श्रीशारदाचतुःषष्टिः
अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम् ।
श्रीशृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥ १॥
अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम् ।
मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति ॥ २॥
अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम् ।
विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति ॥ ३॥
अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम् ।
शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति ॥ ४॥
अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम् ।
कीलालसम्भूतसमुत्थलोलामितः परं किं करणीयमस्ति ॥ ५॥
अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम् ।
तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति ॥ ६॥
अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन ।
पयःप्रभूतप्रभवस्य जायामितः परं किं करणीयमस्ति ॥ ७॥
अद्राक्षमिक्षूदतरङ्गतुल्यां वाचं नतानां ददतीं जवेन ।
लोकेशवामाङ्कमहद्विभूषामितः परं किं करणीयमस्ति ॥ ८॥
अद्राक्षमास्येन्दुविलोकनेन विकासयन्तीं हृदयाम्बुजानि ।
प्रणम्रपङ्क्तेर्वचसां सवित्रीमितः परं किं करणीयमस्ति ॥ ९॥
अद्राक्षमज्ञानतमःप्रचण्डमार्ताण्डषण्डीकृतपादसेवाम् ।
अपारसच्चित्सुखरूपदेहामितः परं किं करणीयमस्ति ॥ १०॥
अद्राक्षमक्षीणदयारसार्द्रकटाक्षसंरक्षितलोकजालाम् ।
अजान्तरङ्गाम्बुजभानुरूपामितः परं किं करणीयमस्ति ॥ ११॥
अद्राक्षमद्याहमशेषलोकप्रवृत्तिसाक्ष्यात्मतया विभान्तीम् ।
गुप्त्यै प्रपञ्चस्य कृतावतारामितः परं किं करणीयमस्ति ॥ १२॥
अद्राक्षमत्यन्तविरक्तिभक्तिश्रद्धाप्रमुख्यैः सुगुणैः सुलभ्याम् ।
सुदुर्लभां तद्गुणवर्जितानामितः परं किं करणीयमस्ति ॥ १३॥
अद्राक्षमम्भोजभवाब्जनेत्रगिरीशमुख्यैः परिपूज्यमानाम् ।
वीणालसत्पाणिसरोजमध्यामितः परं किं करणीयमस्ति ॥ १४॥
अद्राक्षमङ्गच्छविनिर्जितेन्दुनीहारहारावलिदुग्धसिन्धुम् ।
सगर्भयन्तीमगजासनाथमितः परं किं करणीयमस्ति ॥ १५॥
अद्राक्षमाद्यैर्वचसां समूहैरभिष्टुतां देवमुनीन्द्रसङ्खैः ।
अम्भोजमच्छं शुकमादधानामितः परं किं करणीयमस्ति ॥ १६॥
अद्राक्षमाद्यन्तविहीनशुद्धबुद्धस्वभावं परमप्रमेयम् ।
विबोधयन्तीं कृपया प्रणम्रानितः परं किं करणीयमस्ति ॥ १७॥
अद्राक्षमङ्कावहमङ्कवासमालोच्य वासं प्रतिहाय तत्र ।
चतुर्मुखास्याम्बुजवाससक्तामितः परं किं करणीयमस्ति ॥ १८॥
अद्राक्षमीशानरमेशपद्मभवादिरूपेण जगत्प्रवृत्तिम् ।
प्रकुर्वतीं शृङ्गमहीधरस्थामितः परं किं करणीयमस्ति ॥ १९॥
अद्राक्षमाम्नायशिरोवचांसि हृदाप्यलभ्यां जगदुर्हि यां ताम् ।
विचित्रमस्याः करुणाविशेषादितः परं किं करणीयमस्ति ॥ २०॥
अद्राक्षमायासविहीनसेवालवैरपि प्रीतहृदम्बुजाताम् ।
अशेषकल्याणगुणाभिरामामितः परं किं करणीयमस्ति ॥ २१॥
अद्राक्षमाकण्ठनतानुकम्पामक्षिप्रभानिर्जितमीनगर्वाम् ।
वाङ्माधुरीनिर्जितकेकिलोकामितः परं किं करणीयमस्ति ॥ २२॥
