राधावर्णमालास्तुतिः

राधावर्णमालास्तुतिः

श्रीकृष्ण उवाच - वशगापि महादेवी यदि नातिप्रसीदति । ततस्तां स्तोतुमारब्धवानहं प्रेमगद्गदः ॥ १॥ शब्दब्रह्ममयीं वंशीं मूर्छयन् स्वरसम्पदा । ततो व्यक्तोऽव्यक्तरूपो नादः सप्तविधोऽभवत् ॥ २॥ निषादर्षभगान्धारषड्जमध्यमधैवताः (दैवताः) पञ्चमश्चेति तैर्नादैः रागाः समभवंश्च षट् ॥ ३॥ एकैकस्यानुगामिन्यो रागिन्यः षट् षडुज्ज्वलाः । तथा तालगणाश्चैव त्रयो ग्रामास्तथैव च ॥ ४॥ ताराद्याश्च त्रयश्चैव मूर्च्छनास्त्वेकविंशतिः । (तालाद्याश्च) ततो भगवती देवी गायत्री त्रिपदाऽभवत् ॥ ५॥ ततोऽपि वेदाश्चत्वारः श्रुतयश्च ततः पराः । (देवाश्च) ततोऽपि देहजैर्देवैः सस्त्रीकैः सूक्ष्ममूर्तिभिः ॥ ६॥ स्वरै रागै रागिनीभिस्तालैर्ग्रामैस्तथैव च । ताराद्यैर्नादभेदैश्च मूर्च्छनाभिः समन्ततः ॥ ७॥ गायत्र्या च(श्च) महादेव्या वेदैश्च श्रुतिभिः सह । (देवैश्च) प्रसादनार्थं तस्या वै स्वयमेवाहमव्ययः ॥ ८॥ सर्वदेवस्तुतः सर्वदेवताहृदयेश्वरः । अस्तु वैश्लक्षया वाचाभविष्यद् गुणनामभिः ॥ ९॥ (आन्तरं सूक्ष्मया वाचा) अथ वर्णमाला । ॐ अनादिरूपे चिच्छक्तिज्ञानानन्दप्रदायिनी(नि) । (अनादिरूप वित्भक्ति) आदिदेवार्चिते नित्ये राधिके शरणं भव ॥ १०॥ इन्दुकोटिसमानास्ये इन्दीवरदलेक्षणे । ईश्वरीशानजननि राधिके त्वं भजस्व माम् ॥ ११॥ (राधिका) उज्ज्वले उज्ज्वलरसप्रिये परमदुर्लभे । ऊर्ध्वाऽधोव्यापिनीचारुतनुश्रोजितमन्मथे ॥ १२॥ (तरुःश्री) ऋतुषट्कसुखामोदयुक्ताङ्गेऽनङ्गवर्धिनि । (ऋतुषट्के) ऋक्षमालाधरे धीरे राधिके त्वं भजस्व माम् ॥ १३॥ (रूक्षमाला) एकानेकस्वरूपासि नित्यानन्दस्वरूपिणी । ओङ्कारानन्दहृदये राधे किं मामुपेक्षसे ॥ १४॥ (एकारानन्द) ओमित्येकाक्षराकारे क्षराक्षरपरापरे । ओङ्कारध्वनिसम्भूताऽऽनन्दरूपे निरामये ॥ १५॥ बिन्दुरूपे निरालम्बे परब्रह्मस्वरूपिणि । अभिनिष्ठान(अप्यधिष्ठान)रूपायै शब्दातीते नमोऽस्तु ते ॥ १६॥ कमले कालिके कान्ते कुटिलकुन्तले वरे । (कले कुटिलकुण्डले) कामप्रदे कामिनि त्वं कामुकं किङ्करं कुरु ॥ १७॥ (कप्रदे कामिनी, कामुकाङ्कङ्करं कुरु) खरांशुकोटिसङ्काशे खञ्जरीटविलोचने । खले (तु) रमखलीकारे खेलस्व खगवाहने ॥ १८॥ (खलोऽनन्तमखनीकारे, भगवाहने) गलन्मदगजग्रामगमने गणनायिके । (गदन्मद) गगनाब्जगते गीते गच्छ मां गरुण्डध्वजम् ॥ १९॥ धर्म बिन्दुशोभितास्ये घूर्णमानाक्षिघूर्घुरे । घनसारेण घटिते घ्राणाग्रगजमौक्तिके ॥ २०॥ चारुचन्दन चर्चाङ्गे चराचरविचारिणि । (चार्वङ्गे) चकोराक्षि चञ्चलाभे मां किं चकर्थचञ्चलम् ॥ २१॥ छन्दांसि छद्ममानुष्या छटया छादितानि ते । छदप्रिये छोटिकया छविशान्तिनिभा भव ॥ २२॥ (छविशालिनिभा) जगज्जननि जन्तूनां जीवातो जन्मवर्जिते । (जीवाते) जलजास्ये जलेशानि मां जानीहि जनप्रिये ॥ २३॥ (जन्मना च जले) झटिति ज्ञानविदिते झञ्झाझर्झररूपिणि । झिण्टीकुसुमसंशोभा पराभाविनि मामव ॥ २४॥ टं टं टमिति टङ्कारि घण्टोल्लासितमानसे । (झङ्कारि) टलस्थलधारस्टाले त्राहि मां शरणागतम् ॥ २५॥ (टलस्थलाधारस्थाने) ठद्वयानन्दसङ्काशे चकोरप्रियकारिणि । (ठकुरप्रिय) ठकाराक्षररूपे त्वं त्राहि मां काममोहितम् ॥ २६॥ (चकारा, पाहि) डिं डिं डिं डिमडाङ्कारि वेणुवादविनोदिनि । (डिं डिमं तदाकारि, वेणुवाद्यवि) विनोदय डकाराख्ये स्मरेण चिरदुःखितम् ॥ २७॥ ढक्काराद्यानन्दिचित्ते ढुण्ढिनाथार्चिताङ्घ्रिके । (ढकारा व) ढकारवर्णरूपे त्वमात्मानमुपढौकय ॥ २८॥ (ढक्कारवं तु रूपत्व) तरुणी तरुणानन्द तापिनी तनुरूपतः । (तरणी तरणानन्दं, तरुरूपतः) तपस्विनां तपोगम्ये तत्त्वं तारिणि तारय ॥ २९॥ स्थिरानन्दे स्थिरप्रज्ञे स्थिरप्रेमरसप्रदे । स्थिरसर्वेश्वरूपे त्वमस्थिरं मां स्थिरं कुरु ॥ ३०॥ (सर्वस्वरूपे) देवाधिदेवतामौलौ दीव्यन्ती दिविदीपिका । दयामयि दकाराख्ये दूनं नूनं दयस्व माम् ॥ ३१॥ धन्ये धर्मप्रिये धीरे धर्माधर्मविवर्जिते । धराधरधरोद्धारधुरीणे धर माऽधुना ॥ ३२॥ नित्यानित्ये निरालम्बे नित्यानन्दलतोन्नते । (नते जने) नमस्ते नर्तने नीलनयने नयशालिनि ॥ ३३॥ परब्रह्मस्वरूपाऽसि परमानन्दवन्दिते । पाथोजपुलिनप्रीते पुनीहि पथिकं प्रिये ॥ ३४॥ फुल्लाम्भोजातवदने फलरूपिणि फेत्कृते । फलत्कपालफलके फलिनं त्वं कुरुष्व माम् ॥ ३५॥ ब्रह्मज्योतिर्ब्रते वाले वरुणालयवासिनि । (चरणा) वरे चरय मां बीरे वचनामृतवर्षिणि ॥ ३६॥ (वरं वरय) भावानन्दे भवानन्दे भावाभावविवर्जिते । भवभाविनि भावानां भवनं भूतिभाविनि ॥ ३७॥ (भृति) मन्दमन्दस्मिते मुग्धे मधुराक्षरमोदिते । माद्यन्ती मकरन्देन मालामयि मतामयि ॥ ३८॥ यज्ञालये यज्ञरूपा योगिनां योगमूर्तिका । यतिनां यत्तसो(पो) लभ्या यायामि शरणं हि ताम् ॥ ३९॥ रम्ये रक्तक्षणे राधे राधिके रमणीरमे । रामे मनोरमे रत्नमाले रममया समम् ॥ ४०॥ रेफस्तु सर्वमन्त्राणामाधार कथ्यते बुधैः । तस्याधानस्वरूपेयं तेन राधेति साध्यते ॥ ४१॥ (तस्मान्नैव स्व, बाध्येति) रेफस्तु वह्निराख्यातो यज्ञे वह्निः प्रतिष्ठिताः । देवाः प्रतिष्ठिता यज्ञे ततो वर्षं तदौदनम् ॥ ४२॥ ततस्तु सर्वभूतानि नानावर्णाकृतीनि च । (तदस्तु) सर्वं तदाधीयते यत्तेन राधेति कथ्यते ॥ ४३॥ (ये तेन) नानाविधै रसैर्भावैर्जगत्स्थावरजङ्गमम् । स्रष्टुं प्राप्ता मया त्वं हि राधिका कार्यसाधिका ॥ ४४॥ (अष्टौ प्राप्ता निधित्वं) मम देहस्थितैः सर्वैर्देवैर्ब्रह्मपुरोगमैः । आराधिता यतस्तस्माद् राधेति परिकीर्तिते ॥ ४५॥ (परिकीर्त्यते) लक्ष्मी लक्षलक्षिते त्वं लक्ष्यलक्षणलक्षणे । ललामललिते लास्य लीलालापिनि मामव ॥ ४६॥ वासुदेवार्चिते विद्ये वेदवादबहिर्गते । वरदे वसनावीते वलन्ती बलिनं कुरु ॥ ४७॥ शब्दातीते शब्दरूपे शान्ते सर्वादिरूपिणि । शाश्वती त्वं शक्तिकले श्रय मां शक्तिशालिनम् ॥ ४८॥ समस्तस्य प्रिये साध्वि सीमन्तोपरि संस्थिते । सकले सकलेशानि नित्यं मे स्थाः सहायिनि ॥ ४९॥ (सत्यं) षट्पदी षटपदी चञ्चद् वनमालाविभूषिते । षडॄतूत्सवसम्पन्ने षण्मुखेशे दयस्व माम् ॥ ५०॥ षट्चक्रैकनिवासि[नि] षड्दर्शनविदर्शिते । षट्कर्मणां कर्मषट्कविधात्री षडरिपुञ्जया ॥ ५१॥ हंसरूपे हेमगर्भे हंसगामिनि हारिणि । हंसकारकृतप्राणे कथं हरसि मां क्षणात् ॥ ५२॥ (ओङ्कार) क्षमारूपे क्षमाशीले क्षीणमध्ये क्षणान्विते । अक्षमालाधरे देवि सिद्धविद्ये नमोऽस्तु ते ॥ ५३॥ इति वर्णमाला । एवं स्तुता मया देवी कृष्णेन परमात्मना । प्रससाद रसमयी योगिनामपि दुर्लभा ॥ ५४॥ राधां निरीक्ष्य सप्रेमदृष्ट्या सपदि मामथ । (सत्प्रेम) समाश्वास्यैकमनसा वद्धयाऽभीतिमुद्रया ॥ ५५॥ (स्यैव मनसा) वामेन पाणिपद्मेन पद्मयुक्तेन शोभना । आत्मानं दातुकामापि किञ्चिन्नोवाच लज्जया ॥ ५६॥ ततोऽहं च जगत्स्वामी तस्या रूपेण मोहितः । निक्षिप्य मुरलीं भूमौ तामालिङ्गितुमुत्तमाम् ॥ ५७॥ एतस्मिन्नेव समये तद्देहप्रतिबिम्बतः । चतुर्भुजा कापि शक्तिस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ५८॥ इमामेकाकिनीं प्राप्य बलात्त्वं रन्तुमिच्छसि । (बाला त्वं वर्णमिच्छसि) सापि पाशाङ्कुशधरा वराभयकराऽपरा ॥ ५९॥ (या साङ्कुशधरा) रक्तवर्णा त्रिनेत्रा च रक्ताम्बरसमुज्ज्वला । रक्ताभरणमालाढ्या समुत्तुङ्गस्तनद्वया ॥ ६०॥ रत्ननूपुरसम्पद्भ्यां पद्भ्यां सम्पाद्य वेदिकाम् । (लसन्नूपुर) नानारत्नमयीं दिव्यां ज्वलज्ज्वलनसन्निभाम् ॥ ६१॥ जपन्तीं मोहनं मन्त्रं क्रीङ्कारं भुक्तिमुक्तिदम् । (हुङ्कारं / झङ्कारं) आकर्षयन्ती नितरामङ्कुशेन मनो मम ॥ ६२॥ बन्धयन्ती प्रेमदाम्ना हसन्ती वामपाणिना । (बद्धयन्ती, राम) मा भयं कुरु सर्वेश प्राप्स्यसीमां वराङ्गनाम् ॥ ६३॥ वन्दितां सकलैर्देवैः सर्वशक्तिशिखामणिम् । वरं दास्यामि ते कृष्ण प्रसन्नवदनो भव ॥ ६४॥ प्रकृतिस्त्वं पुमांश्च त्वं त्वमहं त्वमियं विभो । (पुमांस्त्वं वै त्वं, त्वमिमं) आत्मारामोऽस्मि भगवान् विमोहोऽयं कुतस्त्वयि ॥ ६५॥ इत्येवं च प्रजल्पन्ती कल्पयन्ती सुकल्पनाम् । अ[आ]विरास महादेवी सर्वशक्तिशिरोमणिः ॥ ६६॥ अहं (श्रीकृष्ण ) उवाच का त्वं कञ्जपलाशाक्षि कुतो जाताऽसि सुन्दरि । किमर्थमिह वाऽऽयाता कथ्यतां मा विलम्ब्यताम् ॥ ६७॥ भुवनेश्वरी उवाच अहमस्या महादेव्या द्वितीया मूर्तिरुत्तमा । महामायाऽस्मि देवेश जगन्मोहनरूपिणी ॥ ६८॥ तव वक्त्रोदितां श्रुत्वा स्तुतिं श्रुतिरसायनीम् । (वक्रोदितां) इहाऽऽयातास्मि वरद वरं दातुं समुद्यता । किमिच्छसि जगत्स्वामिंस्तुभ्यं दास्यामि तद्विभो ॥ ६९॥ (जगत्स्वामिन् स्तुत्यं दा, यद्विभो) अहं (श्रीकृष्ण ) उवाच प्रसन्ना यदि मे देवी वरमेकं प्रयच्छतु । असौ भवतु सुप्रीता गौराङ्गी विश्वमोहिनी ॥ ७०॥ तव प्रसादाद् यद्येषा वश्या मम भवत्युत । ममापि पूज्या भवती भविता भुवनेश्वरी ॥ ७१॥ भुवनेश्वरी उवाच कृष्ण कृष्ण महायोगिन् प्रधानपुरुषेश्वर । भाविता तव वश्येयं राधा त्रैलोक्यसुन्दरी ॥ ७२॥ यदा त्वया वर्णमालास्तुतिर्वशकरी कृता । (रन्तुमानास्तुति) तदैवेयं महादेवी स्वयं तव वशं गता ॥ ७३॥ (यदैवेयं) सन्निरीक्ष्य भवद्रूपं त्रैलोक्यातिमनोहरम् । आकर्ण्य वंशीनिनदं का स्त्री न स्याद्विमोहिता ॥ ७४॥ त्वया प्रोक्तमिदं स्तोत्रं राधामोहनमोहनम् । यः पठेत्तस्य तुष्टाऽसौ प्रदास्यति मनोगतम् ॥ ७५॥ वयं तद्वशगा नित्यं विश्वं च सचराचरम् । तस्य दर्शनमात्रेण वादिनो निष्प्रभाः सदा ॥ ७६॥ ध्यात्वा देवीं जगद्योनिमादिभूतां सनातनीम् । (त्वां देवीं) राधां त्रैलोक्यविजयां जयां सर्वसुखप्रदाम् ॥ ७७॥ (पथां) जपन्नष्टाक्षरं मन्त्रं पठन् स्तोत्रं समाहितः । (पठेत्) प्रणमेत् परया भक्त्या करस्थास्तस्य सिद्धयः ॥ ७८॥ (प्रणमेतत् परया) धर्मार्थकाममोक्षाद्या अणिमालघिमादयः । अथ तस्या महामन्त्रं कथयामि श‍ृणुष्व तम् ॥ ७९॥ (तस्यामहं मन्त्रं) क्लीबं च वह्निसंयुक्तमनन्तं तदनन्तरम् । (ङकारं वह्नि) नादबिन्दुकलायुक्तं राधिकायै ततः परम् ॥ ८०॥ (राधिकार्ण ततः) हृदयान्तो महादेव्या मनुरष्टाक्षरः परः । (हृदयान्ता, मनुरष्टाकरः) अस्य स्मरणमात्रेण किन्न सिध्यति साधनम् ॥ ८१॥ इदं स्तोत्रमसौ मन्त्रो यस्य वाचि प्रवर्तते । त्रैलोक्यसुन्दरी राधा चित्ते यस्य सदा स्थिता ॥ ८२॥ (स्थिरः) तस्य वाक्सिद्धिरतुला धनधान्यादिसम्पदः । भविष्यन्ति न सन्देहो भुवनेशी वचो यथा ॥ ८३॥ (वचनो यथा) ॥ श्रीकृष्णयामले महातन्त्रे राधावशीकारे भुवनेश्युत्पत्ति- र्भगवन्मुखविनिर्गता वर्णमालास्तुतिश्चतुर्दशोऽयायः ॥ १४॥ इति राधावर्णमालास्तुतिः समाप्ता । Proofread by Tanvir Chowdhury
% Text title            : Radha Varnamala Stutih
% File name             : rAdhAvarNamAlAstutiHKrishnaYamala.itx
% itxtitle              : rAdhAvarNamAlAstutiH (kRiShNayAmalatantrAntargatA)
% engtitle              : rAdhAvarNamAlAstutiH
% Category              : devii, rAdhA, varNamAlA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : rAdhA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Tanvir Chowdhury
% Description/comments  : Krishna Yamala Tantra Adhyaya 14
% Indexextra            : (Scan)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org