रात्रिसूक्त (ऋग्वेद)
ऋग्वेद १०-१०-१२७
रात्रीति सूक्तस्य कुशिकः ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः,
श्रीजगदम्वा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
ॐ रात्री व्यख्यदायति पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥ १॥
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
ज्योतिषा वाधते तमः ॥ २॥
निरु स्वसारम्स्कृतोषसं देव्यायती ।
अपेदुहासते तमः ॥ ३॥
सा नो अद्य यस्या वयं नितेयामन्यविक्ष्महि ।
वृक्षेण् वसतिं वयः ॥ ४॥
नि ग्रामासो अविक्षत निपद्वन्तो निपक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥ ५॥
यावया वृक्यं वृकं यवयस्तेनमूर्म्म्ये ।
अथा नः सुतरा भव ॥ ६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥ ७॥
उप ते गा इवाकरं वृणीष्व दुहितर्द्दिवः ।
रात्रि स्तोमं न जिग्युषे ॥ ८॥
इति ऋग्वेदोक्तं रात्रिसुक्तं समाप्तम् ।
(सामविधान ब्राह्मण, ३-८-२)
ॐ रात्रिं प्रपद्ये पुनर्भूं मयोभूं कन्यां
शिखण्डिनीं पाशहस्तां युवतीं कुमारिणीमादित्यः ।
श्रीचक्षुषे वान्तः प्राणाय सोमो गन्धाय आपः
स्नेहाय मनः अनुज्ञाय पृथिव्यै शरीरम् ॥
॥ इति सामविधानब्राह्मणोक्तं रात्रिसूक्तम् ॥
Encoded and proofread by Dhruba Chakroborty dhruba at nfinity.nfinity.com