अद्राक्षमैश्वर्यमपारमाशु सम्प्रापयन्तीं पदनम्रलोकान् ।
दन्तच्छदाधःकृतपक्वबिम्बामितः परं किं करणीयमस्ति ॥ २३॥
अद्राक्षमानम्रजनानुतापवाराशिसंशोषणबाडवाग्निम् ।
तुङ्गानदीखेलनलोलचित्तामितः परं किं करणीयमस्ति ॥ २४॥
अद्राक्षमाधारसरोरुहस्थां पञ्चाननामस्थिकृतप्रतिष्ठाम् ।
मुद्गौदनासक्तमनोऽम्बुजातामितः परं किं करणीयमस्ति ॥ २५॥
अद्राक्षमष्टाङ्गहठादियोगनिबद्धभावैरनुचिन्त्यमानाम् ।
कष्टादिषड्वर्गविभेददक्षामितः परं किं करणीयमस्ति ॥ २६॥
अद्राक्षमर्कायुतभासमानामनाहताख्ये हृदयाब्जमध्ये ।
फालेऽहिशत्रोर्धनुषः सवर्णामितः परं किं करणीयमस्ति ॥ २७॥
अद्राक्षमिन्दोः सदृशीं शिरस्थसहस्रपत्रे कमले मनोज्ञे ।
त्रिकोणमध्ये वरदीपिकाभामितः परं किं करणीयमस्ति ॥ २८॥
अद्राक्षमम्बाङ्घ्रिसरोजयुग्ममवोचमप्यम्ब तवाभिधानम् ।
अश्रौषमंहोहरणं चरित्रमितः परं किं करणीयमस्ति ॥ २९॥
अद्राक्षमम्भोदतमःसमूहनीकाशकेशव्रजशोभमानाम् ।
कण्ठप्रभानिर्जितकम्बुगर्वामितः परं किं करणीयमस्ति ॥ ३०॥
अद्राक्षमव्याजदयासमुद्रैर्नृसिंहभारत्यभिधैर्यतीन्द्रैः ।
मोदाच्चिरं पूजितपादपद्मामितः परं किं करणीयमस्ति ॥ ३१॥
अद्राक्षमीशानपरावतारश्रीशङ्करार्यैर्वरचक्रराजे ।
प्रतिष्ठितां सर्वजगत्सवित्रीमितः परं किं करणीयमस्ति ॥ ३२॥
अद्राक्षमत्यन्तविरक्तिमाशु विश्राणयन्तीं विषयेषु सुस्थाम् ।
शमादिषट्कं च विनम्रपङ्क्तेरितः परं किं करणीयमस्ति ॥ ३३॥
अद्राक्षमात्मैक्यविबोधनेन संसारवाराकरमध्यमग्नान् ।
उत्तारयन्तीं करुणाकटाक्षैरितः परं किं करणीयमस्ति ॥ ३४॥
अद्राक्षमश्वस्तननित्यवस्तुविवेकमत्यन्तमुमुक्षुतां च ।
सम्पादयन्तीं पदसन्नतानामितः परं किं करणीयमस्ति ॥ ३५॥
अद्राक्षमाकाशनभस्वदग्निजलादिरूपाणि जगन्ति सृष्ट्वा ।
प्रविश्य तेषु प्रविभासमानामितः परं किं करणीयमस्ति ॥ ३६॥
अद्राक्षमूरीकृतपारहंस्यैर्दूरीकृताङ्गप्रभवप्रसङ्गैः ।
विचार्यमाणां श्रुतिशीर्षवाग्भिरितः परं किं करणीयमस्ति ॥ ३७॥
अद्राक्षमेनां हृदि मौनिवर्यैर्विशोषयद्भिर्विषयप्रवाहान् ।
साक्षात्कृतां पङ्कजजातकान्तामितः परं किं करणीयमस्ति ॥ ४४॥
अद्राक्षमेतत्परिदृश्यमानं यद्दर्शनान्नीरसमेव विश्वम् ।
तां सच्चिदानन्दघनस्वरूपामितः परं किं करणीयमस्ति ॥ ३९॥
अद्राक्षमापूर्णकलङ्कशून्यशीतांशुनीकाशमुखाम्बुजाताम् ।
कञ्जातसञ्जातमनोहरन्तीमितः परं किं करणीयमस्ति ॥ ४०॥
अद्राक्षमाकर्णविशालनेत्रां रम्भासमानोरुयुगाभिरामाम् ।
नागेन्द्रकुम्भप्रतिमस्तनाढ्यामितः परं किं करणीयमस्ति ॥ ४१॥
अद्राक्षमेनां जडजातजातोऽप्यनेकनानाविधविश्वकर्ता ।
यत्पाणिपद्मग्रहणादभूत्तामितः परं किं करणीयमस्ति ॥ ४२॥
अद्राक्षमेनां कलिकल्मषघ्नीं यत्पादपद्मं दिननाथतुल्यम् ।
स्वध्यातृहृद्ध्वान्तनिवारणात्तामितः परं किं करणीयमस्ति ॥ ४३॥
अद्राक्षमच्छाच्छपयोजसंस्थां शरन्निशानाथसदृक्षचेलाम् ।
नम्रालिजिह्वाग्रकृतप्रनृत्तामितः परं किं करणीयमस्ति ॥ ४४॥
अद्राक्षमव्याहतशक्तिदात्रीं विनिग्रहानुग्रहयोः क्षणेन ।
