रेणुकास्तवराजस्तोत्रम् कौलार्णवे भैरवोक्तम्
श्री गणेशाय नमः ।
सदाशिवं नमस्कृत्य उमां दुर्गां गणेश्वरम् ।
वक्ष्यामि रेणुकास्तोत्रं भुक्ति-मुक्ति-फलप्रदम् ।
गुप्तप्रकट-सिद्धानां योगिनी चक्र-पादुकाम् ।
नमामि शिरसा नाथं काल कौलेश्वरं प्रभुम् ॥
आनन्द-पीठ-मध्यस्थमानन्द-परवेष्टितम् ।
प्रणम्य च कुलानन्दं ज्ञानानन्द-प्रकाशकम् ॥
अक्षरं क्षरमाद्यन्तं प्रकृतिं पुरुषं परम् ।
तं वन्दे सच्चिदानन्दमेकवीरं सशाम्भवम् ॥
सिंहपर्वतमासीनं देवदेवेश्वरोत्तमम् ।
तत्रस्थञ्च सुरवासिनमात्रेयं ब्रह्मवादिनम् ॥
अनुसूया वरं प्राप्तं पुत्रस्नेहेन वत्सलाम् ।
यत्र योगीश्वरो विष्णुः सम्भविष्यत्वयोनिजाम् ॥
नानाभोगसमाकीर्णं क्रीडते प्रमदादिभिः ।
मदिरानन्दचैतन्यं ज्ञानानन्दप्रबोधकम् ॥
जमदग्नेस्तु या भार्या रेणुका नाम विश्रुता ।
राममातेति विख्याता त्रिषु लोकेषु विस्तृता ॥
दत्तात्रयो महात्माऽसौ नागपिङ्गलपूर्वकम् ।
रेणुकायाः विनिक्षिप्तं सद्भावं बीजमुत्तमम् ॥
माया बीजेन संयुक्तं महापीठोद्भवं शुभम् ।
तत्रस्था शाम्भवी शक्तिः सोमया च कुलान्वया ॥
कुलाकुलविभागेन वाम-दक्षिण-सञ्ज्ञकम् ।
सन्तानं त्रिः प्रकारं चतुः सिंहासने सदा ॥
क्रमपीठेः सदा युक्तं द्वीप-द्वीपान्तरे स्थितम् ।
पञ्चाशद्वर्णभेदेन मन्त्रयन्त्राणि वै स्थितम् ॥
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकन्त्रिकम् ।
वषट्कारः समुत्पन्नः कौमार्या बटुकाद्वयः ॥
षड्भिः चक्रैस्तु वै देव्याः श्रीकण्ठाद्याश्चैव भैरवाः ।
श्रिया क्रमेण संयुक्ता चतुःषष्ठ्यास्तु देवताः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा च शिवोद्भवा ॥
प्रयोगे वारुणं कौलं आदावाह्य जयन्तिका ।
चरत्रिकं प्रतञ्चैव देवी कोष्ठेन चाष्टधा ॥
माहेन्द्री च तथाग्नेयी याम्यां नैरृत्य वारुणी ।
वायव्यां हि च कौवेरी ईशान्यां दिव्ययोगिनी ॥
उड्यायनी जलन्धरी कामरूपा च या स्थिता ।
कौलार्णवे स्थिता या च मन्त्रे चक्रे तु या स्थिता ॥
प्रसन्ना प्रकटा चैव सहजा कुलजादयः ।
क्षेत्रपालाश्च दिक्पाला वेतालाश्चैव राक्षसाः ॥
पिशाचा गणगन्धर्वा शाकिनी डाकिनी तथा ।
ख़ेचरा भूचराश्चैव पातालाश्चान्तरिक्षगाः ॥
नानारूपधरा सर्वे बलिपूजाभिकाङ्क्षिणः ।
अधिकारस्वरूपेण विचरन्ति महीतले ॥
क्रीडते योगिनी वृन्दं क्षेत्रमातृगृहे स्थितम् ।
केचिद् गायन्ति नृत्यन्ति पूजयन्ति स्तुवन्ति च ॥
हसन्ति किलकिलायन्ति गर्जयन्ति महाबलाः ।
मातृपादोद्भवा सर्वे मातृमण्डलसंस्थिता ॥
