मातृदेवीलीलास्तुतिः

मातृदेवीलीलास्तुतिः

ॐ सदा व्रतैः सतां गतैः सुशास्त्रमार्गवेदितै- श्चराचरेषु सत्त्वकेषु वासरं(१) गवेषयन् । स्वचिद्धनं स्वमातृतोऽद्य लब्धवांस्तु यद्यऽहं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १॥ (२)स्वदक्षदोर्गतं रदाऽक्षसूत्रकं सुमूषकासनं च वामदोर्गतं कुठारमोदकं त्रिदृक् । सुदीर्घ(३)कुक्षिशुण्डकं भुजङ्गहारि रक्तभं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ २॥ यदेव मुक्तविद्रुमाऽसिताऽच्छ(४)पीतपञ्चकं(५), त्रिलोचनं किरीटचन्द्रशोभितं द्विजैः(६) श्रि(७)तम् । श्रुतिक्षि(८)तिर्भवार्तिहृत् सुहंसवाहनं श्रुतौ(९) सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ३॥ (१०)सुमेरुश‍ृङ्गपीठगं सुरक्तवर्णभं सदा मृगेन्द्रवाहनं भुजङ्गहारि दुष्टदैत्यहृत् । हया(११)धिदिग्भुजैश्च भीरु(१२)सप्तकेन यद्वृतं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ४॥ सुकीलप(१३)र्वतस्थितं सुकील(१४)वृन्दमालितं, चतुर्भुजं किरीटचन्द्रशोभि दुष्टभक्षकम् । त्रिदृक्च यत्सुपूजितं सदाऽन्नपानदैर्जनैः सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ५॥ सरोऽ(१५)न्तरे (१६)सुनागगं विव(१७)र्णभृञ्जलान्तरे, भुजङ्गहारि पायसप्रियं जयप्रदं नृणाम् । सुरागिणां दुरात्मनां भयप्रदं जटेन्दु यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ६॥ Footnote १ प्रत्यहं नित्यादिकर्ममार्गैः स्वस्वरूपानन्दमन्वेषयन् । २ सर्वात्मतां प्रकटयति । ३ लम्बोदरं दीर्घनासं च गणेशाकृति यत् । ४ सितम् । ५ मुक्ताविद्रुमहेमनीलधवलछायात्मकपञ्चशिरस्कम् । ६ वेदाभिप्रायज्ञैः ७ महागायत्रीस्वरूपेण स्वीकृतम् । ८ वेदभूः । ९ वेदे च प्रथितं यत् । १० काश्मीरे प्रसिद्धश्रीचक्रेश्वराख्यपर्वतस्थितम् । ११ अष्टाधिकदशभुजैः । १२ अमादिदेवीसप्तकेन वृतं शारिकात्म यत् । १३ काश्मीरे प्रसिद्धज्वालापर्वतगम् । १४ ज्वालादेवी नामकं यत् । १५ सरसां मध्ये कश्मीरे तु ``तुलमुल'' इति संज्ञके ग्रामेऽनेकनागानां मध्ये प्रसिद्धम् । १६ श्रीमहाराज्ञीनागस्थितम् । १७ जलान्तर्विविधरूपप्रकाशकं राज्ञीसंज्ञकं यत् । निलिम्पपञ्चम(१)ञ्चगं सुनीलभं त्रिलोचनं त्रिपूर्षु सुन्दरं सुरारिघातकं भयापहम् । कदम्बवाटिकागतं सुभक्तभीतिहारि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ७॥ यदेव वैष्णवैश्चतुर्भुजं च नीलसुन्दरं गदाऽरि(२)शङ्खपद्मकौस्तुभोज्ज्वलं हृदा धृतम् । सुपीतवस्त्रमा(३)भृतं खगासनं स्वचिद्घनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ८॥ नृमुण्डस्रग्युतं भुजङ्गभूषितं शिवायुतं सुपञ्च(४)कं त्रिलोचनं श्मशानभूमिशायि यत् । जटेन्दु भुक्तिमुक्तिदं सप्रेतकं वृषासनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ९॥ अरोग(५)ताऽच्छताप्रतापधी(६)स्वधीसुखाऽभया- ऽसुबन्ध(७)ताधृतिप्रसन्नताजयात्मशक्तिभिः । (८)इनेन्दुभौमसौम्यजीवभार्गवादिरूपि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १०॥ कृपाणखेटशङ्खशूलबाणचापतर्जनी- रथाङ्गशोभिदोर्व(९)नं सुदूर्वयाऽनुगं रुचा । हया(१०)रिमूर्ध्नि संस्थितं सुरारिरक्तपं च (११)यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ११॥ सिताऽसिताऽर्कभं(१२) रमाशिवाश्रुतिप्रसूपति प्रदाकुशत्रु(१३)गोसिताङ्गवाहि चैकशीर्षकम् । शरास्यकं चतुर्मुखं यदेव मागुण(१४)क्रमात् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १२॥ अनेकशीर्षपाददोःश्रवाक्षिवक्षसास्यकं सहस्रवस्त्रवर्णभूषणायुधाकृतिश्रितम् । अनेकपत्र(१५)शस्त्रनागसत्त्वकर्मभृच्च यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १३॥ Footnote १ ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्यपञ्चदेवात्मपर्यङ्क- स्थितं त्रिपुरसुन्दरीस्वरूपं यत् । २ सुदर्शनचक्रं ३ लक्ष्मीयुतं विष्णुरूपं यत् । ४ सुपञ्चशिरस्कं शिवात्मकं यत् । ५ नवग्रहाणां तु । ``आरोग्यं तरणिः शशी विमलतां भौमः प्रतापोदयं बुद्धिं शीतकरात्मजः सुरगुरुर्ज्ञानं सुखं भार्गवः । धैर्यं सूर्यसुतश्च राहुरभयं केतुः प्रसादं ध्रुवः शौर्यं कुम्भसमुद्भवोप्यथ जयं दिश्यन्तु सर्वे ग्रहाः'' इत्यात्मकाः चिच्छक्तय एवेत्यर्थः । ६ ज्ञानम् । ७ शौर्यम् । ८ एकादशग्रहात्म । ९ भुजाष्टकम् । १० महिषोत्तमाङ्गस्थितम् । ११ श्रीदुर्गाख्यम् । १२ रक्तवर्णम् । १३ गरुडवृषहंसाधिरूढम् । १४ मायायाः सत्वतमोरजसामुपाधितः विष्णुशिवब्रह्मात्मकं यत् । १५ वाहनं विराडात्मकं यत् । पडूरगोविन्दकौलजं हि जोनदीदिभा(१)वनं पठेत् हृदीद्धभा(२)वनो विधाय तत्पदद्वयम् । मतिं श्रुतौ रमां गृहे यशो जनेषु दीयतेऽन्विह(३) त्वऽमुत्र तस्य निर्भयं(४) चिदीश्वरी पदम् ॥ १४॥ Footnote (१) भक्तिः सर्वात्मकाद्यशक्त्यनुभवविस्फुरणात्मिका, ``बहूनां जन्मनामन्ते'' इति गीतासु । (२) तीव्रभक्तिमान् । (३) भक्तियुक्तपाठादनन्तरमेव । (४) कैवल्यं इति श्रीमद्दत्तात्रेयवंशीय पडरू इत्युपहितगोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृदेवीलीलास्तुतिः समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Matridevi Lila Stuti
% File name             : mAtRRidevIlIlAstutiH.itx
% itxtitle              : mAtRidevIlIlAstutiH
% engtitle              : mAtRRidevIlIlAstutiH
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org