अपीन्द्रलोकादिसमस्तसृष्ट्यामितः परं किं करणीयमस्ति ॥ ४५॥
अद्राक्षमेनां महिषासुरस्य निशुम्भशुम्भासुरयोश्च हन्त्रीम् ।
अस्वप्नलोकावनबद्धदीक्षामितः परं किं करणीयमस्ति ॥ ४६॥
अद्राक्षमालोक्य जनिं समृत्युं जातस्य हीत्यादि नयेन वव्रे ।
अजं पतिं या चतुरामहं तामितः परं किं करणीयमस्ति ॥ ४७॥
अद्राक्षमेनां तरसैव नम्रान्कुल्यामिवायासलवं विनैव ।
संसारयन्तीं भववारिराशीमितः परं किं करणीयमस्ति ॥ ४८॥
अद्राक्षमद्वैतविबोधनार्थं कण्ठेन कम्बोर्वचसा पिकस्य ।
मध्येन सिंह्या दधतीमभेदमितः परं किं करणीयमस्ति ॥ ४९॥
अद्राक्षमेनां दयया जवेन प्रकुर्वतीं स्वाङ्घ्रिसरोजनम्रान् ।
सम्पन्नसार्वज्ञ्यसमस्तशक्तीनितः परं किं करणीयमस्ति ॥ ५०॥
अद्राक्षमग्राह्यनिजस्वरूपां गूढामशेषे किल भूतवर्गे ।
ग्राह्यां सुखेनैव सुसूक्ष्मधीभिरितः परं किं करणीयमस्ति ॥ ५१॥
अद्राक्षमक्षासुमनोविभिन्नसच्चित्सुखाकारतया गुरूक्त्या ।
अवापमानन्दमपायशून्यमितः परं किं करणीयमस्ति ॥ ५२॥
अद्राक्षमेनां मुनिभिर्हि साहमहं च सेति व्यतिहारतो या ।
विभाव्यते तां त्रिजगत्सवित्रीमितः परं किं करणीयमस्ति ॥ ५३॥
अद्राक्षमष्टादशसङ्ख्यविद्या वश्या यदङ्घ्र्यम्बुजलग्नबुद्धेः ।
तां सर्वविद्यामयदिव्यदेहामितः परं किं करणीयमस्ति ॥ ५४॥
अद्राक्षमेनां परिहृत्य पञ्चकोशान्सुधीभिः परिचिन्त्यमानाम् ।
वेदान्तसिद्धान्तविचारशीलैरितः परं किं करणीयमस्ति ॥ ५५॥
अद्राक्षमाधारगतत्रिकोणे सन्तप्तहेमप्रभलिङ्गरूपाम् ।
अनाहताख्येऽरुणलिङ्गरूपामितः परं किं करणीयमस्ति ॥ ५६॥
अद्राक्षमब्जायुतकोटिशुक्ललिङ्गस्वरूपां कमले शिरःस्थे ।
वाणीमनोजन्मपरस्वरूपामितः परं किं करणीयमस्ति ॥ ५७॥
अद्राक्षमेनां गृहदारपुत्रदेहेष्वहन्ताममते जहाति ।
यत्पादपाथोजविचिन्तनात्तामितः परं किं करणीयमस्ति ॥ ५८॥
अद्राक्षमेनां हरिदन्तजालविख्यातपाण्डित्ययुता भवन्ति ।
यत्पादसंसक्तहृदो मुहुस्तामितः परं किं करणीयमस्ति ॥ ५९॥
अद्राक्षमेनां मदवद्विवादिगर्वेभनिर्वापणपञ्चवक्त्राः ।
यत्पादपङ्केरुहपूजकास्तामितः परं किं करणीयमस्ति ॥ ६०॥
अद्राक्षमेनामपि किम्पचानः सुरेन्द्रतुल्यः प्रभवेज्जवेन ।
यन्मन्त्रजापाद्दृढभक्तितस्तामितः परं किं करणीयमस्ति ॥ ६१॥
अद्राक्षमम्लानसरोजमालाविभूषितोरःस्थलशीर्षभागाम् ।
अमर्त्यतेजःसमुदायरूपामितः परं किं करणीयमस्ति ॥ ६२॥
अद्राक्षमङ्गप्रभवप्रभूतव्यथानभिज्ञैः परिचिन्त्यमानाम् ।
चित्तामलत्वप्रदनैजचिन्तामितः परं किं करणीयमस्ति ॥ ६३॥
अद्राक्षमात्मेष्टवरप्रदानसन्तोषितानेकनतिप्रधानाम् ।
अजातरूपामपि जातरूपामितः परं किं करणीयमस्ति ॥ ६४॥
अद्राक्षं नारदाद्यैः सुरमुनिनिकरैर्गीयमानापदानां
नृत्यद्दिव्याङ्गनानां करचरणलसत्कङ्कणानां रवौघैः ।
सम्पूर्णाशावकाशां नवनवकविताचातुरीदानदक्षां
शृङ्गाद्रौ चक्रराजस्थिरकृतनिलयां शारदां पारदाभाम् ॥ ६५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशारदाचतुःषष्टिः समाप्ता ।
Proofread by PSA Easwaran