महाराज्ञीस्तोत्रम्

महाराज्ञीस्तोत्रम्

ॐ या द्वादशार्कपरिमण्डितमूर्तिरेकां सिंहासनस्थितिमतीमुरगैर्वृतां च । देवीमनक्षगतिमीश्वरतां प्रपन्नां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥ यत्पादपङ्कजतलेऽमरमूर्धमौलि- न्यस्तेन्द्रनीलमणिसन्ततयः पतन्ति । किञ्जल्कपानरतमुग्धमधुव्रतत्वं राज्ञी सदा भगवती जननीव नोऽव्यात् ॥ २॥ द्वारं यदीयचरणाम्बुजयुग्मनिर्यद्- रेणुस्मृतिर्विवृतमस्ति महोदयानाम् । अम्बाधिकप्रणयपूरितचित्तवृत्ती राज्ञी शुभं वितनुयान्मम सेवकस्य ॥ ३॥ दम्भं विहाय भवदङ्घ्रिनतिं तनोति यो राज्ञि ! देवि न विमुञ्चति मुक्तकान्ताम् । तं रूपहीनमपि कामभिवाधिगम्य तां त्वां नतोस्म्यऽशरणो भवभारखिन्नः ॥ ४॥ शान्तिं निनाय दशकन्धरमुग्ररूपं यत्पादसद्दशनखाग्रलुठत्किरीटः । रामो दशेन्द्रियनिवृत्तिविधानदक्षो राज्ञीं नतोस्म्यऽशरणो जगदम्बिकां ताम् ॥ ५॥ अर्कप्रभा प्रबलमोहतमःप्रशान्तौ चन्द्रद्युतिर्भवभयद्विपदन्तभङ्गे । याऽग्नेः शिखा दुरितदारुणदारुदाहे राज्ञीमनन्यशरणः प्रणमाम्यहं ताम् ॥ ६॥ कस्यापि राज्ञि बहुभाग्यनिधेः स्वरूपं भावत्कमस्ति हृदि संश्रितसन्निधानम् । दुष्टद्विषधृदयपाटनकृत्यहेतुं तां त्वां नतोऽस्मि नतलोकसुखप्रदात्रीम् ॥ ७॥ पत्तिर्द्युलोकपतिवैभवमाददाति देवाधिपोऽपि ननु पत्त्यनुकारमेति । यत्प्रोल्लसन्नयनयोगवियोगभावाद्- राज्ञींमहोपपदरम्यतरां नमामि ॥ ८॥ रिक्तत्वमाप्य च धनेन यदीयभक्ति- चिन्तामणिं विनिदधाति हृदब्जकोशे । नानाविधाभिमतसिद्धिकरं मनुष्यो राज्ञीं नमामि भववारिधितारिणीं ताम् ॥ ९॥ मर्त्याः शचीसहचरीकुचकुड्मलाग्र- स्पर्शोचितं करसरोजमवाप्नुवन्ति । यत्पादयोः सकृदुपाहितपुष्पपूजास्तां शर्मदामनुदिनं प्रणमामि राज्ञीम् ॥ १०॥ डिम्बोऽपि पूर्वसुकृतामृतसिक्तचित्तो ध्यानस्थयच्चरणभक्तिसुकल्पवीरुत् । अभ्येत्यभीष्टफलसङ्ग्रहभाजनत्वं राज्ञी तनोतु शुभतन्तुमहर्निंशं सा ॥ ११॥ तापः प्रयाति विलयं नरकाभिषङ्ग- जातो यदर्चनसुधारससारसेकात् । जन्तोरबोधकृतदुष्कृतभग्नमूर्ते राज्ञी रिपून्दलयतान्मम सन्ततं सा ॥ १२॥ मूलच्छिदाकरणकारणमङ्घ्रिपद्म- युग्मस्मृतेर्भगवति प्रभवोऽनुभावः । संसारपादपततेस्तव देवि यस्या भूयान्मदीयहृदयाहितसन्निधिः सा ॥ १३॥ तीव्रः प्रताप इह दुःसहतां प्रयाति यन्मूर्तिचिन्तननुतिप्रभवात्प्रभावात् । धन्यस्य कस्यचिदपि क्षितिपालमौले राज्ञीं दयारसनिधिं प्रणमाम्यहं ताम् ॥ १४॥ रेणुर्यदङ्घ्रिकमलप्रभवः प्रयाति प्रेतेशभृत्यनयनान्ध्यनिमित्तभावम् । चित्रं स्वभक्तनयने भजतेऽञ्जनत्वं राज्ञीं समस्तरिपुनिर्दलनाय वन्दे ॥ १५॥ मेघत्वमीहितपयोधरवृष्टिदाने यन्मूर्तिरेति चरणौ स्मरतां स्मृतैव । अस्माकवैरिनिवहं नयताद्विनाशं राज्ञी त्रिलोकजननी खलु निर्विलम्बम् ॥ १६॥ कामी यदीयनयनाञ्चलपूतदेहो मन्त्रं विनौषधमृते मणिमन्तरेण । क्षिप्रं हि संवननमेणदृशां करोति राज्ञी ममान्तरनुरञ्जतु वाञ्छितेन ॥ १७॥ सिन्धोरवाप्य तटमर्चननाम यस्या गीर्वाणदुर्लभसुधारससारमय्याः । योगी प्रयाति परिलङ्घ्य भवाब्धिपारं राज्ञी सदा शुभततिं प्रददातु मह्यम् ॥ १८॥ हालाहलं स्म गिरिशो विदधाति हीनशक्तिं स्वकण्ठगतमङ्घ्रिनतः सुरेन्द्रः । यद्दर्शनामृतभरप्रभवात्प्रसादाद्- राज्ञी वितारयतु संसृतिसागरान्माम् ॥ १९॥ सर्पाधिपो भवति यद्गुणकीर्तनेषु शक्तो न वाग्दशशतद्वयसंयुतोऽपि । स्वात्मीयभक्तजनवाञ्छितदानदक्षा सा सर्वशत्रुदलनं विदधातु राज्ञी ॥ २०॥ नश्यत्यनन्यशरणस्य नरस्य यस्या ध्यानप्रभापरिवृढोदयसङ्गमेन । नीहारराशिरभितो वृजिनाभिधानः सा मङ्गलं त्रिजगतां विदधातु राज्ञी ॥ २१॥ स्थित्या स्थितिं कमलजा यदनुग्रहस्य वाग्देवता च विदधाति गृहे मुखे च । मर्त्यस्य तीव्रतरभक्तिसमन्वितस्य राज्ञी ददातु शुभसन्ततिमाशु मह्यम् ॥ २२॥ तिर्यग्गणादऽहमवैमि विचारशून्यं तं मानवं यदभिवन्दनसौख्यलेशम् । स्वप्नेपि न स्पृशति जातु यदीयचित्तं राज्ञी स्वभक्तजनमङ्गलदाऽस्तु नित्यम् ॥ २३॥ मन्त्रं यदीयमभिवाञ्छितदं पठित्वा मर्त्यः प्रभावसहितः स्पृहणीयतायाः । पात्रीभवत्यमरवारविलासिनीनां दुर्वारपापदलनं विदधातु राज्ञी ॥ २४॥ तीक्ष्णद्युतिः शतसहस्रतनुत्वमेत्य यत्तेजसा तुलयितुं कणमप्यऽशक्तः । राज्ञी तथाविधसविस्मयदुर्निरीक्ष्य- तेजोन्विता जयतु मङ्गलकारिणी सा ॥ २५॥ मुक्ता भवन्त्यऽचलपूर्वस्वकर्ममेघ- मुक्ताः प्रलभ्य यदुपासनभक्तिशुक्तेः । मध्यं कदाचिदऽणवो बहुलोद्भवान्ते कुर्याच्छुभं निरुपमं स्वजनस्य राज्ञी ॥ २॥ रश्मिः सहस्रकिरणस्य करालपङ्क- संशोषणे हिमकरस्य रुचिर्विकासे । काव्योत्पलस्य ननु यच्चरणाब्जसेवा राज्ञीं विपक्षदमनीं प्रणमाम्यहं ताम् ॥ २७॥ गायन्ति सर्वधरणीधरकन्दरासु नित्यं सुपर्वहरिणीनयनासमूहाः । क्षेमाय यच्चरणमद्भुतमन्तहीनं राज्ञीं स्मरामि मनसा दुरितापहत्यै ॥ २८॥ वृक्षा यदर्चनविधावुपयोगमीयुः पुष्पैः सुगन्धहृतभृङ्गकदम्बकैर्ये । नाकेऽद्य कल्पतरवश्च त एव सन्ति राज्ञी वपुर्मम निषिञ्चतु भाग्यवर्षैः ॥ २९॥ ता निष्पतन्ति नरि तत्र खलेकपोत- न्यायेन भाग्यभरभागिनि सिद्धयोऽष्टौ । यः सर्वदा भजति राज्ञि तवाङ्घ्रियुग्मं सा त्वं ममार्द्रकरुणा भव सुप्रसन्ना ॥ ३०॥ चामीकरप्रकरमर्थिगणाय यस्याः प्रोद्दिश्य नाम मनुजो हि ददाति भक्तः । यः स प्रयाति कनकाद्रिगृहाधिपत्यं राज्ञी भवत्वखिललोकहिता सदैव ॥ ३१॥ देवालयादपि परं पदमामनन्ति काश्मीरदेशममलेक्षणयुग्मयुक्ताः । मूर्त्यन्तरान्वितयदीयपदारविन्द- द्वन्द्वार्पणाद्भवतु सा विभवाय राज्ञी ॥ ३२॥ वीतान्यवस्तुनिवहस्पृहया कृता या- त्पादाब्जयोर्जनतया भजतां प्रणामाः । नाशाय भावि(१)जननप्रकरस्य राज्ञी कल्याणमन्तरहितं प्रददातु मह्यम् ॥ ३३॥ मन्यूत्कटभ्रुकुटिवक्त्रमवेक्ष्य यस्याः कालोऽङ्घ्रिनम्रशिरसां सहति स्वरूपम् । द्रष्टुं न दुःसहगिरीशविलोचनाग्न- इशङ्कायुतो भवतु मे शुभदास्तु राज्ञी ॥ ३४॥ Footnote १ भवन्तीति शेषः नर्नतिं रम्यकररङ्गतले नटो या- त्पादाब्जनम्रशिरसः सुभटस्य खड्गः । सङ्ग्रामनिर्दलितशत्रुजयार्जितश्री राज्ञी करोतु मदधीनमशेषशर्म ॥ ३५॥ क्षत्रव्रजोऽतिबलदक्षिणबाहुकोश- अकृष्टासिमन्दरविलोडितसङ्गराब्धिः । लक्ष्मीं परां भजति यच्चरणप्रसादा- ल्लक्ष्मीं जनाय भजते प्रददातु राज्ञी ॥ ३६॥ गङ्गादितीर्थजलपूतशरीरयष्टिर्यः पूर्वजन्मनि यमान्नियमांश्च सेवे । भावत्कभक्तिविषयं भजते स एव दूरीकृताखिलभयां प्रणमामि राज्ञीम् ॥ ३७॥ तिग्मांशुमग्निमनिलं क्षितिमम्बु चन्द्र- मात्मानमभ्रमपि यत्तनुमामनन्ति । राज्ञीं समस्तदुरितापहृतिप्रगल्भां भर्गाब्धिनिर्झरनदीं सततं स्मरामि ॥ ३८॥ मीनध्वजो ननु बभूव यदीयदृष्टि- पीयूषवृष्टिमधिगम्य विलब्धजीवः । भूतेशभालनयनानलदग्धदेहो राज्ञीं प्रसादसुमुखीं प्रणमाम्यहं ताम् ॥ ३९॥ श्वभ्रं परापतति दुष्कृतसारणी यद्- ध्यानाचलेन्द्रपरिणद्धपुरः प्रयाणा । राज्ञीं भजे रविजकिङ्करभीतिभङ्ग- दानोद्यतां हृदयसन्निहितानुकम्पाम् ॥ ४०॥ रज्जुर्विमार्गगतभक्तकरावलम्बे यत्पादपङ्कजनतिर्जगति प्रसिद्धा । राज्ञीमपारतरदुष्कृतकक्ष्यभार- दाहे दवानलशिखां प्रणमामि नित्यम् ॥ ४१॥ तां हेलयैव गतिमेति यदङ्घ्रिनम्रः पत्युः पतेन्मखलिहामपि नेत्रमार्गम् । स्वप्ने न या कठिनपापतमोविनाश- नित्योदितार्यमरुचिं प्रणमामि राज्ञीम् ॥ ४२॥ प्राणो न कर्कशकृतान्तधृतावलेप- पाशोरगेन्द्रकवलत्वमुपैति जन्तोः । यद्भक्तितार्क्षतनुसंश्रितमानसस्य राज्ञी मुदं वितनुयात्स्वजनस्य तूर्णम् ॥ ४३॥ पङ्गुर्गृहाङ्गणगतः पवनोऽन्तराय- नामा यदङ्घ्रियुगनम्रतनोर्नरस्य । कीनाशलोकदलनोद्यमदक्षशक्तिं राज्ञीमनन्तकरुणाब्धिमुपास्महे ताम् ॥ ४४॥ नानाकृतिर्विलयमेति भवाभिधानो यक्षो यदङ्घ्रिनतिभास्करभानुयोगात् । मर्त्यस्य श्रद्धमनसः सततं स्मरामि तस्याऽहं पदसरोजरजांसि राज्ञ्याः ॥ ४५॥ ताराधिपद्युतिरनारतशोककोक- संयोगनाशनविधौ स्मृतिरस्ति यस्याः । पापक्षयाय निज मूर्ध्नि करोम्यहं तद्राज्ञीपदाम्बुजयुगोत्थितरेणुपुञ्जम् ॥ ४६॥ नौर्दीर्घदुर्गतिसरस्तरणोन्मुखानां यत्पादपङ्कजयुगप्रणतिर्नराणाम् । कश्मीरपण्डितमनोरचितप्रतिष्ठां वाग्देवतातनुमुपैम्यहमाशु राज्ञीम् ॥ ४७॥ मिथ्या व्ययं परितनोति धनस्य मूढो यज्ञक्रियावितरणच्छलयुक्तचेताः । सत्यां यदङ्घ्रिविनतौ शुभकामदायां राज्ञीपदाब्जयुगलं शरणं श्रयामि ॥ ४८॥ भागीरथीसलिलसन्ततिरुग्ररूपां तापप्रभूतिमपि यां ग्रसितुं न शक्ता । तां हेलया ग्लपयति स्मृतिरेव यस्या राज्ञी महादुरितभारमऽपाकरोतु ॥ ४९॥ गण्डस्थलानि सुदृशां त्रिदिवालयानां वश्यान्यवश्यमचिरेण करोति यस्याः । पादस्मृतिर्हि निजभक्तनखक्षतानां मथ्नात्वऽमन्ददुरितानि ममाशु राज्ञी ॥ ५०॥ वन्दारुलोकनिलयेषु करोति पद्मा- वाहद्विपो हि वसतिं स्थिरतां गृहीत्वा । यत्पादपङ्कजयुगोत्थितरेणुपुञ्ज- योगाद्धितं त्रिजगतां प्रतनोतु राज्ञी ॥ ५१॥ पुष्णाति वैभवमपाकुरुते विपत्तिं दुःखानि हन्ति वृजिनं हरति स्मृता या । पादाम्बुजन्मयुगलाग्रत एव राज्ञ्या आधारहीनतरदण्डनिभं पतामि ॥ ५२॥ षड्भिर्मुखैर्गजमुखास्यकृतानुचर्यैः स्तौतीक्ष्यते च नयनप्रकरैः कुमारः । यां द्वादशार्कवपुषीं धृतसप्तलोक- रक्षां निवारयतु भक्तभयानि राज्ञी ॥ ५३॥ पथ्यं भिषग्भिरनधीतचरं समस्तै- र्दूरं महौषधिगणाच्च यदङ्घ्रिसेवा । दुर्वाररोगगुरुभारजुषां जनानां राज्ञी विनाशयतु भक्तजनामयं सा ॥ ५४॥ रम्भामुखं भवति नैव सुखाय जन्तो- र्यद्भक्तिनाकवनिताबहुभोगभाजः । सुदुष्टपूर्वजननान्तरसञ्चितानि राज्ञी विचूर्णयतु मे दुरितानि नित्यम् ॥ ५५॥ मान्यं पदं समुपयाति स वन्दिवक्त्र- सत्स्थावरावनिसमर्पितकीर्तिबीजः । यो नित्यमर्चति तवाङ्घ्रिमनन्यकर्मा हेराज्ञि मातरऽशुभात्परिपाहि सा माम् ॥ ५६॥ अर्थान्प्रकाशयति दीपशिखेव दीप्रा या ध्यायिनां दहति पापपतङ्गपङ्क्तिम् । ध्यानाभिधं किरति कज्जलजालमक्ष्णो- रंहो हिनस्तु मम सा प्रणतस्य राज्ञी ॥ ५७॥ राज्ञां शिरो लुठति पादतलाऽऽनुतानां विश्वम्भरेशशिरसां विलसत्किरीटम् । पादे यदीयचरणस्मरणायुषस्तां राज्ञी भयापहृतये प्रणमामि नित्यम् ॥ ५८॥ नो यस्मिन्पठिते मनोऽर्हति नृणामातङ्कशङ्काङ्कनं गुप्ताद्गुप्ततरामिहाशयदिशं नो दोषराशिः स्पृशेत् । युक्तिः सिन्धुसुतावशीकृतिविधौ हेतुर्वचोदेवताप्राप्तौ पण्डितकृष्णकेन स महाराज्ञ्याः स्तवो निर्मितः ॥ ५९॥ इति श्रीपण्डितकृष्णकविरचितः श्रीमहाराज्ञीस्तवः सम्पूर्णः । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Maharajni Stotram
% File name             : mahArAjnIstotram.itx
% itxtitle              : mahArAjnIstotram
% engtitle              : mahArAjnIstotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org