तन्मध्ये शाम्भवी शक्तिर्रेणुका सुरपूजिता ।
श्रावण्यश्चैव शाक्तेयमष्टव्या शाम्भवीपदम् ॥
तेन सा शाम्भवी प्रोक्ता हकाराद्धि कलास्मृता ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥
मालाबीजसमुत्पन्ना सा शक्तिर्रेणुका मता ।
नमोऽस्तु ते महादेवि महामाये नमोऽस्तु ते ॥
नमोऽस्तु ते वीरभद्रे वीरमात्रे नमोऽस्तु ते ।
राममात्रे नमस्तुभ्यं त्रिषु लोकेषु पूजिता ॥
नमोऽस्तु कुलकौलेशि नमोऽस्तु ज्ञानभैरवि ।
नमोऽस्तु ज्ञानगे सर्वे सर्वेश्वरि नमोऽस्तु ते ॥
रामेश्वरि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते ।
भद्रकालि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते ॥
जमदग्निप्रिये शुभ्रे रेणुके त्वां नमोऽस्तु ते ।
चैतन्यविग्रहे नित्ये व्यापके त्वां नमोऽस्तु ॥
त्रैलोक्यव्यापिनी देवी विष्णुमाये नमोऽस्तु ते ।
शङ्कर-प्रेमपात्रत्वं पार्वति त्वां नमोऽस्तु ते ॥
हरकायार्द्धवासित्वं शङ्करि त्वां नमोऽस्तु ते ।
भक्तिप्रिये महाशुभ्रे मालिनि त्वां नमोऽस्तु ते ॥
पञ्चमुद्रे महामुद्रे भूतपञ्चकमुद्रिते ।
महामुद्रात्मिके शान्ते रेणुकायै नमोऽस्तु ते ॥
सद्भावबीजमुत्पन्नं भावेन तव संस्थितम् ।
स्वात्मभावात्मजात्मस्था रेणुकायै नमोऽस्तु ॥
स्वच्छन्दविहरिणी शक्तिः स्वच्छन्देन च संस्थिता ।
स्वच्छन्दोन्मत्तमातङ्गी रेणुकायै नमोऽस्तु ते ॥
प्रमत्ते मदिरानन्दे मदिरानन्दविग्रहे ।
चिद्रुपे परमानन्दे रेणुकायै नमोऽस्तु ते ॥
जगद्बीजे जगद्रूपे जगद्भूते जगन्मये ।
जगन्माते जगन्मातः रेणुकायै नमोऽस्तु ते ॥
वैष्णवी विष्णुमाया त्वं मोहितं सचराचरम् ।
वाञ्छितार्थप्रदादेवि तां वन्दे रेणुकामहम् ॥
स्वच्छन्दभैरवीचण्डे मातङ्गी मत्तरूपिणी ।
योगिनीवृन्दमध्यस्थे एकवीरे नमोऽस्तु ते ॥
ब्रह्मवैकुण्ठरुद्राद्या मुनीन्द्राः सिद्धकिन्नराः ।
त्वत्पदं पूजयन्तीह मातृपीठे नमोऽस्तु ॥
त्वं परा त्वं च पश्यन्ती मध्यमा त्वं च वैखरी ।
ऋग्यजुः सामाथर्वाणि शब्दब्रह्मात्मिके नमः ॥
यज्ञविद्या त्रिसन्ध्या त्वं वेदगर्भा सुरेश्वरि ।
गङ्गा गया च गायत्री मातापुरनिवासिनी ॥
त्वं स्वाहा त्वं स्वधा चैव पञ्चयज्ञमहामख़े ।
यस्य जाति द्विजेन्द्राणां मातृलिङ्गमहेश्वरि ॥
त्वं च काली महाकाली महालक्ष्मी सरस्वती ।
त्रिपुरा त्वरिता त्वं च रेणुकायै नमोऽस्तु ते ॥
कपालिनी कालिकात्वं भैरवी त्वं चाम्बिका ।
माहेन्द्री त्वं विशालाक्षी रेणुकायै नमोऽस्तु ते ॥
