श्रीशारदाकुसुमाञ्जलिः
श्रीरामकृष्णगुरुदेवनिबद्धभावा ।
श्रीरामकृष्णपरिपूजितपादपद्मा ।
श्रीदक्षिणेश्वरगता भवतारिणी सा
श्रीशारदा विजयते जगदेकमाता ॥ १॥
श्वेताम्बरावृतविशुद्धमनोज्ञगात्रीं
शान्तप्रसन्नवदनां करुणार्द्रनेत्राम् ।
ध्यायामि तां हृदयपद्मसुखासनस्थां
श्रीशारदां परमहंसमहाविभूतिम् ॥ २॥
अम्ब प्रसीद भुवनेश्वरि मातृदेवि,
त्वामप्रमेयमहिमार्जिताविश्वपूजाम् ।
क्षान्त्याधरीकृतधरां सरळान्तरङ्गां
निश्शेषदुःखशमनीं शरणं प्रपद्ये ॥ ३॥
विद्याविवादजटिलत्वविहीनभावा
स्वात्मानुभूतिमधुरा सततं प्रसन्ना ।
आनन्दरूपिणि पदाब्जसमाश्रितानां
शान्तिप्रदा विजयसे लळिताम्बिके त्वम् ॥ ४॥
योगेश्वरेश्वरमहागुरुधर्मपत्नि,
सर्वार्थदे सकलशक्त्यवताररूपे ।
आर्तप्रपन्नपरिपालनबद्धदीक्षे
श्रीशारदाम्ब जगदम्ब नमो नमस्ते ॥ ५॥
दिव्यानुभूतिमुदितौ पितरौ विधाय
त्वं लब्धवत्यसि विशिष्टनवावतारम् ।
येन प्रसिद्धिमभजत्किल धर्मवाटी
वङ्गेषु मङ्गळतमा जयरामवाटी ॥ ६॥
ध्यानं जपं च परिपूजनमम्ब, बाल-
लीलासु तत्परतयैव चकर्थ नित्यम् ।
अध्यात्मजीवितमनन्तरभाविमन्ये
धन्या विशुद्धहृदया समसूचयस्त्वम् ॥ ७॥
बाला वधूस्त्वमयि केवलपञ्चवर्षा
प्रौढो युवा ननु वरः स तु रामकृष्णः ।
हंहो विरक्तहृदयश्च भवद्विवाहो
जातस्तथापि च परस्परभावबद्धः ॥ ८॥
श्रीशारदापरमहंसविशुद्धदिव्य-
दाम्पत्यमद्भुततमप्रणयप्रभावम् ।
विश्वोपदेशजननं जयतात् गुरुभ्या -
माभ्यां नमोऽस्तु सततं जगतः पितृभ्याम् ॥ ९॥
काले गते च युवती भवती जगाम
श्रीदक्षिणेश्वरमनुप्रियवासभूमिम् ।
आध्यात्मिकोन्नततले विहरन्तमेनं
त्वय्यद्भुतप्रणयनिष्ठमवालुलोके ॥ १०॥
श्रीशारदाम्ब निगमादृत भर्तृसेवा
लब्धावकाशमुदिता विजहौ विषादम् ।
अध्यात्मभौतिकसमन्वयशिक्षणेन
रेमे च तद्गुरुदयाशिशिरान्तङ्गा ॥ ११॥
त्वं तत्र पुण्यचरिता निगृहीतचित्ता
श्रीरामकृष्णचरणार्पितसर्वभावा ।
आनन्दिता विविधसेवनमाचरन्ती
पूर्णामवापिथ कृतार्थतमामवस्थाम् ॥ १२॥
नानाविधेषु कठिनेषु परीक्षणेषु
हे देवि लब्धविजया विनयावनम्रा ।
सम्मानिता गुरुवरेण समस्तभक्त-
वृन्देन पूजितपदा सुतरां चकासे ॥ १३॥
त्वं षोडशीमहितपूजनमात्मनाथ
योगेश्वरेण विहितं परिगृह्र शान्ता ।
सुव्यक्तशक्तिभरितामलचित्तपद्मा
धन्या बभविथ जगद्गुरुधर्मपत्नी ॥ १४॥
शुश्रूषया परमहंसगुरेस्तदीय-
दिव्योपदेशमननेन च पूर्णबोधा ।
भक्तावलीपरिनिषेवितपादपद्मा
