सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातम्
॥ श्रीः ॥
ॐ नमः श्री दक्षिणकालिकायै ॥
मातः श्रीमधुराम्बिकाम्ब सिरुवाच्चूर् रम्यदेवालाये
भक्तानुग्रहकारणाय सततं सिंहाधिरूढे परे ।
भक्तानां स्मरणेन तुष्टहृदये सर्वापदां नाशिनि
मातः श्रीमधुराम्बिके सुविदिते ते सुप्रभातं शिवम् ॥ १॥
श्रीमच्छङ्करशङ्करार्यभगवत्पादैः सुसम्पूजिते
तन्मन्त्रैश्च सुमन्त्रिताखिलजनक्षेमप्रदे यन्त्रके ।
राजन्ती सकलेष्टमाशु तनुषे मातेव वात्सल्यतः
मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ २॥
त्वं हैमाद्रिसमुद्भवापि च पुनः विन्ध्याद्रिवासा मुदा
श्रीमद्दक्षिणकालिकेति सिरुवाच्चूर् नैजरम्यालये ।
भक्ताभीष्टफलप्रदे च नमतां सर्वार्तिसंहारिणि
मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ ३॥
अष्टाभिश्च करैः सहेतिसुभगैः शत्रुक्षये दीक्षिते
भक्तानुग्रहणे वराभयकरौ वीरासनं चाश्रिते ।
ज्वालामालिकया प्रदीप्तमतुलं शूलं करे बिभ्रती
मातः श्रीमधुराम्बिके सुमहिते ते सुप्रभातं शिवम् ॥ ४॥
कोणानां त्रितयेन रम्यसुमहायन्त्रालये दीव्यसे
शक्तीनां नवभिः सुकोणसुगतैर्दिक्पालकैः संवृते ।
स्वीयैर्मन्त्रवरैः सुमन्त्रितमहायन्त्रालये दीप्यसे
मातः श्रीमधुराम्बिकेऽतिमधुरे ते सुप्रभातं शिवम् ॥ ५॥
लोकानां हितकाम्यया करुणया श्रीकालि हत्वा रिपून्
नानारूपधरं महोग्रमहिषं शुम्भं निशुम्भं तथा ।
रक्ताक्षं शठरक्तजिह्वमपरं चण्डं च मुण्डं क्षणात्
चामुण्डे श्रीमधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ ६॥
त्वं भीतानदितिजान् सवासवमुखान् देवान् हि संरक्षितुं
शक्तीनां च गणैः सहैव समरे तान् चावधीर्दैत्यकान् ।
भूयश्चापि भये सदैव मनुजान् रक्षामि रक्षामि चेति
आनन्दात् त्वमसान्त्वयः किल शिवे ते सुप्रभातं शिवम् ॥ ७॥
वायुर्वाति सुशीतलः सुखकरः शान्तं नभो वर्तते
पूषोदेति फलन्ति चैव तरवः पुष्पन्ति मल्ल्यादयः ।
उद्बुध्यस्व शिवे कटाक्षय जनान् भक्तान् हि रक्षेक्षणे
मातः श्रीमधुराम्बिके सहृदये ते सुप्रभातं शिवम् ॥ ८॥
सर्वे भक्तजनाः सदारशिशुकाः सन्नारिकेलं फलं
ताम्बूलं कमलं सुगन्धि च नवं गव्यं च गन्धं करे ।
धृत्वा त्वां प्रतिपालयन्ति जगतां श्रीमातरं कालिकां
मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ ९॥
तारानायकशोभिरत्नमकुटे तापिञ्छवर्णोज्ज्वले
तार्तीयीकविलोचनाग्निमहिते ताम्बूलपूर्णानने ।
माध्वीकादिमहाभिषेकमुदिते मालाविभूषोज्ज्वले
मातः श्रीमधुराम्बिके शुभकरे ते सुप्रभातं शिवम् ॥ १०॥
व्यादायैव विशालमास्यमचिराद्भित्वा रिपोः चाप्युरः
पीत्वा शोणितमाशु रक्तवदने रक्तेक्षणे जिह्विके ।
तार्तीयीकविलोचनेन दितिजान् या भस्मसाच्चाकरोः
मातः श्रीमधुराम्बिके विधिनुते ते सुप्रभातं शिवम् ॥ ११॥
दृष्ट्वा वीर्यमचिन्त्यमद्भुततमं विस्मापनीयं सदा
ब्रह्मा-विष्णु-महेश्वरादिमसुरा यां तुष्टुवुः श्रीसुमैः ।
सा त्वं विश्वजनीनवन्द्यविभवे हैयङ्गवीनाशये
मातः श्रीमधुराम्बिकेऽतिसुलभे ते सुप्रभातं शिवम् ॥ १२॥
द्वाविंशन्मनुभिः सदा सुमहिते श्रीभद्रकालीश्वरी-
दुर्गा-लक्ष्मि-सरस्वतीत्यभिधया विख्यातचण्डीश्चरि ।
शूलोद्भासिकराम्बुजे नतजने सर्वस्वदानोद्यते
मातः श्रीमधुराम्बिके सुसुभगे ते सुप्रभातं शिवम् ॥ १३॥
सोमे भार्गववासरेऽपि सुजनैः नानादिगन्तागतैः
तैलाभ्यक्तशिरोभिरेव सततं संसेविताङ्घ्रिद्वये ।
मातॄणां च सुसप्तभिश्च नवभिर्दुर्गादिभिः संवृते
मातर्मङ्गलकारिणीष्टवरदे ते सुप्रभातं शिवम् ॥ १४॥
त्वं बाला त्रिपुरा परा सुललिता प्रत्यङ्गिराः शारदा
वाचामीश्वरी चण्डिका च बगला ज्वालामुखी वैष्णवी ।
लक्ष्मीर्नीलसरस्वती च विजया-शाकम्भरी चान्नदा
सर्वास्त्वं मधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ १५॥
कामानामथ पूरणैकसुविधौ त्वं कामधेनुः शुभे
भक्तैश्चिन्तितसर्वदानसुविधौ चिन्तामणिस्त्वं हि नः ।
काङ्क्षापूरणचातुरी सुमहितः श्रीकल्पवृक्षः स्वयं
मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ १६॥
सर्वाश्चर्यमयैकचित्रचरिते विस्मापनीयोऽद्य मे
विश्वारातिविनाशनैकनिपुणे विद्यावयोवर्धिनि ।
वेदान्तप्रतिपाद्यमानविभवे विश्वैकजीवातुके
मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ १७॥
सौमङ्गल्य-सुभर्तृपुत्रसुखदे सौवासिनीपूजिते
सौन्दर्यैकनिधे सुरेन्द्रविनुते सौभाग्यसंवर्धिनि ।
सौशील्यादिगुणप्रदे च नमतां सत्सौमनस्यप्रदे
मातः श्रीमधुराम्बिके श्रुतिनुते ते सुप्रभातं शिवम् ॥ १८॥
वीणा-वेणु-मृदङ्ग-नाट्यमुदिते वीणामुनीन्द्रस्तुते
श्रीदुर्गापरसूक्तमन्त्रसुलभे वाणी-रमा-वीजिते ।
दुर्गा-लक्ष्मि-सरस्वतीति विनुते कामेशवामाङ्गके
मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ १९॥
दीपं दीपयतीह यच्च समये श्रीसोमवारे पुनः
तत् शुक्रावधि जाज्ज्वलत्यतितरां चैतन्महत्वं तव ।
तल्लिप्तं च सुचन्दनं सुकुसुमं यच्चार्चितं पादयोः
नैव क्लाम्यति सर्वशक्तिभरिते ते सुप्रभातं शिवम् ॥ २०॥
सम्प्राप्तास्तव सन्निधिं हि कृपया सम्प्राप्नुवन्ति ध्रुवं
चेतोहारि सुसुन्दरं निजपतिं विद्यावयोभास्वरम् ।
सौमगल्यसमृद्धिमाशु ललना विद्यां च बाला धनं
सर्वत्रैव जयं सदा सुमधुरे ते सुप्रभातं शिवम् ॥ २१॥
किं वा दुष्करमम्बिके तव पदद्वन्द्वैकसक्तात्मनां
किं वा दुर्लभमस्ति तावकमनुं जप्तुः सदा ध्यायिनाम् ।
किं वा दुर्जयमस्ति रक्तकुसुमैर्नित्यार्चनां कुर्वतां
मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ २२॥
दात्री त्वं निखिलानि चैहिकसुखान्यातृप्ति वन्दारुके
दास्यन्ती सकलं मनोरथफलं चामुष्मिकं देहिनाम् ।
सालोक्यादिचतुष्टयं च सहसा दत्वाऽनुगृह्णासि नः
मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ २३॥
सूर्याचन्द्रमसौ तथा कुजबुधौ जीवश्च शुक्रश्शनिः
राहुः केतुरभीष्टनित्यवरदा योगाश्च तारागणाः ।
श्रीकालीचरणारविन्दपतितं नो पीडयन्ति ध्रुवं
श्रीनिःश्रेयसदायिके सुमधुरे ते सुप्रभातं शिवम् ॥ २४॥
सर्वेषां च मनःप्रशान्तिमधुना दत्वाऽनुगृह्णीष्व नः
मायामोहितजन्तुजातमधुना विज्ञानपूर्णं कुरु ।
सर्वत्रैव चकास्तु भारततले शान्तिः प्रशान्तिः सुखं
मातः श्रीमधुराम्बिके सुवरदे ते सुप्रभातं शिवम् ॥ २५॥
ज्वालामालिनि चण्डिके सुमधुरे सान्द्रान्तरङ्गे सदा
अज्ञानात् कृतमन्तुजालमधुना त्वं वै क्षमस्वाम्बिके ।
नावा सिन्धुमिवाद्य तारय जनं संसारवारान्निधेः
मातः श्रीमधुराम्बिके सकरुणे ते सुप्रभातं शिवम् ॥ २६॥
साम्राज्ञीपुर(सिरुवाच्चूर्)वासिनी भगवती श्रीमाधुरी कालिका
सुप्रातः प्रपठेदुषस्यपि मुदा यो वा नरः प्रत्यहम् ।
तं वै रक्षति सान्द्रनैजहृदया मातेव वात्सल्यतः
मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ २७॥
देवि त्वां शरणं गतोऽस्मि सततं नान्या गतिस्त्वां विना
त्वं मातासि पिता तथैव सहजो बन्धुश्च पुत्री सुतः ।
सर्वस्वं हि मम त्वमेव सिरुवाच्चूर् राज्ञि रक्षेक्षणे
पाह्यस्मान् सकुटुम्बकान् सुमधुरे ते सुप्रभातं शिवम् ॥ २८॥
सप्तविंशतिसङ्ख्याक-सुप्रातकमलैश्शुभैः ।
त्वामर्चयामि मधुरे प्रसीद वरदा भव ॥ २९॥
इति सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran