श्रीमातङ्गीहृदयम्
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
अथ श्रीमातङ्गीहृदयप्रारम्भः ॥
एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ १॥
श्रीभैरव्युवाच ।
भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ २॥
केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ ३॥
श्रीभैरव उवाच ।
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये ।
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ ४॥
पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखावाप्तिमङ्गलप्रदमुत्तमम् ॥ ५॥
मातंग्या हृदयं स्तोत्र दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च ह्यस्ति सर्वसुखप्रदम् ॥ ६॥
॥ विनियोगः ॥
ॐ अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः ।
विराट् छन्दः । मातङ्गी देवता । ह्रीं बीजम् । हूं शक्तिः । क्लीं कीलकम् ।
सर्ववाञ्छितार्थसिद्धये पाठे विनियोगः ॥
ऋष्यादिन्यासः ।
दक्षिणामूर्तिऋषये नमः शिरसि ।
विराट्छन्दसे नमः मुखे ।
मातङ्गीदेवतायै नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
हृदयादिषडङ्गन्यासः ।
ॐ ह्रीं हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ हूं शिखायै वषट् ।
ॐ ह्रीं नेत्रत्रयाय वौषट् ।
ॐ क्लीं कवचाय हुम् ।
ॐ हूं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥
करन्यासः ।
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ हूं मध्यमाभ्यां नमः ।
ॐ ह्रीं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ हूं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
॥ अथ ध्यानम् ॥
ॐ श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जांघ्रियुग्माम् ।
नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च
(मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ) ॥ ७॥
॥ इति ध्यानम् ॥
नमस्ते मातंग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै-
र्दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ८॥
परं मातस्ते यो जपति मनुमव्यग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्यामृतमयपदा तस्य ललिता
नटींमन्या वाणी नटति रसनायां चपलिता ॥ ९॥
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां मालाः शिरसि तव युञ्जन्ति सदये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १०॥
सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि तव ङेऽन्तं मनुमितम् ।
पृथङ्नाम्नां तेनायुतकलितमर्चन्ति खलु ते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११॥
तव प्रीत्यै मातर्द्ददति बलिमाधाय बलिना
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्या ये स्वान्तस्तवचरणमोदैकरसिका
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ १२॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं
मितस्मित्यापन्नप्रतिभितममन्नं विकरितम् ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३॥
परः श्रीमातंग्या जयति हृदयाख्यः सुमनसाम्-
अयं सेव्यः सुद्योऽभिमतफलदश्वातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशं
न तेषां दुःप्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४॥
धनार्थी धनमाप्नोति दारार्थी सुन्दरीं प्रियाम् ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्त्तनात् ॥ १५॥
विद्यार्थी लभते विद्यां विविधां विभवप्रदाम् ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ १६॥
नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् ।
कुबेरसमसम्पत्तिः स भवेधृदयं पठन् ॥ १७॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गी हृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् ॥ १८॥
इति श्रीदक्षिणामूर्तिसंहितायां श्रीमातङ्गीहृदयस्तोत्रं समाप्तम् ।
श्रीमन्त्रमहार्णवे मध्यखण्डे मातङ्गीतन्त्रे द्वदशरतङ्गः ।
Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com
Proofread by Gopal Upadhyay, NA