त्वं शोभसे स्म जनपावनि मातृदेवि ॥ १५॥
वन्ये च तस्करपतेः पथि सौम्यभाव-
मापाद्य वन्त्यपितृभाव पुपादधाने ।
स्नेहात्मिके सकलमानसहंसि देवि
तुभ्यं नमः पतितपावनि हे भवानि ॥ १६॥
हे मातृदेवि गुरुदेव महासमाधे-
रर्वागनन्यहृदया तमनुस्मरन्ती ।
तद्दिव्यदर्शननिरस्तसमस्तशङ्का
संप्रापिथ प्रथितनित्यसुमङ्गली त्वम् ॥ १७॥
तीर्थाटनेन सुसमाहितचित्तवृत्ति-
रातन्वती हृदयनाथनिदेशमात्रम् ।
स्त्रीधर्मसुस्थिरधिया पतिगेहमेत्य
क्लेशेन वस्तुमुपचक्रमिषे त्वमेका ॥ १८॥
दारिद्र्यमुत्कटमसज्जनदुर्विमर्श-
मन्यत्र पीटनमहो भवती विषेहे ।
श्रीरामकृष्णभजने जपपूजनादौ
निष्ठान्तवर्धत दिनम्प्रति निर्विशङ्कम् ॥ १९॥
धीरा जिगाय परुषाग्निपरिक्षणेऽस्मि-
न्नात्मश्वरार्पिताविशुद्धदृढान्तरङ्गा ।
क्षीणापि दिव्यतनुकान्तिरशेषपूज्या
संरेजिषे प्रतिप्रदीव शशाङ्कलेखा ॥ २०॥
ज्ञात्वैतदम्ब, सहसा गुरदेवशिष्यै-
रत्यन्तभक्तिविनयावनतान्तरङ्गैः ।
सम्पूजिता सुविहिताखिलकार्यजाता
सस्मर्थ हन्त गुरुदेवदयामनन्ताम् ॥ २१॥
अम्ब प्रसूतिकठिनव्यथया विनैव
लब्ध्वा विनितहृदयांस्तनयाननेकान् ।
प्रेमप्रकर्षलहरीतरलान्तरङ्गा
त्वं देवि सस्मरिथ भर्तृगिरं सहर्षम् ॥ २२॥
मातस्तदाप्रभृति विश्रुतकाळिघट्टं
त्वं पावनीमपि मुदा जयरामवाटीम् ।
श्रीरामकृष्णचरणस्मरणे निमग्ना
सद्भक्तपूजितपदा चिरमध्यवात्सीः ॥ २३॥
योगत्रयेश्वरि विशुद्धविबोधरूपे
मन्त्रोपदेशमखिलं गुरुदेवदत्तम् ।
कारुण्यपूर्णहृदया ददिथ प्रपन्न-
लोकाय हे पतितपावनि मातृदेवि ॥ २४॥
आध्यात्मिकोन्नततले विहरन्त्यथापि
गृह्रं च बन्धमधृथा ननु चित्रमेतत् ।
यद्वा तवैतदुचितं खलु रामकृष्ण-
देवस्य धर्मगृहिणी भवति विशुद्धा ॥ २५॥
श्रीशारदाम्ब भवती निजजीवितेन
वैचित्र्यबन्धुरतमेन विशुद्धिभाजा ।
पूर्णप्रभावमखिलेश्वरि भारतीय-
स्त्रीत्वस्य दर्शितवती महिते नमस्ते ॥ २६॥
ध्यायामि त्वां दधानां जगदतिसुभगं स्थूलरूपं विचित्र
चैतन्यं चापि सूक्ष्मं वपुरखिलपदार्थेषु नित्यं निगूढम् ।
चिल्लीनानित्यतृप्तां प्रणतजनमनोदर्पणोद्भासिरूपां
देवीं श्रीशारदाम्बां जय जननि नमस्ते नमस्ते नमस्ते ॥ २७॥
समर्पणं
श्री शारदाम्ब महिते तव सन्निधाने
``तारवलीय''मयि देवि समप्र्यमाणा ।
हे विश्वरूपिणि तवास्तु विनीतशुद्ध
नीराजनं च ललितं शिवदे नमस्ते ॥
इति श्रीवासुदेवन् एलयथेन विरचिता श्रीशारदाकुसुमाञ्जलिः समाप्ता ।