क्षेत्रजा पीठजा त्वं च मन्त्रजा त्वं कलाम्बिके ।
प्रसन्ना प्रकटा त्वं च सहजा त्वं च रेणुके ॥
वामे ज्येष्ठे च रौद्रे च मालिनी मन्त्रयोगिनी ।
वेद सिद्धान्तयानित्यं तां वन्दे रेणुकामहम् ॥
सुरज्येष्ठे सुरानन्दे सर्वदेवमयी शिवे ।
सच्चिदानन्दचिद्रूपे विश्वेश्वरि नमोऽस्तु ते ॥
पीठक्षेत्रे श्मशाने च क्रीडते वृन्दभैरवी ।
चत्वारि योगिनी वृन्दे रेणुकायै नमोऽस्तु ते ॥
चतुःषष्ठिस्तु योगिन्याः सिद्धसङ्घट्टमेलके ।
मातृमण्डलमध्यस्थे रेणुकायै नमोऽस्तु ते ॥
मन्त्रयन्त्रकुलाद्ये तु कुलकौलेश्वरि शिवे ।
ज्ञानानन्दसुरापूर्णे रेणुकायै नमोऽस्तु ते ॥
चतुरष्टकपीठा त्वं माया सा चण्डिका मता ।
बिन्दु-नाद-कला-ज्योतिः शिवशक्तिः सुशाम्भवी ॥
पञ्चबीजसमायुक्ता पञ्चप्रणवसम्भवा ।
उकारविग्रहा शक्तिः समया चञ्चलाम्बिका ॥
कौलान्वयसमुद्भूते कौलिकान्वयपूजिते ।
भारती चैकवीरा त्वं कुलकौलान्तरालिनी ॥
राजराजेश्वरी त्वं च सिंहे चण्डेश्वरी मते ।
स्वच्छन्दा श्रीभवा प्रोक्ता सा शक्तिर्मातृमण्डले ॥
आदि सूत्रक्रमैर्युक्तं मध्यसूत्रं तथैव च ।
संवर्त्तमण्डलान्तस्थे वीरमात्रे नमोऽस्तु ते ॥
कुलावलिमथा वृक्षा अम्बा श्रीनाथपादुका ।
अकृष्टकेतकि त्वं च कुब्जे चण्डि नमोऽस्तु ते ॥
दूती बटुककौमार्या भैरवी क्षेत्रपालका ।
सिद्धसङ्घट्टयोगिन्यां क्रीडते मातृमण्डले ॥
योगिनी पीठमध्यस्थं महापीठं सशाम्भवम् ।
एकवीराक्षरं ब्रह्म सूरसिद्धालयं परम् ॥
हंसपर्यङ्कमारूढं त्रिकोणं बीजपूरकम् ।
एकवीरामिदं बीजं वाग्भवं परमेश्वरम् ॥
त्रिबीजं बाणसंयुक्तं त्रिशट्कोष्ठदले स्थितम् ।
तन्मध्ये शाम्भवी बीजमेकवीरं चिदात्मकम् ॥
त्रिकोणान्येकबीजञ्च मायाबीजेन वेष्टितम् ।
आनन्द कन्दकल्लोलं हसन्तं मातृमण्डलम् ॥
ब्रह्मा विष्णुर्महादेव इन्द्राद्याश्चैव देवता ।
यद्बीजं मातृपीठस्थं शाम्भवं तं नमाम्यहम् ॥
अकारस्याष्टमं बीजं शिवशक्तिसमन्वितम् ।
तन्मध्ये वस्तुनिष्क्रान्तं एकवीरं सशाम्भवम् ॥
हृदिमध्ये स्थितं पद्मं हृदि पद्मं सकर्णकम् ।
तन्मध्ये वस्तुनिष्क्रान्तमेकवीरं सशम्भवम् ॥
सर्वनारीशुभत्वञ्च कूटस्थं बीजमव्ययम् ।
हकरार्धकुलधरमेकवीरे नमोऽस्तु ते ॥
नित्यक्लिन्ने मदद्रावे प्राणजीवात्मसञ्ज्ञके ।
हृल्लेख़े सच्चिदानन्दे विश्वेश्वरि नमोऽस्तु ते ॥
कुलपङ्कजमार्तण्डे हंसाक्षे प्राणधारिणी ।
चैतन्यविग्रहे नित्ये रेणुकायै नमोऽस्तु ते ॥
कदम्बगोलकाकारे ब्रह्मरन्ध्रविलम्बिनी ।
सूक्ष्मसूक्ष्मान्तरे नित्ये रेणुकायै नमोऽस्तु ते ॥
