सारस्वतगीतिस्तोत्रम्

सारस्वतगीतिस्तोत्रम्

भारतनन्दनवन्दननन्दिता विहरति भारती नववनभवने । चरणकमलदलपरिमलमधुरितमधुकररवमुखरितमधुपवने ॥ जनमनोरञ्जनगुञ्जनगञ्जनवीणानादनजितसुरवनसदने । पिककुलकलकलकलयितकिसलयचलितचमरवृतसरसिजवदने ॥ हंसविडम्बितहंसकशिञ्जनधूनितपुञ्जितसितवनकमले । शशधररुचिहरमुखरुचिधवलितधवलरदनरुचिशुचिकरविमले ॥ भूषितसिततन्वङ्गाः श्वेतसरोजमण्डिते । भारत्या भारतारण्ये भारती भान्ति भारतिः ॥ १॥ प्रलयाम्बुनिधौ पुरा ममौ न विरिञ्चिमुखाम्बुजोद्गता । तनुनादमयी च यत्तनुर्ननु साद्य वनेऽपि शोभते ॥ २॥ श्वेतहंसकमलासना सिता श्वेतवर्णपरिधानमण्डना । व्यज्यते मधुरवल्लकीरवै रक्तपादकमलाभया परम् ॥ ३॥ तरुनिषण्णाप्रसवपिकारुतं मधुसमीरसमीरणचञ्चलम् । शिशिरसान्द्रप्रतन्द्रिप्रबोधितं विरचितं स्वदृशेव तया वनम् ॥ ४॥ क्वणद्विपञ्चीमलिमञ्जुगुञ्जनैर्मरालनादैः पदनूपुरध्वनिम् । विमिश्रयन्ती पवनावधूननच्छलेन वाणी मधुरं प्रनृत्यति ॥ ५॥ चलकिसलयलीनाः कोकिला वीतरागा विषयिणा इव भृङ्गा माधवीगन्धमुग्धाः । ललितमलयवाताः प्रेमिका लोकपाला वनभवनमुपेता भारतीवन्दनार्थम् ॥ ६॥ पुण्यं तत् काननं धन्यं वरेण्यं मङ्गलावहम् । सखीवल्लपतो लक्ष्मीभारत्यौ यत्र संस्थिते ॥ ७॥ का त्वं वाणी मृगय वदनं श्वेतपद्मासनाहं नीराधारं व्रज वद रमे ! नाम ते चञ्चलाहम् । यत्रासि त्वं न च मम गतिः पश्य लोले ! निकुञ्जं भाषाकान्तिस्फुरितविभवं पान्तु वाण्यो जनन्योः ॥ ८॥ वेदा यस्याः किरीटः कमलनयनयो रञ्जनं दर्शनानि स्वाङ्गे पुण्यं सुशुभ्रं सुरुचिरवसनं नूपुरं नृत्यगीतम् । काव्यं हारश्च कण्ठे रुचिरभुजयुगे कंङ्कणं ब्रह्मचर्यं योद्भासा ब्रह्मविद्या कटितटरशना भूषणैः किन्नु तस्याः ॥ ९॥ ध्येया नित्यं हरिहरविधिध्यातमूर्तिः प्रसन्ना ज्ञेया नित्यं सफलविबुधज्ञानदात्री च धात्री । गेयं नाम प्रणवमधुरं सर्वक्तिस्वरूपं पेयं तस्याः पदकमलयोः स्यन्दनं माकरन्दम् ॥ १०॥ हृत्कुञ्जे चेन्न वसति जननी मञ्जुकुञ्जासनैः किं भक्तिश्चेन्न प्रसरति परमा चन्दनैर्नन्दनैः किम् । नीरं चेन्नो गलति नयनयोः पुण्यगङ्गोदकैः किं प्रत्यङ्गं चेन्न लसति पुलकैः ध्यानमन्त्रादिभिः किम् ॥ ११॥ कारुण्यैकनिधिः विधिप्रतिनिधिः ज्ञानाम्बुधिः पुण्यधी- र्नीतिच्छन्नविधिः समाधिमधुरस्तीव्राधिसम्बाधनः । यस्या नेत्रमणिप्रभाकनकितो नूनं भवेद् बालिश श्चित्तानन्दलसन्मरालरमणां वन्दे जगद्वन्दिताम् ॥ १२॥ अज्ञानध्वान्तराशिं स्फुरदमलवपूरोचिषा नाशयन्तीं वीणागानैः नराणां युगशतविततां नोदयन्तीं प्रसुप्तिम् । भक्तालीन श्रीपदान्ते सरसिजरजसा लासयन्तीं सलीलं वन्देऽनिन्द्यां प्रफुल्लां त्रिभुवनजननीं भारतीमिष्टदेवीम् ॥ १३॥ मातः ! न जाने विधानं न मन्त्रं न योगं न याचे विदग्धादृतं पादपद्मम् । त्वदुत्सङ्गलीनस्त्वहो नामगीतैः कदा दीर्घकालं सदा यापयामि ॥ १४॥ इति सारस्वतगीतिस्तोत्रं सम्पूर्णम् । Encoded and proofread by Vani V.
% Text title            : Sarasvata Giti Stotram
% File name             : sArasvatagItistotram.itx
% itxtitle              : sArasvatagItistotram
% engtitle              : sArasvatagItistotram
% Category              : devii, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : Sanskrit Bharati Jan-Mar 1920 Vol 3, No 1 p 4 (16)
% Indexextra            : (Scan)
% Latest update         : March 18, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org