श्रीराजराजेश्वरीमातृभक्तिस्तुतिः

श्रीराजराजेश्वरीमातृभक्तिस्तुतिः

ॐ भूमौ धर्मविनाशमीक्ष्य दिविजैः सिद्धैश्चतुर्भिर्मुदा विज्ञप्ता सनकादिभिर्भगवती दुःखार्तिहन्त्री सताम् । पुत्रीभूय स्वयं च तैरनुदिनं संसेविता या परा ख्याता साऽवतु नोऽत्र जोनदिदितः(१) श्रीराजराजेश्वरी ॥ १॥ दोषैर्दुष्टमऽनेकधा क्षितितलं संवीक्ष्य धर्मध्वज(२)- व्याजात्कश्यपधर्मदग्धविमलं(३) तीर्थैश्च संस्कारितम् । श्रीकश्मीरतले सुमेरुसविधे देशं गता या स्वयं ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ २॥ बाल्ये नर्मसु कृष्णगीःषु (४) च य(५)देतीत्थं भुवि ख्यापने प्रोद्युक्ता विविधात्तपुण्यसरणिः पाषाणमूर्त्यादिषु । या व्यक्तं शिव(६)विष्णवित्यऽविरतं नामार्चनादिस्रुतेः ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ३॥ (७)पातिव्रत्यविधेरऽतीव च सती लोकेषु ख्यातौ रता पाठे होमविधावऽतिथियजने श्राद्धे बलौ यक्षसाम् । पत्युश्चाशयतोऽन्वहं विदधती भक्त्या सुवाचाऽपि या ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ४॥ गार्हस्थ्यं सफलीविधाय तनुजीभूतैः पुरा(८)सिद्धकै स्तद्द्वारा च स्वयं वन(९)स्थवृषतः स्वायाससाध्यैर्धनैः । सक्ता स्वी(१०)यकुटीगतातिथिजने तीर्था(११)टने या (१२)व्रते ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ५॥ Footnote १ ``ज्योनदिदि '' इति नाम्ना ख्याता । २ पाखाण्डमिषेण । ३ कश्यपमुनितपसा भस्मीभूतविविधपापम् । ४ भगवद्गीतासु । ५ यदा यदाहि धर्मस्येति वाक्यार्थख्यापने । ६ हे शिव, हे विष्णो इत्थं नित्यमेव नामभिः । पूजादिनविविधभक्तिमार्गाच्च व्यक्तीकृतविविधधर्ममार्गा । ७ पतिव्रतस्त्रीनियमानां ख्यापनाय । पत्युर्वृत्त्यनुराधात्पञ्चयज्ञतत्पराऽसीदित्यर्थः । ८ पुरोक्तैः सनकादिभिः पुत्रीभूतैर्गार्हस्थ्यफलं पितृऋणमुक्तिं विधाय । ९ वानप्रस्थधर्मतः । १० कुटीचकसंन्यासा क्रमेण गृहागतसज्जनसेवायां सक्ता । ११ तीर्थयात्रासु । १२ चातुर्मासादिव्रतानुष्ठानक्रमेषु च सक्ताऽभूदित्यर्थः ॥ येन्दोः कीर्तिमधो(१)करी यतिजनेष्वाऽगुप्तदानार्पणैः सम्मानैर्महतां सुपेशलवचोयोगैर्मुदा मानिनाम् । सद्वाक्यैश्च शमादिधर्मविषयैर्युक्तैविरक्तात्मनां ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ६॥ या सूर्यस्य च शक्ति(२)माप्य हसती कामाद्यरेस्तापनैलिङ्गा(३)- ऽवृत्तिसुशासनेश्च शमितैः स्वीयैर्मनोधर्मभिः । मोहाद्या(४)ऽन्ध्यसुवृत्तमानसवतां ज्ञानप्रकाशप्रदा ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ८॥ ऐश्वर्यं स्वजनेषु तापमरिषु स्वान्ते शमं नैरृ(५)तिं दुष्टेष्वेव समृद्धिमिष्टनि(६)वहे देहात्मबुद्धिं चितौ(७) । सन्न्यस्याऽत्मधिया(८) विविक्तमहिमा याऽगाच्च स्वे (९)धामनि ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ८॥ धर्मे दाक्ष्यकृतिं मनोमलहृतिं स्वास्थ्यस्थितिं देह(१०)के निर्माधु(११)र्यसृतिं गिरोऽतिशयतो भक्तिस्रुतिं स्वेश्व(१२)रे । मात्राकारतयोल्लसत्परचितेर्दद्यात्कृतेयं स्तुति- र्मातुर्भक्तिहृताशयैश्च पडरूश्रीगोविन्दकौलैर्नृणाम् ॥ ९॥ मात्रष्टकं पठेद्यस्तु मातृभक्तो जितेन्द्रियः आयुरारोग्यमैश्वर्यमिहा(१३)ऽन्ते सोऽप्नुयात्पराम् ॥ १०॥ इति श्रीमच्छ्रीदत्तात्रेयकुलोत्पन्नपडरू इत्युपहित गोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृभक्तिस्तुतिः ॥ Footnote १ तिरस्कुर्वती सर्वथा प्रह्लादकत्वात् । वियोगिनां दाहकत्वाच्चेन्दोः । २ प्रतापनयुतप्रकाशनशक्तिं अस्यास्तु तापत्रयप्रशमनयुत प्रकाश शक्तिवत्त्वात् इति भावः । ३ धर्मिष्टानां चिह्नैर्नत्वनुष्ठानैरावृत्तिः स्वधर्मावरणं नतु स्वोद्धारकरणं येषां तेषां धर्मव्याख्यानात्मप्रशासनैश्च । ४ कामादिभिरावृत्तान्तः करणानां प्रकाशदा । ५ अलक्ष्मीम् । ६ मित्रवर्गे । ७ स्वरूपे । ८ आत्माऽपरोक्षेण प्राप्ताऽद्वैतस्वरूपवृत्तिः । ९ कैवल्यात्मनि १० सूक्ष्मे देहे अन्तःकरणदोषनाशं स्थूले स्वास्थ्यं च । ११ निरतिशयतो माधुर्यप्रसृतिम् । १२ स्वेष्टदेवे भक्तिमार्गं च । इयं स्तुतिः पाठकानां मनुष्याणाम् । १३ इह लोके भुक्तिं, परलोके च मुक्तिमाप्नुयात् ॥ Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Matribhakti Stuti
% File name             : mAtRRibhaktistutiH.itx
% itxtitle              : rAjarAjeshvarImAtRibhaktistutiH (keshavabhaTTavirachitA)
% engtitle              : mAtRRibhaktistutiH
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Author                : keshavabhaTTavirachitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org