श्रीसौभाग्यकवचस्तोत्रम्

श्रीसौभाग्यकवचस्तोत्रम्

॥ पूर्वपीठिका ॥ कैलासशिखरे रम्ये सुखासीनं सुरार्चितं गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः । प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥ श्रीशिवोवाच - श‍ृणु देवि! प्रवक्ष्यामि यस्मात् त्वं परिपृच्छसि यस्य श्रवणमात्रेण भवभीतिर्न जायते । एतत् सौभाग्यकवच रहस्यातिरहस्यकं सौभाग्यकवचं देवि! श‍ृणु सौभाग्यदायकम् ॥ विनियोगः - अस्य श्रीसौभाग्यकवचस्तोत्रस्य श्रीआनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ॐ क्लीं सौः बीजम् । ह्रीं क्लीं शक्तिः । आं ह्रीं क्रों कीलकम् । सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः - शिरसि श्रीआनन्दभैरवाय ऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीसौभाग्यसुन्दरीदेवतायै नमः । गुह्ये ॐ क्लीं सौः बीजाय नमः । पादयोः ह्रीं क्लीं शक्तये नमः । नाभौ आं ह्रीं क्रों कीलकाय नमः । सर्वाङ्गे सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगाय नमः । षडङ्गन्यासः - करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट । ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ॥ ध्यानं - ऐहिकपरफलदात्रीमैशानीं मनसि भावये मुद्राम् । ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥ १॥ क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् । क्लृप्तजनेष्टकर्त्रीं कल्पितलोकप्रभां नमामि कलाम् ॥ २॥ सौभाग्यदिव्यकनिधिं सौरभकचवृन्दविचलदलिमालाम् । सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥ ३॥ पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् । यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥ ४॥ हेमाद्रौ हेमपीठस्थितामखिलसुरैरीड्यमानां विराजत् । पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ॥ ५॥ दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्याञ्चितैः स्व । भ्रष्टैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ६॥ कवचस्तोत्रं - शिखाग्रं सततं पातु मम त्रिपुरसुन्दरी । शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥ १॥ नित्यक्लिन्नाऽवताद्दक्षं भेरुण्डा तस्य पश्चिमम् । वह्निवासिन्यवेद् वामं मुखं विद्येश्वरी तथा ॥ २॥ शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् । तद्वामपार्श्वमवतात् तथैव कुलसुन्दरी ॥ ३॥ नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी । वामभ्रुवं तु विजया नयनं सर्वमङ्गला ॥ ४॥ ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी । दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥ ५॥ दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका । दक्षनासापुटं दुर्गा तदन्यं तु भारती ॥ ६॥ नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् । अणिमा दक्षकटिं महिमा च तदन्यकम् ॥ ७॥ दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा । ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥ ८॥ ईशित्वमूर्ध्वदन्तांश्च ह्यधोदन्तान् वशित्वकम् । रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥ ९॥ तालुमूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् । कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥ १०॥ कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः । कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥ ११॥ सर्वसङ्क्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् । तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ॥ १२॥ आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् । भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥ १३॥ वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् । लसत् त्रिखण्डिनीमुद्रा वामभागं प्रपालयेत् ॥ १४॥ श्रीकामाकर्षिणी नित्या रक्षताद् दक्षकूर्परम् । कूर्परं वाममवतात् सा बुद्‍ध्याकर्षिणी तथा ॥ १५॥ अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् । शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकाऽवतु ॥ १६॥ प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् । रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥ १७॥ गन्धाकर्षिणिका वामं चित्ताकर्षिणिकाऽवतु । करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ॥ १८॥ स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् । बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥ १९॥ आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् । शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ॥ २०॥ अनङ्गकुसुमा शक्तिः पातु दक्षिणस्तनोपरि । अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥ २१॥ अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः । रक्षतादनिशं देवी ह्यनङ्गःमदनातुरा ॥ २२॥ अनङ्गरेखा वामं तु वक्षोज तस्य चूचुकम् । अनङ्गवेगिनी क्रोडमनङ्गास्याङ्कुशाऽवतु ॥ २३॥ अनङ्गमालिनी पायाद् वक्षःस्थलमहर्निशम् । सर्वसङ्क्षोभिणी शक्तिर्हृत् सर्वद्राविणी परा ॥ २४॥ कुक्षिं सर्वाकर्षिणी तु पातु पार्श्वं च दक्षिणम् । आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी चिरम् ॥ २५॥ सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी । वशङ्करी वस्तिदेशं सर्वरञ्जिनी मे कटिम् ॥ २६॥ सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् । सर्वार्थसाधिनी शक्तिः नितम्बं रक्षतान्मम ॥ २७॥ दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरिणी । सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥ २८॥ पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु दक्षिण वङ्क्षणम् ॥ २९॥ सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् । सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥ ३०॥ मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥ ३१॥ पायात् तदन्यमुष्कं तु सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥ ३२॥ पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी । सर्वाङ्गसुन्दरी देवी रक्षताद् दक्षसक्थिकम् ॥ ३३॥ वामसक्थितलं पायात् सर्वसौभाग्यदायिनी । अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥ ३४॥ वामाष्ठीवं सर्वशक्तिः देवी पातु युगं मम । सर्वैश्वर्यप्रदा देवी दक्षजानुं सदाऽवतु ॥ ३५॥ सर्वज्ञानमयी देवी जानुमन्यं ममावतात् । अव्याद् देवी दक्षजङ्गां सर्वव्याधिविनाशिनी ॥ ३६॥ तदन्यां पातु देवी सा सर्वाधारस्वरूपिणी । सर्वपापहरा देवी गुल्फं रक्षतु दक्षिणम् ॥ ३७॥ सर्वानन्दमयी देवी वामगुल्फं सदाऽवतु । पार्ष्णि मे दक्षिणं पायात् सर्वरक्षास्वरूपिणी ॥ ३८॥ अव्यात् सदा सदा पार्ष्णि सर्वेप्सितफलप्रदा । दक्षाङ्घ्रिपार्श्वं वशिनी पूर्वं वाग्देवता मम ॥ ३९॥ सर्वं कामेश्वरी चोर्ध्वमधो वाग्देवता मम । मोदिनी प्रपदं पातु विमला दक्षिणेतरे ॥ ४०॥ अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला । तदन्या जयिनी पातु सदा सर्वेश्वरी मम ॥ ४१॥ दक्षवामपादतलं कौलिनी देवता मम । कुर्वन्तु जृम्भणा बाणाः त्रैलोक्याकर्षणं मम ॥ ४२॥ मोहं संहरतादिक्षुकोदण्डं भृङ्गमौविकम् । करोतु सततं पाशी वशीकरणमद्भुतम् ॥ ४३॥ विदध्यादङ्कुशं नित्यं स्तम्भनं शत्रुसङ्कटे । पीठं मे कामरूपाख्यं पातु कामान्तिकं मनः ॥ ४४॥ पूर्णं पूर्णगिरेः पीठं कान्तिं मे जनयेत् सदा । जालन्धरमन्यजालन्धरपीठं मे रक्षतु ॥ ४५॥ सायुज्ये नियतां प्रज्ञां श्रीपीठं श्रीकरं मम । कामेश्वरी त्वात्मतत्त्वं रक्षेद् वज्रेश्वरी तथा ॥ ४६॥ विद्यातत्त्वं शैवतत्त्वं पायाछ्रीभगमालिनी । कामं विद्यान्महाशत्रूनमृतार्णवमानसम् ॥ ४७॥ क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् । लोभं चिदासनं हन्याद् देव्यात्मामृतरूपभाक् ॥ ४८॥ मोहं संहरताच्चक्रं मदं मन्त्रासनं मम । मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा ॥ ४९॥ आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी । मणिपूरं मणिद्योता पायात् त्रिपुरसुन्दरी ॥ ५०॥ अव्यादनाहतं भव्या नित्यं त्रिपुरवासिनी । विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुरमालिनी ॥ ५१॥ इडां मे त्रिपुरसिद्धा त्रिपुरा चापि पिङ्गलाम् । सुषुम्नां पातु मे नित्या पायात् त्रिपुरभैरवी ॥ ५२॥ त्रैलोक्यमोहनं चक्रं रोमकूपांश्च रक्षतु । सर्वाशापूरकं चक्रं सप्तधातूँश्च रक्षतु ॥ ५३॥ सर्वसङ्क्षोभण चक्रं प्राणाद्यं वायुपञ्चकम् । सौभाग्यदायकं चक्रं नागाद्यनिलपञ्चकम् ॥ ५४॥ सर्वार्थसाधकं चक्रं कारणानां चतुष्टयम् । सर्वरक्षाकरं चक्रं रक्षतान्मे गुणत्रयम् ॥ ५५॥ सर्वरोगहरं चक्रं पायात् पुर्यष्टकं मम । सर्वसिद्धिप्रदं चकमव्यान्मे कोशपञ्चकम् ॥ ५६॥ सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु । सौन्दर्यं मन्मथः पायाद् धृतिश्चापि रतिं मम ॥ ५७॥ प्रीतिं मे पातु या प्रीतिः रूपं पातु वसन्तकः । सङ्कल्पं कल्पकोद्यानं महालक्ष्मी श्रियं मम ॥ ५८॥ कान्तिं कपालिनी रक्षेत् मन्दिरं मणिमण्डपः । पुत्रान् शङ्खयनिधिः पायाद् भार्यां पद्मनिधिस्तथा ॥ ५९॥ मार्गे क्षेमङ्करी रक्षेत् मातङ्गी मुकुटं तथा । योगिनी प्रकटाद्यास्ता नवद्वाराणि पान्तु मे ॥ ६०॥ भोजने मामन्नपूर्णा मातङ्गी क्रीडनेऽवतात् । वने रक्षतु मां दुर्गा जाग्रती दुष्टनिग्रहे ॥ ६१॥ त्रिधाऽहङ्कारनैष्ठुर्यदोषत्रयं मलत्रयम् । डाकिन्यो योगिनीमुख्याः संहरन्तु ममानिशम् ॥ ६२॥ इच्छाशक्तिर्गुरोर्भक्तिं पातु मे ज्ञानमात्मनि । ज्ञानशक्तिः क्रियाशक्तिर्वैराग्यविषयेष्वपि ॥ ६३॥ हृत्पद्मकर्णिकामध्ये ह्रीङ्कारी परिरक्षतु । वैखरी श्रवणं पातु मध्यमा मननं पुनः ॥ ६४॥ योगं रक्षतु पश्यन्ती साक्षात् ज्ञानपरा मम । ब्रह्माणी जागृतं पातु शयानं वैष्णवी तथा ॥ ६५॥ सुषुप्तौ चण्डिका पातु तुर्या मे मोहकारिणी । सदा मां भैरवी पातु जगद्भरणपण्डिता ॥ ६६॥ चरणाम्भोरुहानन्दपरामृतरसेरिता । प्लाविनी कुण्डली पूर्णा अन्तरान्तं सदाऽवतात् ॥ ६७॥ अष्टदिक्षु महेन्द्राद्या सायुधाः पान्तु सर्वदा । पायादूर्ध्वा दिशं ब्रह्मा विष्णुश्चक्रायुधोप्यधः ॥ ६८॥ अनावृत्तानि स्थानानि कवचेन तु यानि मे । तानि सर्वाणि रक्षन्तु शिवाद्या गुरवः सदा ॥ ६९॥ फलश्रुतिः । एतत् सौभाग्यकवचं शाङ्करं यस्तु पाठयेत् । त्रिसन्ध्यं यः पठेद् भक्त्या श‍ृणुयाद् वा समाहितः ॥ १॥ तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः । गुटिकापादुकाद्यष्टसिद्धयः सम्भवन्ति च ॥ २॥ वश्यादीन्यष्टकर्माणि योगश्चाष्टाङ्गसंयुतः । ब्रह्माविष्णुगिरीशेन्द्रकन्दर्परतिभिः सह ॥ ३॥ विचरन्ते तदखिलान् सिद्धगन्धर्वसेविताः । तस्य स्मरणमात्रेण ग्रहभूतपिशाचकाः ॥ ४॥ कीटवत् प्रपलायन्ते कष्माण्डा भैरवादयः । तस्याङ्घ्रितोयपतनात् प्रशाम्यति महारुजाः ॥ ५॥ तत्पादकमलासक्तरजोलेशाभिमर्शनात् । वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् । आबालमहिलाभूपाः किमु मायाविमोहिताः ॥ ६॥ ॥ इति वामकेश्वरन्तन्त्रे नित्याषोडशिकार्णवे श्रीसौभाग्यकवचम् ॥ Encoded and proofread by Rama Prakasha ramaprakashak at gmail.com
% Text title            : Saubhagyakavacham
% File name             : saubhAgyakavacham.itx
% itxtitle              : saubhAgyakavacham (vAmakeshvarantantrAntargatam)
% engtitle              : saubhAgyakavacham
% Category              : devii, kavacha, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rama Prakasha ramaprakashak at gmail.com
% Proofread by          : Rama Prakasha ramaprakashak at gmail.com
% Description/comments  : vAmakeshvarantantre nityAShoDashikArNave
% Indexextra            : (Scan)
% Latest update         : September 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org