केन्दुः स्रवलित शक्तिः षट्चक्रक्रमभेदिनी ।
ब्रह्मरन्ध्रे विनिष्क्रान्ते रेणुका व्योममण्डले ॥
लिङ्गत्रयान्ते निष्क्रान्ते शून्ये नादविनिग्रहे ।
निरालम्बे निराभासे रेणुकायै नमोऽस्तु ते ॥
नाभिमूलेषु या शक्तिः कुण्डिल्याः सर्परूपिणी ।
षट्चक्रविन्दुनादान्ते रेणुका व्योममण्डले ॥
इडा पिङ्गलमध्यस्थे ब्रह्ममार्गप्रवाहिनी ।
मृणालतन्तुरूपेण हिमांशु नित्यं चिदाम्बिके ॥
द्वासप्तति-सहस्राणि नाडी वृन्दानि चालयेत् ।
सोम-सूर्याग्निभिन्नेऽसि चिद्रूपे परमामृते ॥
शशिकोटि समाभासे अवसीः ब्रह्ममण्डले ।
अचले सर्वभूतस्थे राममात्रे नमोऽस्तु ते ॥
अन्तःकरणसम्बन्धि नाडीयन्त्रप्रवाहिनी ।
प्रणवात्मक हः सम्यक् हृत्प्रष्ठे प्रतितिष्ठति ॥
आधारे नाभि मध्यस्थे हृत्पद्म-कण्ठ-तालुके ।
प्राणस्यान्तर्गते सूक्ष्मे षोडश चैव रेणुके ॥
स्थानत्रयविनिष्क्रान्ते मात्रात्रयविनिष्ठिते ।
मातृकेत्येकवीरे च व्योमातीते परात्परे ॥
पीठस्थे पीठमध्यस्थे मायातीत-परात्परे ।
हङ्कारार्धकलापूर्णे रेणुकायै नमोऽस्तु ते ॥
त्वया विनैकभेदेन व्यापितं सचराचरम् ।
इच्छा-ज्ञान-क्रिया-शक्ति रेणुकायै नमोऽस्तु ते ॥
गिरिमध्ये तथारण्ये मेरुमध्ये हिमाचले ।
नन्दा कात्यायनी दुर्गे रेणुकायै नमोऽस्तु ते ॥
स्वर्गपातालमर्त्येषु विचरन्ती त्वनेकधा ।
प्रचण्डयोगिनी चण्डे एकवीरे नमोऽस्तु ते ॥
तेजोमण्डलदुर्धर्षे सूर्यकोटि-समप्रभे ।
दुर्निरीक्ष्ये दुराधारे एकवीरे नमोऽस्तु ते ॥
ऐं बीजं व्यापितं येन वज्रेयं सचराचरम् ।
त्रैलोक्यं क्षोभयन्तीं त्वा मायाबीजेन रेणुकाम् ॥
त्वमेव परमं जाप्यं त्वमेव परमं तपः ।
त्वमेव परमं ज्ञानं रेणुकायै नमोऽस्तु ते ॥
त्वं माता त्वं पिता भ्राता त्वं सखा त्वं गुरुप्रभुः ।
त्वमेव जगतां धात्री त्राहि मां भक्तवत्सले ॥
अधर्मः कुरु ते धर्म धनवान् धनमीश्वरि ।
अजातिः कुरु ते जातिस्त्वयाज्ञा परमेश्वरि ॥
अपवित्रं पवित्रेयं कुरुषे त्वं सदाम्बिके ।
त्वमेव परमं तीर्थं त्रैमूर्तिस्त्वं जगन्मये ॥
जातिभ्रष्टा कुलभ्रष्टा व्रतभ्रष्टा च ये नराः ।
एकवीराप्रसादेन शुद्धास्ते नात्र संशयः ॥
द्विजाति म्लेक्ष पर्यन्तं पापं यः कुरुते नरः ।
तत्सर्वं दह्यते क्षिप्रं रेणुकादर्शनेन तु ॥
वर्णावर्णो न तस्यास्ति त्वन्मार्गे ये यथेरितम् ।
तीर्थं भूतासि मातङ्गी रेणुकायै नमोऽस्तु ते ॥
विरजे रजनीमूर्ते निर्धूते धूतकल्मषे ।
त्रैलोक्य पावनि पुण्ये एकवीरे नमोऽस्तु ते ॥
