उमासहाचार्यविरचितं मातङ्गी स्तोत्रम्
॥ ॐ क्लीं मातङ्ग्यै नमः ॥
मातङ्गी नवयावकार्द्रचरणां प्रोल्लासिकृष्णांशुकां
वीणोल्लासिकरां समुन्नतकुचां मुक्ताप्रवालावलीम् ।
हृद्याङ्गीं सितशङ्खकुण्डलधरां बिम्बाधरां सुस्मितां
आकीर्णालकवेणिमब्जनयनां ध्यायेत् शुक-श्यामलाम् ॥ १॥
कलाधीशोत्तंसां करकलितवीणाहितरसां
कलिन्दापत्याभां कलितहृदयारक्तवसनाम् ।
पुराणीं कल्याणीं पुरमथनपुण्योदयकलां
अधीराक्षीमेनामवटुतटसन्नद्धकबरीम् ॥ २॥
करोदञ्चद्वीणं कनकदलताटङ्कनिहितं
स्तनाभ्यामानम्रं तरुणमिहिरारक्तवसनम् ।
महः कल्याणं तन्मधुमदभराताम्रनयनं
तमालश्यामं नः स्तबकयतु सौख्यानि सततम् ॥ ३॥
कराञ्चितविपञ्चिकां कलितचन्द्रचूडामणिं
कपोलविलसन्महःकनकपत्रताटङ्किनीम् ।
तपःकलमधीशितस्तरुणभानुरक्ताम्बरां
तमालदलमेचकां तरललोचनामाश्रये ॥ ४॥
कस्तूरीरचिताभिरामतिलका कल्याणताटङ्किनी
बाला शीतमयूखशोणवसना प्रालम्बिधम्मिल्लका ।
हारोदञ्चितपीवरस्तनतटा हालामदोल्लासिनी
श्यामा काञ्चन कामिनी विजयते चञ्चद्विपञ्चीकरा ॥ ५॥
माता मरकतश्यामा, मातङ्गी मृदुभाषिणी ।
कटाक्षये तु कल्याणी कदम्बवनवासिनी ॥ ६॥
शृङ्गे सुमेरोः सहचारिणीभिर्गीयन्ति मातङ्गि तवावदानम् ।
आमोदिनीमागलमापिबन्तः कादम्बरीमम्बरवासिनस्ते ॥ ७॥
एकेन चापमपरेण करेण बाणा-
नन्येन पाशमितरेण शृणिं दधाना ।
आनन्दकन्दलितविद्रुमबालवल्ली
संविन्मयी स्फुरतु काञ्चन देवता मे ॥ ८॥
गजदानकलङ्किकण्ठमूला
कबरीवेष्टनकाङ्क्षणीयगुञ्जा ।
कुरुताद् दुरिताद् विमोक्षणं मे
कुहुना भिल्लकुटुम्बिनी भवानी ॥ ९॥
पाणौ मृणालसगुणं दधतीक्षुचापं
पृष्ठे लसत्कनककेतकबाणकोशौ ।
अङ्गे प्रवालकवचं वनवासिनी सा
पञ्चाननं मृगयते कदलीवनान्ते ॥ १०॥
वामे विस्तृतिशालिनि स्तनतटे विन्यस्य वीणामुखं
तन्त्रीं तारविराविणीमसकलैरास्फालयन्ती नखैः ।
अर्द्धोन्मीलदपाङ्गदिक्षुवलितग्रीवं मुखं बिभ्रती
माया काञ्चन मोहिनी विजयते मातङ्गकन्यामयी ॥ ११॥
प्रतिक्षणपयोधर-प्रविलसद्विपञ्चीगुण-
प्रसारि करपङ्कजं बलभिदश्मपुञ्जोपमम् ।
कदम्बवनमालिकाशशिकलासमुद्भासितं
मतङ्गकुलमण्डनं मनसि मे महो जृम्भताम् ॥ १२॥
लाक्षालोहितपादपङ्कजदलामापीनतुङ्गस्तनीं
कर्पूरोज्ज्वलचारुशङ्खवलयां काश्मीरपत्राङ्कुराम् ।
तन्त्रीताडनपाटलाङ्गुलिदलां अन्दामह् मातरं
मातङ्गीं मदमन्थरां मरकतश्यामां मनोहारिणीम् ॥ १३॥
स्रस्तं केशरदामभिर्वलयितं धम्मिल्लमाबिभ्रती
तालीपत्रपुटान्तरैः सुघटितैस्ताटङ्किनी मौक्तिकैः ।
मूले कल्पतरोर्मदस्खलितदृग् दृष्ट्यैव सम्मोहिनी
