श्रीसरस्वतीदशश्लोकीस्तोत्रम्
ऋषय ऊचुः-
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भवति तद्वद ॥ १॥
आश्वलायन उवाच-
शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।
दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २॥
अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।
मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३॥
सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।
सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४॥
जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।
त्रिलोचनीं महादेवीं स्वर्णनूपुरधारिणीम् ॥ ५॥
कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।
कम्बुकण्ठीं सुताम्रोष्टीं सर्वाभरणभूषिताम् ॥ ६॥
केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।
शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७॥
वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।
लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८॥
परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।
प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९॥
या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १०॥
या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२॥
अध्यात्ममधिदेवं च देवानां सम्यगीश्वरी ।
प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४॥
या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६॥
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७॥
यां विदित्वाखिलं बन्धं निर्मथ्यामलवर्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८॥
नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।
ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ? ॥ १९॥
यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।
सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ २०॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२॥
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३॥
प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।
अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४॥
अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।
अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५॥
एवं भावयता तेन बृहस्पतिरपि स्वयम् ।
न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६॥
न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान ।
अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७॥
सर्वत्रैव प्रियं ब्रूयात् (यथेच्छालब्ध) मात्मनः ।
श्लोकैरेव तिरस्कृत्य द्विषन्द प्रतिवादिनम् ॥ २८॥
प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।
यद्वागितिदव्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ २९॥
तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ।
प्रथमं भारती नाम द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३०॥
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।
सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१॥
नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।
एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३॥
यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।
सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४॥
इत्याश्वलायनमुनिर्निजगाद देव्याः
स्तोत्रं समस्तफलभोगनिधानभूतम् ।
एतत् पठन् द्विजवरः शुचितामुपैति
सन्ध्यासु वाञ्छितमुपैतिन संशयोऽत्र ॥ ३५॥
इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan