रात्रिसूक्तम्
ऋग्वेदसंहितायां दशमं मण्डलं, १२७ सप्तविंशत्युत्तरशततमं सूक्तम् ।
ऋषिः- कुशिकः सौभरो रात्रिर्वा भारद्वाजी । देवता- रात्रिस्तवः ।
छन्दः- १, ३, ६ विराड्गायत्री; २ पादनिचृद्गायत्री; ४, ५, ८ गायत्री; ७ निचृद्गायत्री ।
स्वरः-षड्जः ।
ॐ रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो᳚ऽधित ॥ १०.१२७.०१
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो᳚ दे॒व्यु१॒॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥ १०.१२७.०२
निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥ १०.१२७.०३
सा नो᳚ अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वयः॑ ॥ १०.१२७.०४
नि ग्रामा᳚सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ १०.१२७.०५
या॒वया᳚ वृ॒क्यं१॒॑ वृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये ।
अथा᳚ नः सु॒तरा᳚ भव ॥ १०.१२७.०६
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥ १०.१२७.०७
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ॥ १०.१२७.०८
॥ परिशिष्टम् ॥
आ रा᳚त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तरः॑ प्रायु॒ धाम॑भिः ।
दि॒वः सताम्᳚सि बृह॒ती वि ति॑ष्ठ स॒ आ त्वे॒षं व॑र्तते तमः॑ ॥ १
ये ते᳚ रात्रि नृ॒चक्ष॑सो यु॒क्तासो᳚ न॒वतिर्नव॑ ।
अशीतिः॑ संत्व॒ष्टा॒ उ॒तो ते᳚ सप्त॒ सप्त॑तीः ॥ २
रात्रीं॒ प्रप॑त्ये ज॒ननीं᳚ स॒र्वभू᳚तनिवेश॑नीम् ।
भ॒द्रां भ॒गव॑तीं कृ॒ष्णां॒ वि॒श्वस्य॑ जग॒तो नि॑शाम् ॥ ३
स॒म्वे॒शि॒नीं᳚ सं॒य॒मि॒नीं॒ ग्र॒हन॑क्षत्र॒मालि॑नीम् ।
प्रप॑न्नो॒ऽहं शि॑वां रा॒त्रीं॒ भ॒द्रे पा᳚रम॒शीम॑हि
(भ॒द्रे पारम॒शीम॒ह्यों नमः॑) ॥ ४
स्तो॒ष्या॒मि॒ प्रयतो॒ देवीं᳚ श॒रण्यां᳚ बह्वृ॒चप्रि॑याम् ।
स॒ह॒स्र॒संहि॑तां दु॒र्गाम् जा॒तवे᳚दसे सुनवाम॒ सोमम्᳚ ॥ ५
शा॒न्त्य॒र्थं॒ तद् द्वि॒जा॒तीना᳚ऋ॒षिभिः॑ सोम॒पाश्रि॑ताः ।
ऋक्वे᳚दे॒ त्वं संमूत्प॒नाऽरा᳚त्रीय॒तो नि द॑हाति॒ वेदः॑ ॥ ६
ये त्वां᳚ दे॒वि प्र॒ पत्य᳚न्ति ब्रा॒ह्मणा᳚ हव्य॒वाह॑नीम् ।
अ॒वि॒त्या॒ बहु॑वित्या॒ वा॒ सनः॑ पर्ष॒दति॑ दुर्गाणि॒ विश्वा᳚ ॥ ७
ये अ॒क्निवर्᳚णां शु॑भां सौ॒म्यां की॒र्तयि॑ष्यन्ति॒ ये द्वि॑जाः।
ता॒म्स्ता॒र॒य॒ति॒ दुर्गा᳚णि ना॒वेव सिन्धुं᳚ दुरि॒तात्य॒ग्निः ॥ ८