काचिद् गायनदेवता विजयते वीणावती वासना ॥ १४॥
यत् षट्पत्रं कमलमुदितं तस्य यत्कर्णिकान्त-
र्ज्योतिस्तस्याप्युदरकुहरे यत्तदोङ्कारपीठम् ।
तस्याप्यन्तः स्तनभरनतां कुण्डलीति प्रसिद्धां
श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ १५॥
निशि निशि बलिमस्यै भुक्तशेषेण दत्त्वा
मनु मनु गणनाथो मन्त्रजापं वितन्वन् ।
भवति नृपतिपूज्यो योषितां प्रीतिपात्रं
व्रजति च पुनरन्ते शाश्वतीं मूर्तिमाद्याम् ॥ १६॥
कासारन्ति पयोधयो विषधराः कर्पूरहारन्ति च
श्रीखण्डन्ति दवानला वनगजाः सारङ्गशावन्ति च ।
दासन्त्यद्भुतशात्रवाः किमपरं पुष्यन्ति वज्राण्यपि
श्रीदामोदरसोदरे भगवति ! त्वत्पादनिष्ठात्मनाम् ॥ १७॥
कुवलयनिभा कौशेयार्द्धोरुका मुकुटोज्ज्वला
हलमुशलिनी सद्भक्तेभ्यो वराभयदायिनी ।
कपिलनयना मध्येक्षामा कठोरघनस्तनी
जयति जगतां मातः ! सा ते वराहमुखी तनुः ॥ १८॥
अमृतमहोदधिमध्ये रत्नद्वीपे सकल्पवृक्षवने ।
नवमणिमण्डपमध्ये मणिमयसिंहासनस्योर्द्ध्वम् ॥ १९॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां घूर्णमाणाक्षियुग्मां
स्विद्यद्वक्त्रां कदम्बप्रसवपरिलसद्वेणिकामात्तवीणाम् ।
बिम्बोष्ठीं रक्तवस्त्रां मृगमदतिलकामिन्दुलेखावतंसां
कर्णोद्यच्छङ्खपत्रां कठिनकुचभराक्रान्तकान्तावलग्नाम् ॥ २०॥
उन्मीलद्यौवनाढ्यां निबिडमदभरोद्वेगलीलावकाशां
रत्नग्रैवेयहाराङ्गदकटककटीसूत्रमञ्जीरभूषाम् ।
आनीयार्थानभीष्टान् स्मितमधुरदृशा साधकं तर्पयन्तीं
ध्यायेद् देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥ २१॥
अमृतोदधिमध्येऽत्र रत्नद्वीपे मनोरमे ।
कदम्बबिल्वनिलये कल्पवृक्षोपशोभिते ॥ २२॥
तस्य मध्ये सुखास्तीर्णे रत्नसिंहासने शुभे ।
त्रिकोणकर्णिकामध्ये तद्बहिः पञ्चपत्रकम् ॥ २३॥
अष्टपत्रं महापद्मं केसराढ्यं सकर्णिकम् ।
तत्पार्श्वेऽष्टदलं प्रोक्तं चतुःपत्रं पुनः प्रिये ॥ २४॥
चतुरस्रं च तद्बाह्ये एवं देव्यासनं भवेत् ।
तस्य मध्ये सुखासीनां श्यामवर्णां शुचिस्मिताम् ॥ २५॥
कदम्बमालापरितः प्रान्तबद्धशिरोरुहाम् ।
प्रालम्बालकसंयुक्तां चन्द्रलेखावतंसकाम् ॥ २६॥
ललाटतिलकोपेतां ईषत्प्रहसिताननाम् ।
किञ्चित्स्वेदाम्बुरचितललाटफलकोज्ज्वलाम् ॥ २७॥
त्रिवलीतरङ्गमध्यस्थरोमराजिविराजिताम् ।
सर्वालङ्कारसंयुक्तां सर्वाभरणभूषणाम् ॥ २८॥
नूपुरै रत्नखचितैः कटिसूत्रैरलङ्कृताम् ।
वलयै रत्नरचितैः केयूरैर्मणिभूषणैः ॥ २९॥
भूषितां द्विभुजां बालां मदाघूर्णितलोचनाम् ।
