श्रीशारदाम्बास्तोत्रमालिका
(श्रीकालटिक्षेत्रे)
आसेतुशीतगिरिमध्यनिवासलोकान्
स्वस्वाश्रमाद्युचितकर्मनिषक्तचित्तान् ।
श्रीघ्रं विधाय करुणामृतवारिराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १॥
हंसादिमस्करिवरार्चितपादपद्मे
हंसाग्र्ययाननिरते मुखनिर्जिताब्जे ।
कंसारिमुख्यसुरनायकपूज्यमाने
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २॥
श्वेताम्बुसम्भवनिवासनिषक्तबुद्धे
शीतांशुराजतमहीधरतुल्यवर्णे ।
वाताम्बुमात्रपरितुष्टजनालिसेव्ये
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३॥
क्रव्यादवैरिमुखदेववरेड्यपादे
सुव्याहृतिप्रदपदाम्बुजजातुपाते ।
निर्व्याजपूर्णकरुणामृतजन्मभूमे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ४॥
भक्त्यादिगन्धरहितान्गुरुपादपद्मे
तत्सेवने च सुतरां विनिवृत्तभावान् ।
लोकानवाम्ब परिशुद्धहृदो विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ५॥
अज्ञातवेदनिचयस्मृतिमुख्यगन्धान्
कामार्थमात्रपुरुषार्थधियो मनुष्यान् ।
आम्नायमार्गपथिकांस्तरसा विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ६॥
देहात्मवादनिरतान्सततं हि मोदा-
त्तत्पालनैकनिरतानपि नीचवृत्त्या ।
किं च स्ववृत्तिविमुखान्परिपालयन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ७॥
पापाम्बुराशिविनिमज्जनमुह्यमान-
मेनं दुरन्तविषयाशमजास्यवासे ।
लोकं निवार्य तरसा कृपया दुराशां
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ८॥
उद्वेगकालपरितुष्टहृदम्बुजात-
मप्यैहिकादिनिचये स्पृहया विहीनम् ।
भीत्या रुषा च सुतरां रहितं विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ९॥
आकल्पकालटिनिवासनिबद्धदीक्षा
भूत्वा तथाखिलजगत्यपि धर्मवृद्धिम् ।
प्रापय्य लोकपरिरक्षणमाचरन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १०॥
भाग्याब्धिपूर्णशरदिन्दुसमूहरूपे
भक्तौघसस्यसितभिन्नपयोदपङ्क्ते ।
वेधोमनोऽम्बुजनिबालदिवाकराभे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ११॥
प्राणादिवायुनिचयं विनिरुद्ध्य चेतो
हृत्पङ्कजे चिरतरं तव दिव्यमूर्तेः ।
ध्यानं विभुं रचयितुं प्रविधाय मातः
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १२॥
काणादकापिलमुखेषु समस्तशास्त्रे-
ष्वव्याहतां प्रतिभया सहितां मनीषाम् ।
जात्वप्यकर्णविषयेषु वितीर्य तूर्णं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १३॥
लक्ष्येऽखिलश्रुतिमहादिमवाक्यपङ्क्तेः
ऋक्षेशगर्वपरिशातनदक्षवक्त्रे ।
यक्षेशपाशिमुखदिक्पतिपूज्यपादे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १४॥
दारात्मजावसथपालनसक्तचित्तां-
स्तत्पालनात्तबहुदुःखततीश्च सोढ्वा ।
स्वप्नेऽपि सौख्यरहितान्परिपाल्य लोकान्
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १५॥
कारुण्यपूर्णनयने कलिकल्मषघ्नि
कन्दर्पवैरिसहजे कमलायताक्षि ।
कस्तूरिकामकरिकाश्रितगण्डभागे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १६॥
नैवापहाय निजधर्ममतीव कष्ट-
कालेऽपि वाणि सुतरां निजधर्मवाञ्छाः ।
भूयासुराशु पुरुषाः कुरु तद्वदम्ब
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १७॥
ईहाविहीनजनसन्ततिचिन्त्यमान-
पादारविन्दयुगले प्रणतव्रजाय ।
ईशित्वसिद्धिमुखसिद्धिततिप्रदात्रि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १८॥
