रामसुकुञ्जगामिनी
स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृति-
र्ध्यायं ध्यायं पशुपतिमुमाकान्तमन्तर्निषन्नम् ।
पायं पायं सपदि परमानन्दपीयूषधारां
भूयो भूयो निजगुरुपदाम्बोजयुग्मं नमामि ॥ १॥
गङ्गापूरप्रचलितजटासृस्त भोगेन्द्रभीता
मालिङ्गन्तीमचलतनयां सस्मितवीक्षमानः ।
लोलापाङ्गैः प्रणतजनता नन्दयञ्चन्द्रमौलि-
र्मोहध्वान्तं हरतु परमानन्दमूर्तिश्शिवो नः ॥ २॥
कमण्डलौ या कमलासनेन समानिता पूर्वमपूर्वतोया ।
त्रिविक्रमे विष्णुपदारविन्द सम्पूज्य याता हरमौलिभागम् ॥ ३॥
भगीरथः सागरगान्स्वपितृनुद्धर्तुं कामश्शिव सन्निधौ सः ।
आराधयामास सरिद्वरां तां हिमाद्रिदेशे पितृमुक्तिमत्यै ॥ ४॥
सन्तुष्टचित्तस्य शिवस्यमौलेर्विनिर्गता पुण्यजला त्रिमार्गैः ।
मन्दाकिनी स्वर्गपथानुगामिनी भागीरथी भारतपावनी सदा ॥ ५॥
पातालगा भोगवती यशस्विनी या सप्तधा सप्तसरोवरे स्थिता ।
सम्पूजिताभूदृषिभिस्तुसप्तभिः सापातु नो रामसुकुञ्जगामिनी ॥ ६॥
कूर्मासनस्था मृगशावकाक्षी, चतुर्भुजा शोभितश्वेतवस्त्रा ।
धृताक्षमाला घटपद्ममुद्रा, दृष्टा मया रामसुकुञ्जगा सा ॥ ७॥
भागीरथी पूतजला त्रितापहा, या भारतेभ्यो जयदायिनी सदा ।
सम्पूजिता भारतवासिभिर्मुदा, सा मेऽस्तु चान्ते शिवधाम दायिनी ॥ ८॥
सदा पूता गङ्गा वितरति मुहुर्दर्शनसुखं
हिमाद्रेः सञ्जाता भरतविपिने सिञ्चति तरून् ।
मयादृष्टा सैषा प्रवहति सदा खण्डितगतिः
स्वदेशस्य स्नेहं प्रकटयति मुदा स्नेहपयसा ॥ ९॥
हिमाद्रेर्निर्गत्य प्रविशति बनं तर्पणपरा
जनस्थाने लोकान्विविधबहुलाभं प्रकुरुते ।
त्रिवेणी तीर्थेऽस्मिन् हसति कुरुते नर्तनमपि
जलोर्मीणां नृत्यं सुखकरमहो सागरजले ॥ १०॥
कृतः कुञ्जे वासः परमसुखदो रामकृपया
प्रवद्धोऽस्यां स्नेहः सुरसरिति मे रामदयया ।
इयं गङ्गा मातुः प्रकटयति रागं मयि सदा
चिताभस्म त्याज्यं सुरसरिति मेऽतो मृतिपरम् ॥ ११॥
विरिञ्चिपाण्यब्जविनिर्गता सा, पदब्जपूता गरुडासनस्य ।
अलङ्कृता मूर्घ्निं सदाशिवेन, पुण्या पताका सगरात्मजानाम् ॥ १२॥
गङ्गा नदी पूतजला त्रिमार्गगा, मन्दाकिनी भोगवती च जाह्नवी ।
विरिञ्चिनारायणरुद्रपूजिता, स्वर्गापवर्गाभयदा सुधा स्रवा ॥ १३॥
सत्सङ्गलाभं शिवपादपूजां, माघेऽसिते धर्मतिथौ समाप्य ।
द्विजो जगन्नाथसुनामधन्यस्तृप्तिं परामाप सुकुञ्ज भृङ्गः ॥ १४॥
गङ्गा गीता च गायत्री, त्रिवर्गफलदायिनी ।
तनौ वाण्यां हृदि स्फीता, जगदानन्ददा भवेत् ॥ १५॥
त्रिसप्तनन्दैकदिने च क्रिस्तोर्माघेऽसिते धर्मतिथौस्वपितृन्
द्विजो ``जगन्नाथ'' सुनामधन्यस्तृप्तिं च कृत्वा गृहमाजगाम ॥ १६॥
धूम्रपान परित्यज्य बलभद्रप्रचोदितः ।
जीवन्मुक्तो जगन्नाथो रामकुञ्जे बभूव ह ॥ १७॥
राधाकान्त सुदर्शनात्मजजगन्नाथेन सम्पादितो
नानाछन्दमयः सुरागभरितो गङ्गावतारस्तवः ।
सोऽयं सज्जनमानसेषु नितरां शर्मप्रदो मोक्षदः
भूथान्नो जयदः सदा शिवमयः कामप्रदो भारते ॥ १८॥
इति गङ्गावतारान्तर्गता श्रीरामसुकुञ्जगामिनी समाप्ता ।
। श्री शिवार्पणमस्तु ।
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Lalitha Mallikarjunan, NA