दुर्गे᳚षु विषमे घोरे᳚ सङ्ग्रामे᳚ रिपुसङ्क॑टे ।
अग्निचोरनि॑पातेषु दुष्ठग्र॑हनिवारिणि
दुष्ठग्र॑हनिवारिण्योन्नमः॑ ॥ ९
दुर्गेषु॒ विष्॑मेषु॒ त्वं᳚ स॒ङ्ग्रामे᳚षु व॒नेषु॑ च ।
मो॒ह॒यि॒त्वा 'प्र॑पत्य॒म्न्ते ते॒षां मे᳚ अभ॒यं कु॑रु ।
ते॒षां मे अभ॒यं कु॑रुवोन्नमः॑ ॥ १०
के॒शि॒नीं᳚ सर्व॑भूता॒नां॒ प॒ञ्चमी᳚ति च॒ नाम॑ च ।
सा॒ मां॒ स॒मा॒ नि॒शा॒ देवी᳚ स॒र्वतः॑ परि॒ रक्ष॑तु ।
स॒र्वतः॑ परि॒ रक्ष॒त्वोन्नमः॑ ॥ ११
ताम॒ग्निव᳚र्णां॒ तपसा ज्वल॒म्तीं वै᳚रोच॒नीं कर्᳚मफ॒लेषु जुष्टां᳚ ।
दु॒र्गां॒ दे॒वीं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः ।
सु॒तर॑सि तरसे॒ नमः॑ ॥ १२
दुर्गा᳚ दुर्॒गेषु॑ स्थाने॒षु शं॒ नो दे᳚वीर॒भि॑ष्टये ।
य इ॒मं दु॒र्गास्त॑वं पु॒ण्यं रा॒त्रौरा᳚त्रौ स॒दा प॑ठेत् ॥ १३
रात्रिः कुशि॑कसो॒भ॒रो॒ रात्रि॒र्वा भा᳚रद्वा॒जी रात्रि॒स्तवो᳚ गाय॒त्री ।
रातरी᳚सू॒क्तं जपे॑न्नि॒त्यं॒ त॒त्काल॑मुपप॒द्य॑ते ॥ १४
उलू᳚कयातुं शीशी॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुम् ।
सु॒प॒र्णया᳚तुमुत गृ॑ध्रयातुं दृ॒षदे᳚व प्रमृ॑ण॒ रक्ष॑ इन्द्र ॥ १५
पि॒शङ्ग॑भृषटि॒मम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण ।
सर्वं॒ रक्षो॒ निबर्᳚हय ॥ १६
हि॒मस्य॑ त्वा ज॒रायु॑णा शाले॒ परि᳚ व्ययामसि ।
(उत॒ ह्र॒दो हि॑ नो धियो॒ग्निर्द॑दातु भेष॒जम्) ॥ १७
शीशी᳚तह्र॒दो हि॑ नो धियो॒ग्निर्द॑दातु भेष॒जम् ।
अन्ति॒काम॒ग्निम॑जनय॑ दूर्वा᳚दः॑ शी॒शीलाग॑मत् ॥ १८
अ॒जातपुत्रप॒क्षाया᳚ हृ॒दयं॒ मम॑ दूयते ।
विपु॑लं॒ वनं᳚ ब॒ह्वाका᳚शं चर॑ जातवेदः॒ कामा᳚य ॥ १९
मां॒ च॒ रक्ष॒ पुत्रां᳚श्च शर॑णमभू॒त् तव॑ ।
पि॒~ण्गाक्ष॒ लोहि॒तग्री᳚व कृ॒ष्णव᳚र्ण न॒मोस्तु॑ ते ॥२०
अ॒स्मान्नि॒बर्ह॑रस्येनां॒ सा॒गर॑स्योर्म॒यो य॑था ।
इन्द्रः॑ क्ष॒त्रं द॑दातु॒ वरू॑णम॒भि षिम्᳚चतु ॥ २१
श॒त्र॒वो॒ निध॑नं या॒न्तु॒ ज॒य त्वं᳚ ब्रह्म॒तेज॑सा ॥ २२
क॒पि॒ल॒ज॒टीं᳚ सर्व॑भक्षं॒ चा॒ग्निं प्र॑त्यक्ष॒ दैव॑तम् ॥ २३
व॒रु॒णं॒ च॒ व॒शा॒म्यग्रे᳚ म॒म पु॑त्रांश्च॒ रक्ष॑तु
(म॒म पु॑त्रांश्च॒ रक्ष॒त्वोन्नमः॑) ॥ २४
साग्रं᳚ व॒र्षश॒तं जी᳚व पि॒ब खा᳚द च॒ मोद॑ च ॥ २५
दु॒:खि॒तां॒श्च द्वि॑जांश्चै॒व प्र॒जां च॑ पशु॒ पाल॑य ॥ २६