समनो घ्राणाङ्घ्रि पाणिश्च दद्रुस्फोटकमेव च ।
दारिद्र्य-दुःख-रोगघ्नीं तां वन्दे रेणुकामहम् ॥
कल्पद्रुम-समाख्याता चिन्तामणि-विभूषिता ।
रेजनाः किं पश्यन्ति रेणुकां कामधेनुकाम् ॥
धर्मार्थकाममोक्षाणां पुरुषाणां चतुर्विधाम् ।
एकवीराप्रसादेन सिध्यन्ते नात्र संशयः ॥
सर्वं तीर्थाभिषेकं तु सर्वयज्ञफलं लभेत ।
आषाढे चैव कार्तिक्यां रेणुकादर्शनेन तु ॥
पृथिव्यां यानि तीर्थानि समुद्रा सरितानि च ।
एकवीरा परं नास्ति सद्यः प्रत्ययकारकम् ॥
कार्तिक्यां कृत्तिकायोगे यः पश्यन्तीह रेणुकाम् ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
श्रीसिंहामलकं देव देवदेवेन सेवितम् ।
मुक्तिगता समासाद्य द्विसप्ततिचतुर्मुखाः ॥
देवदेवो तथा रुद्रः सम्भेदो भास्करालयम् ।
तोयं मेरुस्तडागस्य सद्यः पापहराणि षट् ॥
कुरुक्षेत्रे सकृत्तीर्थे राहुग्रस्ते दिवाकरे ।
प्रयागं च सदातीर्थं गया गङ्गा च रेणुका ॥
आधारभूतनिलयो ललनारूपधारिणी ।
क्षुधा तृषा च दुःखघ्नीं तां वन्दे रेणुकामहम् ॥
ये पश्चिमास्तु ये सिद्धा पूर्वायै ये च संस्थिताः ।
एकवीरा परं बीजं शाश्वतं पदमव्ययम् ॥
मायाबीजेन या प्रोक्ता हङ्कारार्द्धकलास्मृता ।
सा योनिः सर्वमन्त्राणां सा शक्तिः रेणुका स्मृता ॥
किं तस्य बहुभिर्मन्त्रैर्वेदसिद्धान्तविस्तरैः ॥
एकवीरामहामन्त्रं सर्व-काम-फलप्रदम् ॥
मूलमन्त्रमिदं प्रोक्तं हंसभेदेन संस्थितम् ।
स साक्षाद् भैरवे प्रोक्तमेकवीरं परात्परम् ॥
शिवशक्तिमिदं बीजं रेणुकामिदमव्ययम् ।
सर्वमङ्गलमाङ्गल्ये पवित्रं पापनाशनम् ॥
य इदं पठते नित्यं त्रिसन्ध्यं श्रद्धयान्वितम् ।
आयुरारोग्यमैश्वर्यं पदं निर्वाणमाप्नुयात् ॥
अचलां श्रियामाप्नोति पुत्रदारादि सम्पदाम् ।
भुञ्जते विपुलान्भोगान् त्रैलोक्यं मोहयेद्ध्रुवम् ॥
एकवीरा इदं बीजं त्रैलोक्ये यः पठेन्नरः ।
ऐश्वर्यं लभते राज्यं वागैश्वर्यं च जायते ॥
दुर्वृत्तानामशेषेण तथा दुःस्वप्नदर्शने ।
रक्षोभूत-पिशाचेभ्यो ग्रहपीडां व्यपोहति ॥
रेणुकापरमं स्तोत्रं ये जपन्ति च मानवाः ।
प्राप्नुयात्परमां सिद्धिमणिमादि गुणाष्टधाम् ॥
मातापुरस्थिता देवी मातृपीठोद्भवा शिवा ।
महादेवेन संस्तुत्य भुक्ति-मुक्ति-फलप्रदाम् ॥
रेणुकाया इदं स्तोत्रं पठिष्यति दिने दिने ।
स गच्छेत् परमं स्थानं यत्र देवो महेश्वरः ॥
इति श्रीकौलार्णवे श्रीभैरवप्रोक्तं रेणुकास्तवराजस्तोत्रं सम्पूर्णम् ।
॥ श्री रेणुकार्पणमस्तु ॥
Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com