॥ शारदास्तोत्रम् ॥

श्रीगणेशाय नमः ॥ शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव । अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥ १॥ पुराणवस्त्राणि न धारयामि नवाम्बराण्येव तु धारयामि । इति प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥ २॥ एकमेवाम्बरं वाणि विरूपं च वदन्ति हि । नवाम्वराणि धत्से त्वं सुरूपाणि कथं वद ॥ ३॥ आकाशवत्सर्वगतश्च नित्यं इत्यादिवेदेऽम्ब किलाम्बरस्य । प्रत्नत्वमेकत्वमपि प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥ ४॥ हंसैरेव परैः सेव्या नाहमन्यैर्जनैरिति । प्रबोधनकृते मातर्हसं वाहं करोषि किम् ॥ ५॥ हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय । विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥ ६॥ हंसो बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोक्षप्रदायी पद्मानामेष मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ । अप्यामोदप्रदात्र्या नतहृदयसरोजातपङ्क्तेरधस्ताद्भूतो हीत्येव बोधं रचयितुमिव किं हंसमारोहसीशे ॥ ७॥ वृषं पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः । द्रुतं पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्क्ते ॥ ८॥ शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं भीतः पलाय्य तव सन्निधिमागतः किम् । उक्षाधिपः सरसिजासनधर्मपत्नि ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु ॥ ९॥ कर्तुमात्मनि सार्था किं वृषेन्द्रः पुर एतु नः । इत्यादिकां श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥ १०॥ वृषभो वृषभो नो चेत्कथं तव पदाम्बुजम् । वाणि सेवितुमर्हः स्यात्तस्माद्धृषभ एव हि ॥ ११॥ शशिसूर्यचन्द्रमुख्यानहमेवास्थाय पालयामीदम् । जगदिति विबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥ १२॥ शम्भौ सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा सागर्भ्यं त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि । वक्त्रारक्तपटीसुवाहमिषतः सेवां सदा कुर्वते मोदादेव हि तेन चात्र विषयः कश्चिद्गिरां देवते ॥ १३॥ शिखिवच्छुद्ध एवेति नाम्नैवाह यतः शिखी । तस्मात्त्वद्वाहता चास्य युक्तैव विधिवल्लभे ॥ १४॥ शिखी मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति । द्योतनाय शिखीं किं वा मातस्त्वामेव सेवते ॥ १५॥ निशम्य सम्प्रेषितवान्मयूरमुद्धर्ष इत्येव पितृष्वसुः किम् । षडाननो ब्रूहि गिरां सवित्रि नम्रस्य सन्देहयुजो ममाशु ॥ १६॥ के का न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि । इति नाम्नैव हि वक्तुं भाति त्वत्सन्निधौ केकी ॥ १७॥ विनतातनूद्भवत्वं प्रकटं प्रभवेद्विनत्यैव । इति बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणि ॥ १८॥ मानसविहरणशीलां देवीं त्यक्त्वाऽन्यदेवतासेवा । नैवोचितेति खगराड् वहति त्वां तादृशीं नूनम् ॥ १९॥ सुवर्णनीकाशभवत्प्रतीककान्तैः परिष्वङ्गत एव सार्धा । सुवर्णतेत्यात्मन आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेवाम् ॥ २०॥ विष्णौ वीक्ष्य जडाधिवासमथ च स्वामित्रशायित्वम- प्यण्डोद्भूतपतिर्विहाय तमिमं विज्ञानरूपामयम् । त्वामेवाद्य निषेवते खलु मुदा वाग्देवि युक्तं च तत् को वा शत्रुसहासिकां हि सहते लोकेषु विद्वज्जनः ॥ २१॥ भूताकाशचरेट् त्वमेव भुवने सिद्धं हि का तेन मे बुद्धिश्चाभवदित्यवेत्य खगराट् नूनं गिरां देवते । हार्दाकाशचराधिपत्यमपि मे भूयादितीच्छावशात् तत्प्राप्त्यै तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥ २२॥ लोके ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह । द्वावपि शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥ २३॥ हस्तान्तरस्थपरशुं शम्भोर्भूषार्थमादृतान्नागान् । दृष्ट्वा भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥ २४॥ समाश्रयेयं यदि पुष्करस्थमब्जं तदा स्यात्पतनं हि दर्शे । ममेति मत्वा मृगशावकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥ २५॥ पिबेयुरपि मां सुरा यदि वसामि चन्द्रे तदेत्यपायरहितं पदं जिगमिषुश्चिरं सञ्चरन् । अपायवचनोज्झितं तव पदाब्जयोरन्तरं विलोक्य मृगशावको वसति तत्र वाग्देवि किम् ॥ २६॥ लालयति वाणि किं त्वां पञ्चास्यः स्कन्धमारोप्य । युक्तमिदं भ्रातॄणां सोदर्याल्लालनं लोके ॥ २७॥ नाथस्यापि ममानिवेद्य हरिणः सेवां कथं प्रातनोत् वाग्देव्याश्चरणाब्जयोरिति रुषा सारङ्गबालं भृशम् । त्वां शीघ्रप्रपलायनोत्सवपरं सेवां करोत्यादरात् दृश्येशः स्वयमित्यवैमि करुणावारान्निधे शारदे ॥ २८॥ विष्ण्वर्धत्वात्पालकत्वं ममास्ते संहर्तृत्वं नैजमेवास्ति किन्तु । स्रष्टुर्भावो वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वां सेवते पञ्चवक्त्रः ॥ २९॥ उन्नम्य पादद्वितयं तुरङ्गो वदन्नितीवास्ति गिरां सवित्रि । विलङ्घ्यतां किं सरिदीश्वरोऽयमुत्प्लुत्य गच्छेयमथाम्बरं वा ॥ ३०॥ पदे पदे दानववश्यता मे भवेच्छचीनाथसमीपवासे । उच्चैःश्रवा इत्यभिगम्य मातस्तवाङ्घ्रिसेवां प्रकरोति किं वा ॥ ३१॥ कुरङ्गवेगस्तव दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि । इतीव गर्वादधिगम्य मातस्तुरङ्गमस्त्वां परिसेवते किम् ॥ ३२॥ विहङ्गं कुरङ्गं तुरङ्गं च वाहं विधायाशुगं श्रान्तिमासाद्य किं त्वम् । गजं मन्दगं वाहमद्यातनोषि प्रणम्रस्य मे ब्रूहि वाचामधीशे ॥ ३३॥ जभ्भारौ कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं त्यक्त्वा ह्रीसाध्वसाभ्यामयमिभकुलराट् तौ शरच्चन्द्रशुभ्रः । इन्द्रोपेन्द्रादिसेव्यामपि सकलसुराराध्यपादारविन्दां त्वामेवातिप्रमोदात्कमलजदयिते सेवते नूनमेतत् ॥ ३४॥ नतेष्टदानाय सदा दयार्द्रकराम्बुजा त्वं यत एव वाणि । तस्मादिभोऽप्येष तवाङ्घ्रिसङ्गाद्दानाम्बुसंसिक्तकरो विभाति ॥ ३५॥ मत्पादाब्जप्रणम्रं न रमति तरसा सेवते चेभमुख्या लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव बोधम् । कर्तुं हस्ताग्रराजद्वारकनकसरं नागराजं प्रधत्से वाणि प्रब्रूहि किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥ ३६॥ त्यक्ष्यामि नैव रागं कालत्रितयेऽपि नम्रवर्गेषु । इति बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥ ३७॥ एकः शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल । शुकोऽपरस्तु को ब्रूहि शारदे प्रणताय मे ॥ ३८॥ पद्मासनस्थे सरसीरुहोत्थजाये वस त्वं हृदये सदा मे । तेनाहमाशाः सकला जयेयं न तत्र सन्देहलवोऽस्ति मेऽद्य ॥ ३९॥ इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिविरचितं शारदास्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : shAradAstotram
% File name             : shAradAstotram.itx
% itxtitle              : shAradAstotram (nRisiMhabhAratIsvAmivirachitam)
% engtitle              : shAradAstotram
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : nRisiMhabhAratIsvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 23, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP