सरस्वतीस्तुतिः २
ओङ्कार आरिप्सितकार्यसिद्धेर्बुद्धेः प्रचाराय परः प्रकारः ।
निर्धूततत्तद्विषयप्रमादः श्रीशारदाया जयति प्रसादः ॥ १॥
ह्रीतेव यां वीक्ष्य मुखे मुरारेरुरःस्थिता श्रीर्भ्रमते जगत्सु ।
सरस्वती सा स्वत एव तुष्ट्या विचारहेतोश्चिरमाविरास्ताम् ॥ २॥
ऐश्वर्यबीजं परमेश्वरस्य विश्वैककर्तुस्तमसां विघाति ।
वाग्दैवतं वाङ्मनसातिगं तत् परं महो मे स्फुरतां पुरस्तात् ॥ ३॥
ह्रीते इवाऽस्तां विभवेन यस्या इच्छाक्रिये नित्यमनुप्रवृत्ते ।
तत्तत्स्वरूपप्रतिपत्तिहेतुः सा ज्ञानशक्तिर्मयि सन्निधत्ताम् ॥ ४॥
ओङ्कार एवाभित आत्तशक्तिर्यद्बीजमन्तर्धृतिवद्विभाति ।
उद्भिद्य चित्ते स्वरसेन सिक्ता सा वाग्लता मे फलतादऽभीष्टम् ॥ ५॥
सर्वः प्रपञ्चस्त्रिजगद्विधातुर्विना यदाभासमऽसन्निवाऽस्ते ।
सारस्वतं तत्परमं महो मे हृद्व्योमगं सन्तमसं हिनस्तु ॥ ६॥
रक्षातिरूक्षा भ्रमराक्षसेभ्यः शिक्षाधिगन्तुं परमार्थतत्त्वम् ।
भिक्षापरानन्दमयीह साक्षात्सा ख्यातिमायातु सरस्वती मे ॥ ७॥
स्वच्छीकृते यच्चरणाब्जरेणुविमर्शनैर्हृन्मुकुरे विभाति ।
सत्सम्मुखीनं खलु सर्वतत्त्वं सरस्वती शाश्वतमाविरास्ताम् ॥ ८॥
तैस्तैरनेकैः कविता सखेलमऽनेलमूकैरपि यत्प्रपद्ये ।
तद्वैभवं यत्सुरसस्य सैषा वाग्देवता दर्शयताद्विमर्शान् ॥ ९॥
नश्यन्ति यद्ध्यानवशादविद्या विद्याऽनवद्या प्रतिभाति सद्यः ।
उद्द्योतयन्ती हृदयं मदीयं सरस्वती शाश्वतमाविरास्ताम् ॥ १०॥
(१)मस्तूपमा वस्तुस्वधा किमस्तु सचेतसां चर्वितयद्रसानाम् ।
सरस्वती सा स्वरसार्पणेन स्वतश्चिरं तर्पयतां गिरं मे ॥ ११॥
ओङ्कारयुग्मं वृतिवद्बहिस्तद्यस्या हि मायाद्वितयं तथान्तः ।
वाग्देवता सा फलतादभीष्टं संसेविता कल्पलता बुधानाम् ॥ १२॥
सन्मानसाब्जस्थितिरऽक्षमालाविद्यासुधाकुम्भविपञ्चिपाणिः ।
चन्द्रावतंसाऽवतु हंसयाना मूर्ताप्यमूर्ता च सरस्वती नः ॥ १३॥
वाच्यानि साक्षादिह वाचकेषु सङ्केतयन्तीमभिधानवृत्तिम् ।
बिभर्ति या पुस्तकसत्स्वरूपां पुनातु सा वाङ्मयदेवताऽस्मान् ॥ १४॥
प्रयोजनाद्रूढिवशाच्च लोके द्विस्तत्त्वताराः परिवर्तयन्ती ।
या लक्षणां धारयतेऽक्षमालामिपाद(२)हं नौमि सरस्वतीं ताम् ॥ १५॥
पदैरसङ्केतमऽलक्ष्यमेवं संव्यञ्जयन्तीं किमपि स्वरेण ।
Footnote
१ मण्डं दधिभवं मस्त्वित्यमरः ।
२ दऽसौ पातु सरस्वती नः इत्यपि पाठः ।
या व्यञ्जनामेव विपञ्चिरूपां बिभर्ति तां नौमि गिरामधीशीम् ॥ १६॥
शतैः श्रुतीनां पथिभिर्ध्वनन्तीं गीतार्थसारोपनिषद्रहस्यम् ।
अध्यात्मविद्यामिव वादयन्तीं वीणां भवेन्मे शरणाय वाणी ॥ १७॥
या सच्चिदानन्दरसैकसारं करे सुधाकुम्भनिभाद्वहन्ती ।
विश्वेश्वरं सिञ्चति सप्रपञ्चं सरस्वती साऽञ्चतु मे हृदब्जम् ॥ १८॥
हंसः सदाऽनाहतनादरूपादुद्गत्वरो यां वहति स्वपक्षैः ।
वाग्वादिनी सा निजपादपद्मधूलीभरैर्भूषयतां मनो मे ॥ १९॥
ब्रह्मोदयस्थानमनादिसिद्धं पद्मं लसत्केसरसौरभाढ्यम् ।
यस्या निवासोस्ति सरस्वती सा स्वतः स्रुतैः सिञ्चतु चिद्रसैर्माम् ॥ २०॥
मेधादयो यत्परिवारभूता ब्रह्मादिसेव्या निजकार्यसिद्ध्यै ।
विश्वेश्वरी सा स्वरसप्रवाहैः सरस्वती सिञ्चतु हृत्सरोजम् ॥ २१॥
सञ्जीवनार्थं जगतां सुधांशुकलां किरीटे कलया बिभर्ति ।
हृतान्धकारा करुणाकटाक्षैः प्रत्यक्षलक्ष्याऽस्तु सरस्वती सा ॥ २२॥
इति श्रीमदाराध्यतमराजानकाऽऽनन्दकृतं सरस्वतीस्तोत्रम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com