याव॑दा॒दित्यस्त॑पति॒ याव॑द्भ्राजति॒ चन्द्र॑माः ।
या॒व॒द्वा॒युः प्लवा᳚यति॒ ताव॑ज्जीव॒ जया᳚ जय ॥ २७
येन॑ के॒न प्र॑कारे॒ण को॒ हि ना᳚म नु॒ जीव॑ति ।
परे᳚षा॒मुप॑कारार्थं य॒ज्जीव॑ति स॒ जीव॑ति ।
ए॒तां॒ वै॒श्वानरीं᳚ स॒र्वदे᳚वान्न॒मोस्तु॑ ते ॥ २८
न चो॑र॒भयं॒ न च॑ सर्प॒भयं॒ न च॑ व्याघ्र॒भयं॒ न च॑ मृत्यु॒भयम्᳚ ।
य॒स्या॒प॒मृ॒त्युर्न च मृ॒त्युः सर्वम्᳚ लभते॒ सर्वं᳚ जयते ॥ २९
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति परिशिष्टम् ॥
रात्रिसूक्तं स्वररहितम्
रात्री व्यख्यदायती पुरुत्रा देव्य१क्षभिः ।
विश्वा अधि श्रियोऽधित ॥ १०.१२७.०१
ओर्वप्रा अमर्त्या निवतो देव्यु१द्वतः ।
ज्योतिषा बाधते तमः ॥ १०.१२७.०२
निरुस्वसारमस्कृतोषसं देव्यायती ।
अपेदु हासते तमः ॥ १०.१२७.०३
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
वृक्षे न वसतिं वयः ॥ १०.१२७.०४
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥ १०.१२७.०५
यावया वृक्यं१ वृकं यवय स्तेनमूर्म्ये ।
अथा नः सुतरा भव ॥ १०.१२७.०६
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥ १०.१२७.०७
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
रात्रि स्तोमं न जिग्युषे ॥ १०.१२७.०८
॥ परिशिष्टम् ॥
आ रात्रि पार्थिवं रजः पितरः प्रायु धामभिः ।
दिवः सताम्सि बृहती वि तिष्ठ स आ त्वेषं वर्तते तमः ॥ १
ये ते रात्रि नृचक्षसो युक्तासो नवतिर्नव ।
अशीतिः संत्वष्टा उतो ते सप्त सप्ततीः ॥ २
रात्रीं प्रपत्ये जननीं सर्वभूतनिवेशनीम् ।
भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥ ३
सम्वेशिनीं संयमिनीं ग्रहनक्षत्रमालिनीम् ।
प्रपन्नोऽहं शिवां रात्रीं भद्रे पारमशीमहि
(भद्रे पारमशीमह्यों नमः) ॥ ४
स्तोष्यामि प्रयतो देवीं शरण्यां बह्वृचप्रियाम् ।
सहस्रसंहितां दुर्गां जातवेदसे सुनवाम सोमम् ॥ ५
शान्त्यर्थं तद् द्विजातीनाऋषिभिः सोमपाश्रिताः ।
ऋक्वेदे त्वं संमूत्पना रात्रीयतो नि दहाति वेदः ॥ ६
ये त्वां देवि प्र पत्यन्ति ब्राह्मणा हव्यवाहनीम् ।
अवित्या बहुवित्या वा सनः पर्षदति दुर्गाणि विश्वा ॥ ७
ये अक्निवर्णां शुभां सौम्यां कीर्तयिष्यन्ति ये द्विजाः।
ताम्स्तारयति दुर्गाणि नावेव सिन्धुं दुरितात्यग्निः ॥ ८
दुर्गेषु विषमे घोरे सङ्ग्रामे रिपुसङ्कटे ।
