रजस्वला स्तवराजम्

रजस्वला स्तवराजम्

श्रीगणेशाय नमः । ॐ सरस्वत्यै नमः । ॐ अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य, ईश्वरऋषिः, अनुष्टुप्छन्दः, श्रीरजस्वला देवतायै, ममोपासने जपे विनियोगः ॥ अथ ऋष्यादि षडङ्गन्यासः । ॐ ह्रां क्लां ईश्वरऋषये नमः शिरसि । ॐ ह्रीं क्लीं अनुष्टुप् छन्दसे नमः मुखे । ॐ ह्रूं क्लूं रजस्वला देवतायै नमः हृदये । ॐ ह्रैं क्लैं बीजाय नमः गुह्ये । ॐ ह्रैं क्लौं शक्तये नमः पादयोः । ॐ ह्रः क्लः कीलकाय नमः नाभौ सर्वाङ्गेतिव्यापकम् ॥ अथ करन्यासः । ॐ ह्रां क्लां अङ्गुष्टाभ्यां नमः । ॐ ह्रीं क्लीं तर्जनिभ्यां नमः । ॐ ह्रूं क्लूं मध्यमाभ्यां नमः । ॐ ह्रैं क्लैं अनामिकाभ्यां नमः । ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः क्लः करतलकरपृष्टाभ्यां नमः ॥ अथ हृदयादि षडङ्गन्यासः । ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा । ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुम् । ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट् ॥ अथ ध्यानम् । बालार्ककोटिवर्णाभ्यां भालचन्द्रनिभाननाम् । अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥ इति ध्यानम् । अथ गायत्री । ॐ ह्रां क्लीं रजस्वलायै विद्महे । ॐ ह्रां क्लौं सर्व शक्ति च धीमहि । ॐ ह्रां क्लुः तन्नोरजस्वला प्रचोदयात् । इति गायत्री मन्त्रः ॥ अथ मूलमन्त्रः । ॐ ह्रीं श्रीं क्लीं ऐं स्वाहा ॥ १३०० जपसङ्ख्या ॥ अथ जटिका खोलनमन्त्रः । ॐ श्रीं क्लीं एकाक्षराय भगवते विश्वरूपाय सर्वयोगेश्वराय त्रैलोकनाथाय सर्वकामप्रदाय नमः स्वाहा । सिद्धिर्भवति मनवाञ्छितफलप्राप्तिर्भवति ॥ ॐ श्रीं ह्रीं क्लीं रजस्वलायै हः हः हः स्वाहा ॥ इति मूल मन्त्रः ॥ ॐ ऐं ह्रीं क्लीं उच्छिष्टचाण्डालिनि ॐ सुं मुखिदेविमहापिशाचिनी ॐ ह्रीं ॐ ठः ठः ठः ॐ स्वाहा ॥ इति मूलमन्त्रः ॥ ॐ नमः कालिकाय नमः । रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति । भाषणङ्कुरुते राज अश्वमेधादिकं फलम् ॥ १॥ तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् । यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ २॥ श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् । न्यासङ्कृत्वा स्वदेहे च कलाभिः कामषोडशैः ॥ ३॥ मात्रिकान्यास देहेषु अनुलोम विलोमतः । शिवरूपं विचिन्त्यस्य भगपूजासमाचरेत् ॥ ४॥ कोटिजन्मार्जितैर्पुण्यैर्भक्त्यायां पूजयेद्भगम् । विशेष्य पूज्यते योनिपुष्पसङ्ख्या न विद्यते ॥ ५॥ महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः । पुज्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ ६॥ नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया । पिबन्ति च सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ ७॥ वृत्यैभूतो स्वयं भक्त्या विकल्पेन च अचेतसाम् । पुष्पैभूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ ८॥ स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् । यावत् भुक्तं सुखं जाप्यं जपित्वाचसुरेश्वरि ॥ ९॥ निर्जनस्य च पाठस्य पूनःकार्य सर्वैशुभैः । एवं कृतेतुवीरेण शिवतुल्यो भवेन्नरः ॥ १०॥ अत्यन्त गोप्यं देवेशि तस्ययोनि विनिक्षिपेत् । अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ ११॥ प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः । इन्द्रलोकेन देवेशि गोप्यात्सफलम्महत् ॥ १२॥ भक्त्याचयमतेवीरो पूज्यते साधकोभवेत् । रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ १३॥ इति त्रयोदश श्लोकै स्तवनं परमाद्भुतम् । रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ १४॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय । सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ १५॥ यस्य स्तोत्रस्य माहात्म्यं यावक्तुर्नशक्यते । विरञ्चिभगवान् विष्णुः पठ्यते च निरन्तरम् ॥ १६॥ यस्य पाठप्रभावेण सृष्टिस्थितिभवेदिहः । तस्मात्सर्वप्रयत्नेन देविगोप्यङ्करं शुभम् ॥ १७॥ ॥ इति श्रीरजस्वलास्तवराजं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । Proofread by rajesh thyagarajan
% Text title            : Rajasvala Stavarajam
% File name             : rajasvalAstavarAjam.itx
% itxtitle              : rajasvalAstavarAjam
% engtitle              : rajasvalAstavarAjam
% Category              : devii, stavarAja, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : March 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org