पठितसिद्धसारस्वतस्तवः
ॐ नमः शारदायै ।
व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा
याऽऽराध्या गुरुभिर्गुरोरपि गुरुर्देवैस्तु या वन्द्यते ।
देवानामपि देवता वितरता वाग्देवता देवता
स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वरः ॥ १॥
ॐ ह्रीं श्रीं प्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हिमा
सौं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथा हिता ।
ह्रीं क्लीं ब्लीं चरमा गुणानुपरमा जायेत यस्या रमा
विद्यैषा वषडिन्द्रगीःपतिकरी वाणीं स्तुवे तामहम् ॥ २॥
ॐ कर्णे वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी
ह्रींस्वाहान्तपदां समस्तविपदां छेत्री पदं सम्पदाम् ।
संसारार्णवतारिणी विजयते विद्यावदाते शुभे
यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ ३॥
सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नृणां
वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्राविणी ।
सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं
शेते या तरणीरणीसु निपुणा जैनी पुनातु ध्रुवम् ॥ ४॥
ॐ ह्रीम्बीजमुखा विधूतविमुखा संसेविता सन्मुखा
ऐं क्लीं सौं सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता ।
विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः
सा ब्राह्मी जिनवक्त्रवज्रललने लीनाऽतिलीनातु माम् ॥ ५॥
ॐ अर्हन्मुखपद्मवासिनि शुभे ज्वालासहस्रांशुभे
पापप्रक्षयकारिणि श्रुतधरे पापं दहत्याशुभे ।
क्षां क्षीं क्षूं वरबीजदुग्धधवले वं वं व हं स्वावहा
श्रीवाग्देव्यमृतोद्भवे यदि भवे मन्मानसे सा भवे ॥ ६॥
हस्ते शर्मदपुस्तिकां विदधती शतपत्रकं चापरं
लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् ।
तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं
प्रख्याता श्रुतदेवता विदधती सौख्यं नृणां सूनृतम् ॥ ७॥
हंसोहंसोऽतिगर्व वहति हि विधृता यन्मयैषा मयैषा
यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा ।
साध्वी साध्वी शठार्या प्रविधृतभुवना दुर्धरा या धराया
देवी देवीजनार्घ्या रमतु मम सदा मानसे मानसे सा ॥ ८॥
स्पष्टपाठं पठत्येतद् ध्यानेन पटुनाऽष्टकम् ।
अजस्रं यो जनस्तस्य भवन्त्युत्तमसम्पदः ॥ ९॥
॥ इति पठितसिद्धसारस्वतस्तवः सम्पूर्णः ॥
Proofread by Aruna Narayanan