अग्निचोरनिपातेषु दुष्ठग्रहनिवारिणि
दुष्टग्रहनिवारिण्योन्नमः ॥ ९
दुर्गेषु विष्मेषु त्वं सङ्ग्रामेषु वनेषु च ।
मोहयित्वा 'प्रपत्यम्न्ते तेषां मे अभयं कुरु ।
तेषां मे अभयं कुरुवोन्नमः ॥ १०
केशिनीं सर्वभूतानां पञ्चमीति च नाम च ।
सा मां समा निशा देवी सर्वतः परि रक्षतु ।
सर्वतः परि रक्षत्वोन्नमः ॥ ११
तामग्निवर्णां तपसा ज्वलम्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ।
सुतरसि तरसे नमः ॥ १२
दुर्गा दुर्गेषु स्थानेषु शं नो देवीरभिष्टये ।
य इमं दुर्गास्तवं पुण्यं रात्रौरात्रौ सदा पठेत् ॥ १३
रात्रिः कुशिकसोभरो रात्रिर्वा भारद्वाजी रात्रिस्तवो गायत्री ।
रातरीसूक्तं जपेन्नित्यं तत्कालमुपपद्यते ॥ १४
उलूकयातुं शीशीलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्रमृण रक्ष इन्द्र ॥ १५
पिशङ्गभृषटिमम्भृणं पिशाचिमिन्द्र सं मृण ।
सर्वं रक्षो निबर्हय ॥ १६
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
(उत ह्रदो हि नो धियोग्निर्ददातु भेषजम्) ॥ १७
शीशीतह्रदो हि नो धियोग्निर्ददातु भेषजम् ।
अन्तिकामग्निमजनय दूर्वादः शीशीलागमत् ॥ १८
अजातपुत्रपक्षाया हृदयं मम दूयते ।
विपुलं वनं बह्वाकाशं चर जातवेदः कामाय ॥ १९
मां च रक्ष पुत्रांश्च शरणमभूत् तव ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्ण नमोऽस्तु ते ॥२०
अस्मान्निबर्हरस्येनां सागरस्योर्मयो यथा ।
इन्द्रः क्षत्रं ददातु वरूणमभि षिञ्चतु ॥ २१
शत्रवो निधनं यान्तु जय त्वं ब्रह्मतेजसा ॥ २२
कपिलजटीं सर्वभक्षं चाग्निं प्रत्यक्ष दैवतम् ॥ २३
वरुणं च वशाम्यग्रे मम पुत्रांश्च रक्षतु
(मम पुत्रांश्च रक्षत्वोन्नमः) ॥ २४
साग्रं वर्षशतं जीव पिब खाद च मोद च ॥ २५
दु:खितांश्च द्विजांश्चैव प्रजां च पशु पालय ॥ २६
यावदादित्यस्तपति यावद्भ्राजति चन्द्रमाः ।
यावद्वायुः प्लवायति तावज्जीव जया जय ॥ २७
येन केन प्रकारेण को हि नाम नु जीवति ।
परेषामुपकारार्थं यज्जीवति स जीवति ।
एतां वैश्वानरीं सर्वदेवान्नमोऽस्तु ते ॥ २८
न चोरभयं न च सर्पभयं न च व्याघ्रभयं न च मृत्युभयम् ।
यस्यापमृत्युर्न च मृत्युः सर्वं लभते सर्वं जयते ॥ २९
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति परिशिष्टम् ॥
इति रात्रिसूक्तम् ।