श्रीराधिकाध्यानामृतस्तोत्रम्

श्रीराधिकाध्यानामृतस्तोत्रम्

तडिच्चम्पकस्वर्णकाश्मीरभासः स्वकान्त्या भृशं दण्डयित्र्या विलासः । स्वरूपस्य तस्यास्तु वर्ण्यः सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ १॥ प्रफुल्लकुसुमप्रभाद्योतितानां लसच्चन्द्रिकाप्रोतमेघोपमानाम् । कचानां सचातुर्यबन्धेयमेणी दृशः सच्चमर्याग्रिमा भाति वेणी ॥ २॥ महानर्घ्यचूडामणीकामलेखा प्लुता राजते चारुसीमन्तरेखा । उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती किमास्येन्दुसौधैकधारोच्चलन्ती ॥ ३॥ नवेन्दूपमे पत्रपाश्याप्रभाले सुलीलालकालीवृते चारुभाले । मदेनान्तरा चित्रितं चित्रकं तत् विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ ४॥ अतिश्यामला विज्यकन्दर्पचाप प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप । मुखाम्भोजमाध्वीकपानादभीष्टा- दचेष्टालिपङ्क्तिः किमेषा निविष्टा ॥ ५॥ सफर्याविव प्रेष्ठलावण्यवन्ये प्सिते राजतस्ते दृशौ हन्त धन्ये । लसत्कज्जलाक्ते तयोः श्यामपक्ष्म क्वचिद्विन्दते कान्तताम्बूललक्ष्म ॥ ६॥ तडित्कन्दली मूर्ध्नि नक्षत्रयुक्ता स्थिराधःसुधाबुद्बुदद्वन्द्वसक्ता । यदि स्यात्सरोजान्तरे तां च भासा मृगाक्ष्यास्तिरस्कुर्वती भाति नासा ॥ ७॥ कपोलाक्षिबिम्बाधरश्रीविषक्तं बह्वेन्मौक्तिकं पीतनीलातिरक्तम् । स्मितोद्यत्पुटोदीर्णमाधुर्यवृष्टि- र्लसत्यच्युतस्वान्ततर्षैकसृष्टिः ॥ ८॥ लसत्कुण्डले कुण्डलीभूय मन्ये स्थिते कामपाशायुधे हन्त धन्ये । श्रुती रत्नचक्रीशलाकाञ्चिताग्रे दृशौ कर्षतः श्रीहरये समग्रे ॥ ९॥ अतिस्वच्छमन्तःस्थताम्बूलराग- च्छटोद्गारि शोभाम्बुधौ किं ललाग । कपोलद्वयं लोलताटङ्करत्न द्युमच्चुम्बितं प्रेयसो यत्र यत्नः ॥ १०॥ स्फुटद्बन्धुजीवप्रभाहारिदन्त- च्छदद्वन्द्वमाभाति तस्या यदन्तः । स्मितज्योत्स्नया क्षालितं या सतृष्णं चकोरीकरोत्यत्यन्वहं हन्त कृष्णम् ॥ ११॥ न सा विन्दते पाकिमारुण्यभाजि- च्छविर्यत्तुलां दाडिमीबीजराजिः । कथं वर्ण्यतां या त्वियं दन्तपङ्क्ति- र्मुकुन्दाधरे पौरुषं या व्यनक्ति ॥ १२॥ मुखाम्भोजमाधुर्यधारा वहन्ती यदन्तः कियन् निम्नतां प्रापयन्ती । किमेषा कस्तूरिकाबिन्दुभृत्तं हरिं किं दधानं विभात्यासावृत्तम् ॥ १३॥ स कण्ठस्तडित्कम्बुसौभाग्यहारी त्रिरेखः पिकस्तव्यसौस्वर्यधारी । स्रजं मालिकां मालिकां मौक्तिकानां दधत्येव यः प्रेयसा गुम्फितानाम् ॥ १४॥ उरोजद्वयं तुङ्गतापीनताभ्यां समं सख्ययुक् कृष्णपाण्यम्बुजाभ्याम् । नखेन्दुर्यदोदेतुमिच्छां विधत्ते तदा कञ्चुकी कालिका नापि धत्ते ॥ १५॥ म्रदिम्णा शिरीषस्य सौभाग्यसारं क्षिपन्त्या वहन्त्या भुजाभोगभारम् । तुलाशून्यसौन्दर्यसीमां दधत्या निजप्रेयसेऽजस्रसौख्यं ददत्याः ॥ १६॥ श्रितायाः स्वकान्तस्वतां कम्रगात्र्याः श्रियाः श्रीविलासान् भृशं खर्वयन्त्याः । गतांसद्वयी सौभगैकान्तकान्तं यदा पाणिनोत्क्रामयेति सालकान्तम् ॥ १७॥ तडिद्धामभृत्कङ्कणानद्धसीमा घनद्योतचूडावली सास्त्रसीमा । चकास्ति प्रकोष्ठद्वये या स्वनन्ती स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥ १८॥ तद्भाति रक्तोत्पलद्वन्द्वशोचि- स्तिरस्कारिपाणिद्वयं यत्र रोचिः । शुभाङ्कावलेः सौभगं यद्व्यनक्ति प्रियान्तर्हृदि स्थापने यस्य शक्तिः ॥ १९॥ (चतुर्भिः कुलकम्) नखज्योतिषा भान्ति ताः पाणिशाखाः करोत्यूर्मिकालङ्कृता या विशाखा । समासज्य कृष्णाङ्गुलीभिर्विलास- स्तदासां यदा राजते हन्त रासः ॥ २०॥ जनित्वैव नाभिसरस्युद्गता सा मृणालीव रोमावलिर्भाति भासा । स्तनच्छद्मनैवाम्बुजाते यदग्रे मुखेन्दुप्रभामुद्रिते ते समग्रे ॥ २१॥ कृशं किं नु शोकेन मुष्तिप्रमेयं न लेभे मणिभूषणं यत्पिधेयम् । निबद्धं वलीभिश्च मध्यं तथापि स्फुटं तेन सुस्तव्यसौन्दार्यमपि ॥ २२॥ क्वनत्किङ्किणीमण्डितं श्रोणीरोधः परिस्फारि यद्वर्णने क्वास्ति बोधः । कियान्वा कवेर्हन्त यत्रैव नित्यं मुकुन्दस्य दृक्खञ्जनोऽवाप नृत्यम् ॥ २३॥ प्रियानङ्गकेलिभरैकान्तवाटी पटीव स्फुरत्यञ्चिता पट्टशाटी । विचित्रान्तरीयोपरि श्रीभरेण क्षिपन्ती नवेन्दीवराभाम्बरेण ॥ २४॥ कदल्याविवानङ्गमाङ्गल्यसिद्धौ समारोपिते श्रीमदूरू समृद्धौ । विभातः परं वृत्ततापीनताभ्यां विलासैर्हरेः चेतनाहारि याभ्याम् ॥ २५॥ विराजत्यहो जानुयुग्मं पटान्तः समाकर्षति द्रागथाप्यच्युतान्तः । यदालक्ष्यते तत्र लावण्यसम्पत् सुव्रित्तं लसत्कानकं सम्पुटं तत् ॥ २६॥ तनुत्वं क्रमान्मूलतश्चारुजङ्घे प्रयातः परिप्राप्तसौभाग्यसङ्घे । पदाम्भोजयोर्नालता धारयन्त्यौ स्वभामन्तरीयान्तरे गोपयन्त्यौ ॥ २७॥ जयत्यङ्घ्रिपङ्केरुहद्वन्द्वमिष्टं दलाग्रे नखेन्दुव्रजेनापि हृष्टम् । क्वनन्नूपुरं हंसकारावभक्तं हरिं रञ्जयत्येव लाक्षारसाक्तम् ॥ २८॥ दराम्भोजताटङ्कवल्लीरथद्यै- र्महालक्षनैर्भव्यवृन्दाभिवाद्यैः । युतं यत्तलं मार्दवारुण्यशालि स्मृतं यद्भवेदच्युताभीष्टपालि ॥ २९॥ प्रिये श्यामलो लेढुभृङ्गो नलिन्या मरन्दं परं दन्दशीति क्षुदन्या । यदेतं बतेत्यच्युतोक्त्याञ्चलान्त- र्मुखाब्जे सितेन्दुं दधे सालकान्तः ॥ ३०॥ तमालम्ब्य लब्धौजसो माधवस्य स्फुटं पाणिचापल्यमल्पं निरस्य । तया स्वाधरः साधु कर्पूरलिप्तः कृतो नेति नेत्यक्षरोद्गारदीप्तः ॥ ३१॥ स जागर्ति तस्याः परिवारचेत- स्तटेऽनुक्षणं रम्यलीलासमेतः । अथाप्यष्टयामिक्यमुष्याः सपर्या यथाकालमाचर्यते तेन वर्या ॥ ३२॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीराधिकाध्यानामृतस्तोत्रं सम्पूर्णम् ।
% Text title            : rAdhikAdhyAnAmRRitastotram
% File name             : rAdhikAdhyAnAmRRitastotram.itx
% itxtitle              : rAdhikAdhyAnAmRitastotram (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : rAdhikAdhyAnAmRRitastotram by vishvanAthachakravartin
% Category              : devii, radha, vishvanAthachakravartin, dhyAnam, stavAmRRitalaharI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org