बालारुणाधरविनिर्जितपक्वबिम्बे
चेलावधूतशरदभ्रसनस्तगर्वे ।
लीलाविनिर्मितविचित्रजगत्समूहे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १९॥
भक्तिं वितीर्य सुदृढां तव पादपद्मे
दुःखालयेषु विषयेषु विरक्तिदार्ढ्यम् ।
औत्सुक्यमप्यविरलं निगमान्तपाठे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २०॥
दूर्वादिमत्तगजसिंहधुरन्धरत्वं
शर्वादिसेवितपदे तरसा वितीर्य ।
दुर्वासनां हृदि गतां तरसा प्रमथ्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २१॥
पादाम्बुजप्रणतलोकविचित्रकाव्य-
कर्तृत्वदानचतुरे चतुरास्यजाये ।
कुम्भीन्द्रकुम्भपरिपन्थिकुचे कुमारि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २२॥
चापल्यनैजजनिभूमिहृदम्बुजातं
पापाम्बुराशिदृढमग्नमपेतपुण्यम् ।
आत्मावबोधविधुरं गुरुभक्तिहीनं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २३॥
रङ्कोऽपि यत्करुणया प्रभवेत्सुरेशो
मूकोऽपि तद्गुरुमहो वचसा जयेच्च ।
सा त्वं प्रभूतधनवाग्विभवप्रदात्रि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २४॥
अम्बाशु बोधय कृपाभरितैः कटाक्षै-
स्तत्त्वं परं यदवलोकनतो न भूयात् ।
भूयोऽपि जन्म पदनम्रततेः कदाचित्
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २५॥
कालट्यभिख्यपुरवासनिबद्धभावे
कालप्रतीपसहजे कलकण्ठकण्ठे ।
कायप्रभाजिततुषारसितांशुशोभे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २६॥
यत्त्वं हि वीक्षणलवेन नतार्भकाणां
सम्पोषणं प्रकुरुषे जगदम्ब सार्थम् ।
मीनाम्बकत्वमभजद्भवतीह तस्मात्
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २७॥
अष्टाङ्गयोगमखिलं तरसोपदिश्य
नीत्वा च मध्यपदवीं सहशक्तिवायुम् ।
चेतश्च धामनि परे दृढमारचय्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २८॥
ऐक्यावबोधनकृते प्रणमज्जनानां
वक्त्रे विधुत्वमथ नेत्रयुगे झषत्वम् ।
मध्ये च पञ्चमुखतां परिधारयन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २९॥
श्रीशङ्करार्यकरपङ्कजपूजिताङ्घ्रे
पाशं विभिद्य तरसा भवनामभाजम् ।
साशंसदाहिविषयेऽप्युपभुक्तपूर्वे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३०॥
कीरार्भकप्रविलसत्करपङ्कजाते
स्वाराज्यदानपरितोषितनम्रवृन्दे ।
स्मेरास्यकान्तिपरिधूतसुधांशुबिम्बे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३१॥
कारुण्यसागरनिमग्नहृदम्बुजाते
लावण्यजन्मसदनीकृतनैजदेहे ।
कारुण्यनित्यविहृतेर्निलयाङ्गसौधे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३२॥
श्रीशेशपद्मजमुखामरपूजिताङ्घ्रे
श्रीबोधदाननिरते प्रणमज्जनेभ्यः ।
श्रीकण्ठसोदरि कृपामृतवरिराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३३॥
पूर्णानदीतटविहारविलोलचित्ते
तूर्णानतेष्टततिदाननिबद्धदीक्षे ।
चूर्णायिताखिलचिरात्तहृदन्धकारे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३४॥
वैराग्यजन्मनिलयैः परिसेव्यमाने
वैयासकिप्रमुखमौनिजनैर्नितान्तम् ।
सच्चित्सुखात्मकतनो विधिपुण्यराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३५॥
यां वेत्तुमिच्छति मखानशनाद्युपायै-
र्लोके द्विजावलिरसौ बहुपुण्यपाकात् ।
सोपायहीनमपि नैजकृपातिरेकात्
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशारदाम्बास्तोत्रमालिका सम्पूर्णा ।
Proofread by PSA Easwaran