श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्

श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्

॥ पूर्वपीठिका॥ श्रीपार्वत्युवाच । देवदेव ! महादेव ! दयालो ! दीनवत्सल ! । केन सिद्धिं ददात्याशु चण्डी त्रैलोक्यदुर्लभा ॥ १॥ श्रीमहादेव उवाच । रुद्रेणाराधिता चण्डी महासिद्धिर्भवेत् तदा । रुद्ररूपा रुद्रभावा रुद्रभूषा सदा स्थिता ॥ २॥ रुद्रध्येया रुद्रगेहा रुद्राणी रुद्रवल्लभा । सर्वदा वरदा देवी ब्रह्मज्ञानप्रदायिनी ॥ ३॥ सर्वपापहरा देवी सर्वरोगक्षयङ्करी । सर्वारिष्टगतैर्दात्री सर्वग्रहनिवारिणी ॥ ४॥ शिवं देहि शुभं देहि सुखं देहि सदा प्रिये ! । तुष्टिं पुष्टिं जयारोग्यं मङ्गलानां च मङ्गलम् ॥ ५॥ अकालमरणं वापि काले मृत्युर्यदा भवेत् । चण्डीस्मरणमात्रेण मृत्योर्मृत्युकरं परम् ॥ ६॥ ज्ञात्वा देवगणाः सर्वे चण्ड्यभूद् रुद्रगेहिनी । रुद्रचण्डी तदा ख्याता त्रैलोक्ये परमेश्वरी ॥ ७॥ रुद्रोऽभवन्महारुद्रश्चण्डीपाठप्रसादतः । तदा शापः प्रदातव्यः स्वीयसिद्धिर्यदा शिवे ! ॥ ८॥ कृष्णेनाराधिता चण्डी कृष्णचण्डी न सिद्धिदा । कृष्णनामधरा देवी सर्वतन्त्रेषु गोपिता ॥ ९॥ कृष्णचण्डी महादेवी प्राणान्ते न प्रकाशिता । ज्ञात्वा चण्डीं जगत् सर्वं कृष्णशापोऽभवत् तदा ॥ १०॥ तदन्ते चण्डिकां ज्ञात्वा कृष्णशापोऽभवन्मुदा । स्वीयभावे तदा देवी अभिशापं करोति हि । तेन ते स्वीयपापेन न सिद्‍ध्यन्ति कदाचन ॥ ११॥ श्रीपार्वत्युवाच । देवदेव दीननाथ दीनबन्धो ! दयानिधे ! । इदानीं वद मे नाथ ! चण्डीसिद्धिकरं परम् ॥ १२॥ विना ध्यानं विना पूजां विना जपपरायणम् । विना होमं विना मन्त्रं विना साधनसंज्ञकम् ॥ १३॥ अनायासेन सिद्‍ध्यन्ति केनोपायेन तद् वद ॥ श्रीमहादेव उवाच । श‍ृणु पार्वति सुभगे ! चण्डीसिद्धिकरं परम् । रुद्रध्येया रुद्रचण्डी प्रसन्ना सर्वदा सती ॥ १४॥ तस्याहं कवचं देवि ! कथयामि शुचिस्मिते ! । त्रैलोक्ये सर्वदेवानां साधनेनैव यत् फलम् ॥ १५॥ तत् फलं लभते सद्यः कवचाध्यायमात्रतः । शतमष्टौ पठेद् यस्तु सर्वसिद्धीश्वरो भवेत् ॥ १६॥ शतावृत्तिं पठेद् यो हि सप्तद्वीपेश्वरो भवेत् । पञ्चाशत् पाठमात्रेण पञ्चाशद्वर्णसिद्धये ॥ १७॥ अष्टाविंशतिपाठेन अष्टसिद्धिः करे स्थिता । एकादश पठेद् यस्तु रुद्रस्तस्य प्रसन्नधीः ॥ १८॥ दशविद्याः प्रसिद्धयन्ति यः पठेद् दशधा शिवे ! । नवावृत्तिं पठेद् यो हि ग्रहदेवप्रसन्नधीः ॥ १९॥ अष्टावृत्तिं पठेद् यस्तु अष्टपाशैर्विमुच्यते । सप्तधा पाठमात्रेण चिरायुर्भवेत् ध्रुवम् ॥ २०॥ पठेत् षष्ठं कर्मभेदे षट्कर्मसिद्धये ध्रुवम् । पञ्चमं प्रपठेद् यस्तु पञ्चात्मा च प्रसन्नधीः ॥ २१॥ चतुर्थं प्रपठेद् यस्तु चतुर्वेदविदां वरः । त्रिधा पाठे महेशानि ! सर्वशान्तिर्भविष्यति ॥ २२॥ पाठ द्वयं कृतं यद्धि सर्वकाम्यं प्रसाधयेत् । एकधा पाठमात्रेण चण्डीसिद्धिर्भविष्यति ॥ २३॥ अतः परमहं वक्ष्ये कवचं च परात्परम् । रक्षाकरं महामन्त्रं त्रैलोक्यमङ्गलाभिधम् ॥ २४॥ प्रणवो वाग्भवो माया ततः सद्यः सनातनी । स्थिरा माया ततः कामो लज्जायुग्मं ततः परम् ॥ २५॥ एष नवाक्षरो मन्त्रः सर्वाशापरिपूरकः । अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं ततः परम् ॥ २६॥ बहु किं कथ्यते देवि ! त्रैलोक्यस्तम्भनं भवेत् । कर्षयेदखिलं देवि ! शोषयेदखिलं जगत् ॥ २७॥ मोहयेदखिलान् लोकान् मारयेत् सकलं जगत् । वशयेत् सर्वदेवादीन् ऋतुभेदे महेश्वरि ! ॥ २८॥ सर्वरक्षाकरो मन्त्रः साक्षाद् ब्रह्म न संशयः । (नवाक्षर मन्त्रः ॐ ऐं ह्रीं ॐ क्रीं ह्लीं क्लीं ह्रीं ह्रीं) ॥ कवचस्तोत्र ॥ शिखायां प्रणवः पातु शिरसि वाग्भवः प्रिये ! । भ्रूमध्ये रक्षते माया हृदयं कालिकाऽवतु ॥ १॥ नाभिं पातु स्थिरा माया तदधः काम रक्षतु । लिङ्गमूलं पातु लज्जा यजुर्गुह्ये सदाऽवतु ॥ २॥ कटिं पृष्ठं कूर्परं च स्कन्धं कर्णद्वयं तथा । प्रणवो रक्षते देवि ! मातृभावेन सर्वदा ॥ ३॥ कण्ठं गलं च चिबुकं ओष्ठद्वयं ततः परम् । दन्तं जिह्वां तथा रन्ध्रं तदन्ते मुखमण्डलम् ॥ ४॥ वाग्भवो रक्षते देवि ! पितृभावेन सर्वदा । नासिकां हनुयुग्मं च चक्षुषी भ्रूयुगं तथा ॥ ५॥ ललाटं च कपालं च चन्द्रसूर्याऽग्निमण्डलम् । सर्वदा रक्षते माया शक्तिरूपे महेश्वरि ! ॥ ६॥ बाहुद्वयं ततः सर्वं पञ्जरं हृदिमण्डलम् । रक्षते कालिकावीजं कन्यारूपेण सर्वदा ॥ ७॥ उदरं मूलदेशं च चण्डिके ! त्वं सदाऽवतु । रक्तं मांसं तथा मज्जा शुक्राणि मेद एव च ॥ ८॥ रक्षेल्लज्जा शक्तिरूपे सगुणा परमा कला । नखकेशानि सर्वाणि यजुः पातु सदा प्रिये ! ॥ ९॥ सर्वाङ्गं रक्षते चण्डी सर्वमन्त्रं सकीलकम् । आत्मा परात्मा जीवात्मा चण्डिका पातु सर्वदा ॥ १०॥ साधने चण्डिका पातु सज्ज्ञानं चण्डिकाऽवतु । सत्सङ्गं चण्डिका पातु सद्योगं चण्डिकाऽवतु ॥ ११॥ सत्कथां चण्डिका रक्षेत् सच्चिन्तां चण्डिकाऽवतु । पूर्वस्यां चण्डिका पातु आग्नेय्यां चण्डिकाऽवतु ॥ १२॥ दक्षिणस्यां तथा चण्डी सर्वदा परिरक्षतु । नैरृत्यां चण्डिका रक्षेत् पश्चिमे चण्डिकाऽवतु ॥ १३॥ वायव्यां चण्डिका पातु उत्तरे चण्डिकाऽवतु । ऐशान्यां चण्डिका पातु ऊर्ध्वाधश्चण्डिका तथा ॥ १४॥ चण्डिका रक्षते कन्यां सुतं स्त्रीं चण्डिकाऽवतु । भ्रातरं भगिनीं सर्वं चण्डिका रक्षते सदा ॥ १५॥ बन्धुवर्गकुटुम्बानि दासीदासं ततः परम् । रक्षते चण्डिका देवी मातृभावान्महेश्वरी ॥ १६॥ गजवाजिगवान् सर्वान् जन्तूनां सर्वपर्वसु । रक्षते चण्डिका देवी स्वीयभावेन शाम्भवी ॥ १७॥ वास्तुवृक्षादिकं सर्वं चण्डिका रक्षते सदा । सैन्यं स्वसैन्यवर्गाणां चण्डिका परिरक्षतु ॥ १८॥ श्मशाने प्रान्तरेऽरण्ये चण्डिका पातु सर्वदा । राजद्वारे रणे घोरे पर्वते वा जले स्थले ॥ १९॥ अग्निवज्रादिदुर्योगे विवादे शत्रुसङ्कटे । चण्डिका पातु सर्वत्र यथा धेनुः सुतं प्रति ॥ २०॥ इति ते कथितं कान्ते ! त्रैलोक्यमङ्गलाभिधम् । त्रैलोक्यमङ्गलं नाम कवचं परिकथ्यते ॥ २१॥ ॥ फलश्रुति ॥ इदं कवचमज्ञात्वा रुद्रचण्डीं पठेद् यदि । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ २२॥ इदं कवचमज्ञात्वा चण्डीपाठं करोति यः । विपरीतं भवेत् सर्वं विघ्नस्तस्य पदे पदे ॥ २३॥ तदनन्तं भवेत् सर्वं कवचाध्यायमात्रतः । धारणे कवचं देवी फलसङ्ख्याप्रपूरकम् ॥ २४॥ तत्रैव कवचं देवि ! सर्वाशापरिपूरकम् । पञ्चवक्त्रेण कथितं किं मया कथ्यतेऽधुना ॥ २५॥ भूर्जे गन्धाष्टकेनैव लिखेत् तु कवचं शुभम् । समन्त्रं कवचं देवि ! स्वमन्त्रपुटितं ततः ॥ २६॥ गोत्रं नाम ततः कामं पुनर्मन्त्रं लिखेत् प्रिये ! । अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ २७॥ प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठां कुरुते ततः । पूजयेद् विधियुक्तेन पञ्चाङ्गं तदनन्तरम् ॥ २८॥ एवं ते धारयेद् यस्तु स रुद्रो नात्र संशयः । कण्ठे वा दक्षिणे बाहौ हृन्नाभिकटिदेशतः ॥ २९॥ योषिद् वामभुजे धृत्वा साक्षात् काली न संशयः । धनं पुत्रं जयारोग्यं यद् यन्मनसि कामदम् ॥ ३०॥ तत्तत् प्राप्नोति देवेशि ! निश्चितं मम भाषितम् । न सन्देहो न सन्देहो न सन्देहः कदाचन ॥ ३१॥ देयं शिष्टाय शान्ताय गुरुभक्तिरताय च । शक्तिध्येयाः शक्तरताः शक्तिप्राणाः सदाशयाः ॥ ३२॥ एवं तल्लक्षणैर्युक्तं कवचं दीयते क्वचित् । नित्यं पूजा प्रकर्तव्या कवचं परमं शिवे ! ॥ ३३॥ अशक्तौ परमेशानि ! पुष्पधूपं प्रदापयेत् । तस्य देहे तस्य गेहे चण्डिका त्वचला भवेत् ॥ ३४॥ खले दुष्टे शठे मूर्खे दाम्भिके निन्दके तथा । शक्तिनिन्दां शक्तिहिंसां यः करोति सः पामरः ॥ ३५॥ एतेषां परमेशानि ! सुकृतिर्न कदाचन । न दद्यात् कवचं देवि ! यदीच्छेदात्मनो हितम् ॥ ३६॥ दत्ते च सिद्धिहानिः स्याद् दत्ते च शिवहा भवेत् ॥ ३७॥ ॥ श्रीरुद्रयामलतन्त्रे श्रीपार्वतीरहस्ये त्रैलोक्यमङ्गलं नाम रुद्रचण्डीकवचं सम्पूर्णं शुभं भूयात् ॥ Proofread by Lalitha Parameswari parameswari.lalitha at gmail.com, NA
% Text title            : rudrachaNDItrailokyamaMgalakavacham
% File name             : rudrachaNDItrailokyamaMgalakavacham.itx
% itxtitle              : rudrachaNDItrailokyamaMgalakavacham (rudrayAmalatantrAntargatam)
% engtitle              : rudrachaNDItrailokyamaMgalakavacham
% Category              : devii, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : lalitha parameswari parameswari.lalitha at gmail.com
% Proofread by          : lalitha parameswari, NA
% Description/comments  : Rudrayamala tantra
% Latest update         : May 16, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org