद्यः परहंसाराध्यपादपाथोजः ॥ ९॥ ललनाः सुरेश्वराणां यत्पादपाथोजमर्चयन्ति मुदा । सा मे मनसि विहारं रचयतु राकेन्दुगर्वहरवदना ॥ १०॥ ह्रीमन्तः कलयति यो मूलं मूलं समस्तलक्ष्मीनाम् । तं चक्रवर्तिनोऽपि प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥ सदनं प्रभवति वाचां यन्मूर्तिध्यानतो हि मूकोऽपि । सरसां सालङ्कारां सा मे वाचं ददातु शिवमहिषी ॥ १२॥ करकलितपाशसृणिशरशरासनः कामधुक्प्रणम्राणाम् । कामेश्वरीहृदम्बुजभानुः पायाद्युवा कोऽपि ॥ १३॥ लब्ध्वा स्वयं पुमर्थांश्चतुरः किञ्चात्मभक्तवर्येभ्यः । दद्याद्यत्पदभक्तः सा मयि करुणां करोतु कामेशी ॥ १४॥ ह्रीङ्कारजपपराणां जीवन्मुक्तिं च भुक्तिं च । या प्रददात्यचिरात्तां नौमि श्रीचक्रराजकृतवसतिम् ॥ १५॥ श्रीमातृपदपयोजासक्तस्वान्तेन केनचिद्यतिना । रचिता स्तुतिरियमवनौ पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ १६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीललिताम्बापरमेश्वरस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : lalitAmbAparameshvarastavaH
% File name             : lalitAmbAparameshvarastavaH.itx
% itxtitle              : lalitAmbAparameshvarastavaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : lalitAmbAparameshvarastavaH
% Category              : devii, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, devI, shiva, dashamahAvidyA, lalitA, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org