वादयन्तीं सदा वीणां शङ्खकुण्डलभूषणाम् ॥ ३०॥
प्रालम्बिकर्णाभरणां कर्णोत्तंसविराजिताम् ।
यौवनोन्मादिनीं वीरां रक्तांशुकपरिग्रहाम् ॥ ३१॥
तमालनीलां तरुणीं मदमत्तां मतङ्गिनीम् ।
चतुःषष्टिकलारूपां पार्श्वस्थशुकसारिकाम् ॥ ३२॥
मातङ्गेशीं महादेवीं निःश्वस्यैनान्तरात्मना ।
सूर्यकोटिप्रतीकाशां जपाकुसुमसन्निभाम् ॥ ३३॥
अथवा पीतवर्णां च श्यामामेवापरां श्रये ।
निष्पापस्य मनुष्यस्य किं न सिद्ध्यति भूतले ॥ ३४॥
कामवच्चरते भूमौ साक्षाद् वैश्रवणायते ।
गद्यपद्यमयी वाणी तस्य वक्त्राद् विनिर्गता ॥ ३५॥
भैरवी त्रिपुरा लक्ष्मीर्वाणी मातङ्गिनीति च ।
पर्यायवाचका ह्येते सत्यमेतद् ब्रवीमि ते ॥ ३६॥
त्रिक-पञ्चकाष्टयुगलं षोडशकोष्ठाष्टकं चतुःषष्टौ ।
ध्यात्वाऽङ्गदेवतानां देव्याः परितो यजेत भावेन ॥ ३७॥
मातङ्गि ! मातरीशे ! मधुमथनाराधिते ! महामाये ! ।
मोहिनि ! मोहप्रमथिनि ! मन्मथमथनप्रिये नमस्तेऽस्तु ॥ ३८॥
स्तुतिषु तव देवि ! विधिरपि विहितमतिर्भवति चाप्यविहितमतिः ।
यद्यपि भक्तिर्मामपि भवतीं स्तोतुं विलोभयति ॥ ३९॥
यतिजनहृदयावासे ! वासववन्द्ये वराङ्गि मातङ्गि ! ।
वीणावाद्यविनोद्यैर्नारदगीते ! नमो देवि ! ॥ ४०॥
देवि ! प्रसीद सुन्दरि पीनस्तनि कम्बुकण्ठि घनकेशि! ।
श्यामाङ्गि विद्रुमोष्ठि स्मितमुखि मुग्धाक्षि मौक्तिकाभरणे! ॥ ४१॥
भरणे त्रिविष्टपस्य प्रभवसि तत एव भैरवी त्वमसि ।
त्वद्भक्तिलब्धविभवो भवति क्षुद्रोऽपि भुवनपतिः ॥ ४२॥
पतितः कृपणो मूकोऽप्यम्ब! भवत्याः प्रसादलेशेन ।
पूज्यः सुभगो वाग्मी भवति जडश्चापि सर्वज्ञः ॥ ४३॥
ज्ञानात्मके जगन्मयि निरञ्जने नित्यशुद्धपदे! ।
निर्वाणरूपिणि परे त्रिपुरे! शरणं प्रपन्नस्त्वाम् ॥ ४४॥
त्वां मनसि क्षणमपि यो ध्यायति मुक्तावृतां श्यामाम् ।
तस्य जगत्त्रितयेऽस्मिन् कास्ता या न स्त्रियः साध्याः ॥ ४५॥
साध्याक्षरगर्भितपञ्चनवत्यक्षरात्मिके जगन्मातः! ।
भगवति मातङ्गेश्वरि ! नमोऽस्तु तुभ्यं महादेवि ! ॥ ४६॥
विद्याधरसुरकिन्नरगुह्यकगन्धर्वसिद्धयक्षवरैः ।
आराधिते ! नमस्तेऽस्तु प्रसीद कृपयैव मातङ्गि! ॥ ४७॥
मातङ्गीस्तुतिरियमन्वहं प्रजप्ता
जन्तूनां वितरति कौशलं क्रियासु ।
वाग्मित्वं श्रियमधिकां च मानशक्तिं
सौभाग्यं नृपतिभिरर्चनीयतां स याति ॥ ४८॥
मातङ्गीमनुदिनमेवमर्चयन्तः
श्रीमन्तः सुभगतराः कवित्वभाजः ।
प्राप्यान्ते सकलसमीहितार्थवर्गं
देहान्ते विमलतरं विशन्ति धाम ॥ ४९॥
अवटुतटघटितचोलीं ताडितताडीं पलाशताटङ्काम् ।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ५०॥
