श्रीरङ्गनायिकास्तोत्रम्
ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियं
पद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् ।
वात्सल्यादिगुणोज्ज्वलां मणिमयर्भूषागणैर्भूषितां
अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ १॥
स्वस्ति श्रीर्दिश मे शशाङ्कवदने कल्याणदे वत्सले
सर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके ।
सन्त्यक्ते निवहैः सतामशरणे तापत्रयीबाधिते
पापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ २॥
अरमन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्ये
कान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः ।
ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीले
पद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ ३॥
दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै-
र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः ।
नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यं
दुःखाब्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ ४॥
श्रीरङ्गनाथदयितेऽखिललोकमातः
कार्या कृपा ह्यशरणे मयि सिन्धकन्ये ।
वात्सल्यतस्तु कमले मम दिव्यबोधं
देहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ ५॥
सौख्यं प्रदेहि सुभगे दयिते मुरारेः
श्रीरङ्गिणः खलु रमे सुलभे सुशीले ।
कान्तस्मिते शशिलसद्वदने दयां ते
नित्यं कुरुष्व मयि मां परिपाहि पझे ॥ ६॥
कमले कमलारुणदिव्यमुखे
सुखदे जगतां खलु कल्पलते ।
अयि मामवलोकय सिन्धुसुते
कृपया तव केवलमजपदे ॥ ७॥
पतितं भववारिधिमभ्यगतं
सततं विमतं जनताभिमते ।
अयि मामवलोकय पद्मकरे
दयिते जगदीश्वरि रङ्गपतेः ॥ ८॥
पदयोः शरणागतमब्धिसुते
तव दीनमकिञ्चनमार्तियुतम् ।
अयि मामवलोकय रङ्गपते
दयिते विधिशङ्करमुख्यपतेः ॥ ९॥
अपि दुःसहपापशतैर्भरितं
जगतां जननि क्षमया कमले ।
परिपालय मां दयनीयमिमं
परिदीनहृदं तव रङ्गपतेः ॥ १०॥
युवयोरपि दुःसहपापशतै-
र्भुवनेश्वरि रङ्गपतेर्दयिते ।
अपि मां भरितं परिपालय ते
दयया शरणागतिकं पदयोः ॥ ११॥
मातः प्रसीद कमले जगतां सुशीले
तापत्रयीजनितदुःखसहस्रसङ्घैः ।
पापैरनन्यगतिकं भरितं च दीनं
मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२॥
युष्मत्पदाम्बुजयुगं शरणं गतस्य
मातः प्रयच्छ वरदे जगतां प्रियं मे ।
श्रीरङ्गनायकि मनोहरदिव्यरूपे
पाहि प्रसीद कमले सुभगे सुशीले ॥ १३॥
भवसिन्धुमग्नमरविन्दलोचने
प्रणतप्रसन्नमुखचन्द्रमण्डले ।
परिपालयाद्य दयनीयदुर्दशं
कृपया च मां च कमले दयानिधे ॥ १४॥
तव रङ्गिणश्च चरणाम्बुजे विना
गतिरस्ति नो च मम रङ्गनायकि ।
इह मां कुरुष्व तव किङ्करं सदा
जननी समस्त जगतां दयानिधे ॥ १५॥
विधिशङ्करेन्द्रमुखनिर्जरैः सदा
वनितायुतश्च कमले समर्चिते ।
अखिलेष्टदे सकललोकवल्लभे
सततं कुरुष्व तव किङ्करं तु माम् ॥ १६॥
जननी मम त्वमसि सिन्धुकन्यके
शरणं त्वमेव कमले दयानिधे ।
इह निस्तरेयमहमब्जलोचने
कृपया तवैव भवघोरसागरम् ॥ १७॥
मातः श्रीः सिन्धुकन्ये कुवलयशफरीपद्मसौगन्धिकादि-
प्रस्पर्धिस्फारनेत्रे सरसिजवदने दिव्यलावण्यगात्रे ।
बिम्बश्रीविद्रुमाभाधररुचिलसिते दिव्यवक्षोजदीप्रे
पद्मे (रक्ष) श्रीरङ्गहर्म्याङ्गणकनकलते
त्वत्कटाक्षैः शुभैर्माम् ॥ १८॥
मां रक्ष रङ्गिदयिते मधुरैः कटाक्षैः
राभोगतुङ्गरुचिरस्तनभासमाने ।
सर्वेश्वरस्तव सुदर्शनलोलदृष्टि-
स्त्वां वीक्षते तव पतिः सततं सुशीले ॥ १९॥
समज्जति स्तनतटे तव रङ्गनाथो
व्यामुग्धवांस्त्वयि शुभे झषमुग्धनेत्रे ।
वश्यः सदा भवति ते कमले ततस्त्वं
मां रक्ष रङ्गिदयिते करुणाकटाक्षैः ॥ २०॥
ईषत्प्रफुल्लकमलोत्पलकान्तनेत्रे
मुग्धस्मितप्रविलसद्वदनारविन्दे ।
श्रीरङ्गनायकि मनोहरदिव्यगात्रे
नित्यं प्रसीद मम वृत्तमचिन्तयित्वा ॥ २१॥
श्रीरङ्गराजसयुजे श्रियै कनकभूषणैः ।
माणिक्यभूषणैर्दीप्रतन्वङ्गथै जयमङ्गलम् ॥ २२॥
इति श्रीरङ्गनायिकास्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan