सरस्वत्यष्टकम्

सरस्वत्यष्टकम्

- - - - - - - वदना सौवर्णपद्मासनी यैषा रक्तकुशेशयाभचरणा सौवर्णदेहोज्ज्वला । यस्या वक्षसि कुम्भिकुम्भसदृशौ पीनावुभौ हि स्तनौ वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ १॥ या देवी सुरनाथवन्द्यचरणा सौन्दर्यभाग्याधिका ब्राह्मे वक्षसि सर्वदा स्थितवती श्वेताम्बरं बिभ्रती । गायन्ती पिकनादजित्कलरवं कौतूहलाद् देवता वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ २॥ या देवी परमार्थदा मुनिमनोध्यानैकरूपास्पदा या बिम्बाधरशोभमानवदना या मीननेत्रा परा । या भृङ्गालिसमालका सुतिलकैर्या शोभमानालिका वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ३॥ यस्याः कण्ठसमानरूपभरणे शङ्खोऽपि नैवार्हति यस्याः स्मेरसमानकान्तिसदृशा नैवाभवञ्चन्द्रिका । यस्या बिम्बफलं न साम्यमुदभूद् रक्तोष्ठकान्त्यार्हिकीं (?) वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ४॥ वासः श्वेततरं विभाति तिलकं फाले शरीरेऽपि च नासाग्रे कनकाक्तमौक्तिकवरं कण्ठे शुभा मालिका । यस्याश्चित्रतरं विभाति भुजयोः केयूरयुग्मं ज्वलद् वाणी मे वद ने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ५॥ पादौ पद्मजितौ फणीन्द्रसदृशौ बाहू शरीरं लता यस्याः शोभितकुम्भिकुम्भसदृशौ पृष्ठावुभावंसतः । यस्याः पादाङ्गुल्यः प्रविरलतराः कीरवक्त्रप्रकाशा (?) वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ६॥ या देवी सकलप्रजासु नियतं वाग्रूपधारी स्थिता या देवैरपि वन्द्यमानचरणा स्वाहास्वधारूपधृक् । यस्याः किं च कटाक्षपातनकृतौ सर्वे जनाः श्रीयुता वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ७॥ यां देवीं मुनयो वदन्ति परमं तद् ब्रह्मरूपं शिवं विद्वांसोऽपि सरस्वतीमिति च यां भक्ताश्च गौरीमिति । राजानो बहुद्रव्ययुक्तमनुजा वक्ष्यन्ति यां सिन्धुजां वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ८॥ इदमष्टकमादरेण यः पठेल्लभते वाञ्छितमर्थमुत्तमम् । स भजते कवितामधिकं यशः प्रभवते सकलप्रजाधिकः ॥ ९॥ कविना रामचन्द्रेण रचितं चेदमष्टकम् । मूलाण्डवासिना देव्या भारत्याः स्तवमुत्तमम् ॥ १०॥ अस्मिन् स्तवे सरस्वत्याः श्लोकैरष्टभिरादृते । अबद्धा ये च ते गोप्याः सरस्वत्या कवीश्वरैः ॥ ११॥ इति रामचन्द्रकविकृतं श्रीसरस्वत्यष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (९७) Proofread by Rajesh Thyagarajan
% Text title            : Sarasvati Ashtakam 3
% File name             : sarasvatyaShTakam3.itx
% itxtitle              : sarasvatyaShTakam 3 (rAmachandrakavikRitaM vadanA sauvarNapadmAsanI)
% engtitle              : sarasvatyaShTakam 3
% Category              : devii, aShTaka, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : rAmachandrakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org