वीणावादननिरतं तदलाबुस्थगितवामकृतकुचम् ।
श्यामलकोमलगात्रं पाटलनयनं परं भजे धाम ॥ ५१॥
अङ्कितपाणिचतुष्टयमङ्कुशपाशेक्षुपुष्पचापशरैः ।
शङ्करजीवितमित्रं पङ्कजनयनं परं भजे धाम ॥ ५२॥
करकलितकनकवीणालाबुककदलीकृतैककुचकमला ।
जयति जगदेकमाता मातङ्गी मङ्गलायतना ॥ ५३॥
अङ्गलालितमनङ्गविद्विषस्तुङ्गपीनकुचभारभङ्गुरम् ।
श्यामलं शशिनिभाननं भजे कोमलं कुटिलकुन्तलं महः ॥ ५४॥
वीणावाद्यविनोदगीतनिरतां लीलाशुकोल्लासिनीं
बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् ।
हृद्याङ्गीं सितशङ्खकुण्डलधरालङ्कारवेषोज्वलां
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ ५५॥
वेणीमूलविराजितेन्दुशकलां वीणानिनादप्रियां
क्षोणीपालसुरेन्द्रपन्नगगणैराराधितांह्रिद्वयाम् ।
एणीचञ्चललोचनां सुवदनां वाणीं पुराणोज्ज्वलां
श्रोणीभारभरालसामनिमिषां पश्यामि विश्वेश्वरीम् ॥ ५६॥
कुचकलशनिषण्णकेलिवीणां
कलमधुरध्वनिकम्पितोत्तमाङ्गीम् ।
मरकतमणिभङ्गमेचकाभां
मदनविरोधिमनस्विनीमुपासे ॥ ५७॥
ताडीदलोल्लसितकोमलकर्णपालीं
केशावलीकलितदीर्घसुनीलवेणीम् ।
वक्षोजपीठनिहितोज्ज्वलनादवीणां
वाणीं नमामि मदिरारुणनेत्रयुग्माम् ॥ ५८॥
यामामनन्ति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदो गृणन्ति ।
तामर्द्धपल्लवितशङ्कररूपमुद्रां
देवीमनन्यशरणः शरणं प्रपद्ये ॥ ५९॥
यः स्फाटिकाक्षवरपुस्तककुण्डिकाढ्यां
व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।
पद्मासनां च हृदये भवतीमुपास्ते ।
मातः! स विश्वकवितार्किकचक्रवर्ती ॥ ६०॥
बर्हावतंसघनबन्धुरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् ।
श्यामां प्रवालवसनां शरचापहस्तां
तामेव नौमि शबरीं शबरस्य नाथाम् ॥ ६१॥
अज्ञातसम्भवमनाकलितान्ववायं
भिक्षुं कपालिनमवाससमद्वितीयम् ।
पूर्वं करग्रहणमङ्गलतो भवत्याः
शम्भुः क एव बुबुधे गिरिराजकन्ये ! ॥ ६२॥
चर्माम्बरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं च परेतभूमौ ।
वेतालसंहतिपरिग्रहतां च शम्भोः
शोभां वहन्ति गिरिजे ! तव साहचर्यात् ॥ ६३॥
गले गुञ्जाबीजावलिमपि च कर्णे शिखिशिखां
शिरो रङ्गे नृत्यत्कनककदलीमञ्जुलदलम् ।
धनुर्वामे चांसे शरमपरपाणौ च दधतीं
नितम्बे बर्हालीं कुटिलकबरीं सिद्धशबरीम् ॥ ६४॥
लसद्गुञ्जापुञ्जाभरणकिरणारक्तनयनां
जपाकर्णाभूषां शिखिवरकलापाम्बरवतीम् ।
नदज्झिल्लीपल्लीवनतरुदलैः सम्परिवृताम् ।
नमामि वामोरुं कुटिलकबरीं सिद्धशबरीम् ॥ ६५॥
अपर्णाहोपर्णां सिरसकदलीसम्भवमलं
भवं जेतुं प्रौढिं किल मनसि बाला विदधती ।
नदज्झिल्लीपल्लीवनतरुषु हल्लीसकरुचि-
र्लसत्पल्लीभिल्ली करकलितभल्ली विजयते ॥ ६६॥
धनिनामविनाभवन्मदानां भवनद्वारि दुराशया शयानाम् ।
अवलोकय मामगेन्द्रकन्ये! करुणाकन्दलितैः कटाक्षमोक्षैः ॥ ६७॥
कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।
किमिति बहुभिरुक्तैस्त्वत्स्वरूपं पदं नः
सकलजननि मातः ! सन्ततं सन्निधत्ताम् ॥ ६८॥
मिथः केशाकेशि प्रधननिधनास्तर्कघटना
बहुश्रद्धाभक्तिप्रणतिविषयाश्चाप्तविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं
निरालम्बे ! चेतः परिलुठति पारिप्लवमिदम् ॥ ६९॥
लसद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-
मुदञ्चद्घर्माम्भःकणगुणितवक्त्राम्बुजरुचम् ।
शिवं पार्थत्राणप्रणवमृगयाकारकरणं
शिवामन्वक्यान्तीं शरणमहमन्वेमि शबरीम् ॥ ७०॥
शिरसि धनुरटन्या ताड्यमानस्य शम्भो-
रलक-नयन-कोणे किञ्चिदालज्यमाने ।
उपनिषदुपगीतं रुद्रमुद्घोषयन्ती
परिहरति मृडानी मध्यमं पाण्डवानाम् ॥ ७१॥
यद्गलाभरणतन्तुवैभवान् नायको गरलमागलं पपौ ।
तां चराचरगुरोः कुटुम्बिनीं नौमि यौवनभरेण लालसाम् ॥ ७२॥
सुधामप्यास्वाद्य प्रतिभयहरा मृत्युहरणीं
विपद्यन्ते सर्वे विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वेडं कवलितवतः कालकलना
न शम्भोस्तन्मूलं जननि ! तव ताटङ्कमहिमा ॥ ७३॥
करोपान्ते कान्ते वितरणिनिशान्ते विदधतीं
लसद्वीणाशोणां नखरुचिभिरेणाङ्कवदनाम् ।
सदा वन्दे सन्देतरुरुहवशन्देशकवशात्
कृपालम्बामम्बां कुसुमितकदम्बाङ्गणगृहाम् ॥ ७४॥
कर्णलम्बितकदम्बमञ्जरीकेसरारुणकपोलमण्डलम् ।
केवलं निगमवादगोचरं नीलिमानमवलोकयामहे ॥ ७५॥
अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।
अरुणाधरमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥ ७६॥
अनभङ्गुरकेशपाशमम्ब! प्रभया कीचकमेचकं वपुस्ते ।
परितः परितो विलोकयामः प्रतिपच्चन्द्रकलाधिरूढचूडम् ॥ ७७॥
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामगात्रीं
न्यस्तैकाङ्घ्रीसरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धभालां नियमितविलसच्चूलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपत्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥ ७८॥
आराध्य मातश्चरणाम्बुजं ते ब्रह्मादयो विश्रुतकीर्तिमापुः ।
अन्ये परं वाग्विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये ॥ ७९॥
नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं शुकमादरेण ॥ ८०॥
विनम्रदेवासुरमौलिरत्नैर्नीराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि ! महीपतीनां परां श्रियं भक्तिमुपाश्रयन्ति ॥ ८१॥
मातङ्गि! लीलागमने ! भवत्याः सञ्जातमञ्जीरमिषाद् भजन्ते ।
मातस्त्वदीयं चरणारविन्दं अकृत्रिमाणां वचसां विगुम्फाः ॥ ८२॥
पदात्पदं सिञ्जितनूपुराभ्यां कृतार्थयन्ती पदवीं पदाभ्याम् ।
आस्फालयन्ती कलवल्लकीं तां मातङ्गिनी मे हृदयं धिनोतु ॥ ८३॥
लीलांशुकाबद्धनितम्बबिम्बां ताडीदलेनार्पितकर्णभूषाम् ।
माध्वीमदाघूर्णितनेत्रपद्मां घनस्तनीं शम्भुवधूं स्मरामि ॥ ८४॥
तडिल्लताकान्तमलब्धभूषम्, चिरेण लक्ष्यं नवरोमराज्या ।
स्मरामि भक्त्या जगतामधीशि ! वलित्रयाङ्कं तव मध्यमम्ब! ॥ ८५॥
नीलोत्पलानां श्रियमाहरन्तीं कान्त्याः कटाक्षैः कमलाकराणाम् ।
कदम्बमालाञ्चितकेशपाशां मातङ्गकन्यां हृदि भावयामि ॥ ८६॥
ध्यायेयमारक्तकपोलकान्तं बिम्बाधरं न्यस्तललाटरम्यम् ।
आलोललीलायितमायताक्षं मन्दस्मितं ते वदनं महेशि ! ॥ ८७॥
वामस्तनासङ्गसखीं विपञ्चीं उद्घाटयन्तीमरुणाङ्गुलीभिः ।
तदुत्थसौभाग्यविलोलमौलिं श्यामां भजे यौवनभारखिन्नाम् ॥ ८८॥
स्तुत्यानया शङ्कर-धर्मपत्नीं मातङ्गिनीं वागधिदेवतां ताम् ।
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं भक्तिमुपाश्रयन्ति ॥ ८९॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
मृत्युर्वैद्यति दूषणं च गुणति क्ष्मावल्लभो दासति ।
वज्रं पुष्पति पन्नगोऽब्जनलति हालाहलं भुज्यति
द्वेषी मित्रति पातकं सुकृतति त्वत्पादसञ्चिन्तनात् ॥ ९०॥
एह्येहि मातस्त्रिपुरे पवित्रे ! यन्त्रान्तरे त्वं वसतिं विधेहि ।
गृह्णस्व गृह्णस्व बलिं प्रपूजां त्रिकोणषट्कोणदलेऽष्टकुण्डे ॥ ९१॥
एह्येहि मातस्त्रिपुरे मदीये नेत्रे निवासं कुरु मञ्जुनेत्रे ।
भूतात्मकं विश्वमिदं नरस्य मे दर्शय त्वं तव चित्स्वरूपम् ॥ ९२॥
एह्येहि मातस्त्रिपुरे मदीये वक्त्रे निवासं कुरु चन्द्रवक्त्रि !।
परापवादं वचनं नरस्य वागीश्वरं मे वदतां कुरुष्व ॥ ९३॥
एह्येहि मातस्त्रिपुरे मदीये चित्ते निवासं कुरु कल्पवल्लि ! ।
वेगेन जाड्यादि तमो निरस्य विधेहि दीप्तं तव चित्स्वरूपम् ॥ ९४॥
अनेन स्तोत्रपाठेन सर्वपापहरेण वै ।
प्रीयतां परमा शक्तिर्मातङ्गी सर्वकामदा ॥ ९५॥
इत्यागमसारे उमासहाचार्यविरचितं श्रीमातङ्गीस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan