श्रीशूलिनीविश्वरूपस्तुतिः

श्रीशूलिनीविश्वरूपस्तुतिः

श्रीदेव्युवाच - सर्वसिद्धिप्रदायिन्याः शूलिन्याः सर्वबोधक । विश्वरूपस्तुतिं श्रोतुं इच्छाम्यद्याहमादरात् ॥ १॥ var इच्छाम्यहमिहादरात् श्रीशिव उवाच -- साधु कल्याणि तत्मर्वं यद्यदुक्तं मयाऽधुना । अतिगुह्यतमं श्रेष्ठं स्मरणात्सर्वसिद्धिदम् ॥ २॥ सर्वरोगप्रशमनं सर्वोत्पातविनाशनम् । सर्वदुःख(दुर्ग) हरं दिव्यं सर्वभीतिनिवारणम् ॥ ३॥ सर्वक्रूरक्रियापद्घ्नं सर्वपापविमोचनम् । सर्वाभीष्टप्रदं रम्यं सद्यस्तादात्म्यसिद्धिदम् ॥ ४॥ वक्ष्यमाणस्तुतिं मन्त्री ज्ञात्वा गुरुमुखात् दृढम् । ध्यायन् ध्यायन् प्रतिश्लोकं सर्वकर्माणि साधयेत् ॥ ५॥ नानाविधक्रियाभेदस्वरूपां शूलिनीं क्रमात् । ध्यात्वा प्रतिदिनं मन्त्रं (मन्त्री) त्रिवारं प्रजपेत्पृथक् ॥ ६॥ सकृद्वा सकलां सिद्धिं सुहृद्भिः सह भूतले । लब्ध्वा सुखी भवेन्मन्त्री सर्वानुग्रहकृत्स्वयम् ॥ नानाविशेषसङ्कल्पविकल्परहितं फलम् । प्राप्नोति नित्यभावात्मा समष्टिव्यष्टिभेदतः ॥ ८॥ समष्ट्याऽखिलमाप्नोति व्यष्ट्या तत्तत्क्रियाफलम् । तस्मात्सकलरूपां तां ध्यायेत्सकलसिद्धये ॥ ९॥ var सर्वार्थसिद्धये अथवा विविधं रूपं पृथक् सङ्कल्पपूर्वकम् । भावयन् प्रजपेन्मन्त्रं (मन्त्री) तत्तत्कर्मंफलाप्तये ॥ १०॥ सर्वकार्यसमुद्युक्तः(क्तां) सर्वावरणसंवृताम् । शूलिनीं चक्रमध्यस्थां ध्यायन् मूलमनुं जपेत् ॥ ११॥ ॐ श्रीमये जगदाधारे जगदैश्वर्यसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १२॥ ॐ अमृते अमृतोद्भूते अमृताप्लाविताखिले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १३॥ ॐ आनन्दपूर्णनिलये आगमानामधीश्वरि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १४॥ ॐ इक्षुकार्मुकपुष्पास्त्रे इहामुत्रफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १५॥ ॐ ईशे ईहादिरहिते ईशादिसुरवन्दिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १६॥ ॐ उत्तमे उत्तमाराध्ये उद्यदादित्यसन्निभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १७॥ ॐ ऊर्ध्वाधोभागरहिते ऊर्जितज्ञानविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १८॥ ॐ ऋध्यादिशक्तिसंसेव्ये ऋग्यजुस्सामरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १९॥ ॐ एकानेकविधाकारे एकान्तपदवासिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २०॥ ॐ ऐश्वर्यदाननिरते ऐक्यभावाशुसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २१॥ ॐ ओङ्कारनाम(द) रसिके ओजोबलविवर्धनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २२॥ ॐ औचित्यचित्रफलदे औदार्यगुणशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २३॥ ॐ अम्बिकेऽम्भोजवदने अम्बुदश्यामकोमले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २४॥ ॐ अष्टाष्टतन्त्रजनके अष्टधाकृतविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २५॥ ॐ करुणापूर्णनयने कल्याणवरदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २६॥ ॐ कामेशि कालरहिते कालवैश्वानरोपमे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २७॥ खड्गादि षट्पदक्रूरे खट्वाङ्गमुसलायुधे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २८॥ ॐ गर्वोद्धतारिहरणे गम्भीरे गगनाकृते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २९॥ ॐ घर्मदे घार्णनादेष्टे(नाथेष्टे) घद्वार्विशाहुतिप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३०॥ ॐ चण्डोच्चण्डबलप्रौढे चतुर्वर्गफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३१॥ ॐ छन्नभक्ति (क्त्य) प्रिये छाये छत्रचामरशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३२॥ ॐ जङ्गमाजङ्गमाकारे जगज्जननि जातजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३३॥ ॐ झञ्झामरुन्मये झाली(लि) झङ्कारपदपङ्कजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३४॥ ॐ ञ्ंमिश्रितार्णमन्त्रार्थरहस्यफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३५॥ ॐ टङ्कायुधसमुध्वस्तमहासुरधराधरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३६॥ ॐ उत्तुङ्गशैलनिलये शङ्करप्राणवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३६॥ ॐ ठङ्कारशीत (श्रीकरो) रूद्भावभावनामृतवर्षिणि ॥ वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३७॥ (ठद्वयान्तमहामन्त्रभावनामृतवयिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ मातृकागतपद्यस्य दुर्ग्रहार्थत्वात् एवं भवतु इति भगवतीस्मरणपूर्वं परिवर्त्यते ॥) ॐ डाडिमीकुसुमप्रोद्यदरुणारुणविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३८॥ ॐ ढढं डमरुहस्ताब्जे डिण्डिमध्वानमोदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३९॥ ॐ णार्ण संहृतियोगार्णसंवर्तपरिवर्तिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४०॥ (अयं पद्यभागः यथामातृकं दत्त । अस्य सङ्गतार्थकत्वे साधकविद्वांस एव प्रमाणम् ॥ (थ) यथाविधिहुतसमिदन्नाज्यप्रीतमानसे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥) ॐ तत्त्वातीते तत्त्वमये तत्त्वशोधनतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४१॥ ॐ दक्षेशि(दक्षारि (दि)) दर्पशमने दलिताखिलसङ्कटे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४२॥ ॐ धर्मादिवर्गफलदे धन्ये धारामृतात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४३॥ ॐ नमस्कारप्रिये नव्ये नाथे नवरसात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४४॥ ॐ परामृतप्रवाहे हे परकृत्याप्रमर्दिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४५॥ ॐ फलदे भालनयने फट्कारजि(ह) तपा(व) तके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४६॥ ॐ बन्धूकस्निग्धतिलके बिम्बाधरदलोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४७॥ ॐ भद्रकालि भयापद्घ्ने भक्षिताशेषविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४८॥ ॐ मनोन्मनि मदोन्मत्ते महेशाराधनप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४९॥ ॐ यज्ञप्रिये यज्ञमये यथेष्टफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५०॥ ॐ रमादिसुन्दरीपूर्णे (र्णं) राजपीठाधिदेवते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५१॥ ॐ लसत्सोमकलाचूडे लावण्यातिशयोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५२॥ ॐ वरदाभयहस्ताब्जे वराराध्यपदाम्बुजे । var वीराराध्य वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५३॥ ॐ शङ्कादिपाशहत्णे शङ्करप्रियवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५४॥ ॐ षट्षष्टिकोटितीर्थेशि षड्विकारविवर्जिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५५॥ ॐ सर्वाकारे सर्वमये सर्वाभीष्टवरप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५६॥ ॐ हर्षिताशेषभुवने हतारातिकुले हरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५७॥ ॐ क्षमाकारे(करे) क्षमाकारे क्षामक्षोभविभञ्जने । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५८॥ ॐ अक्षय्यभाग्यवरदे अक्षानन्दन्वरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५९॥ ॐ अलकेशादिभिर्वन्द्ये अहन्तागर्वशान्तिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६०॥ ॐ असतां दूरचरिते अशक्यप्रतितन्त्रके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६१॥ ॐ अवसानमकारस्थे अलसाद्यष्टभेदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६२॥ ॐ अरालालकसुस्निग्धे अयथाभक्तिदुःसहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६३॥ ॐ अमलेऽभङ्गुरेऽवश्ये अफालाक्षमदापहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६४॥ ॐ अपराधसहे दान्ते अधर्मङ्गुणदुःसहे! । var अपराधसहेऽनन्ते वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६५॥ ॐ अदनाद्याहुतिप्रीते अथाहकमुखाक्षरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६६॥ ॐ अनन्त (तन्त्र) चित्रकरणे अटवीचारतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६७॥ ॐ अजे अघादिरहिते अगराजकुलोद्भवे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६८॥ ॐ अखण्डानन्द (न्त) जनके अकालफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६९॥ अक्षान्ताक्षरभिन्नविग्रहवरे (परे) अन्तादिमध्यात्मिके अक्षालक्ष्यविचित्रकर्मकलने अत्युत्तमेऽचञ्चले । शिक्षारक्षितविश्वजीवसदये चिन्ताघनाशोद्यमे शिष्टेष्टार्थवरप्रदाननिरते चित्रे(त्ते)श्वरि त्राहि माम् ॥ ७०॥ इतीदं शूलिनीदेव्याः स्तोत्रं सर्वार्थसिद्धिदम् । आयुरारोग्यसौभाग्यपुत्रसिद्धि(पौत्र) समृद्धिदम् ॥ ७१॥ सर्वरोगप्रशमनं सर्वभूतनिवारणम् । सर्वक्षुद्रहरं दिव्यं-कृत्रिमोपद्रवापहम् ॥ ७२॥ चर्मग्रथितकीलादिशल्यभेदनिवर्तकम् । पुत्तलीशुष्कपोतादि कृत(त्रि)(मा)कार्ति निबर्हणम् ॥ ७३॥ var कृत्रिमार्तिनिबर्हणम् सक्ताङ्गुलीयबलयमूलिकाबन्धनार्तिहम् । नाडीबन्धाक्षगुम्भादिनानाशून्योपशान्तिदम् ॥ ७४॥ मातृशास्तृगणादीनां प्रेरणा (ण) व्यसनापहम् । मृगपक्ष्यहिमूषादिजीवव्याजार्तिकर्शनम् ॥ ७५॥ सर्वाभिचारशमनं शङ्काक्षुद्रविमोचनम् । अशेषाणामथान्यासां बाधानामुपशान्तिदम् ॥ ७६॥ तिथिवारर्क्षयोगोत्थसर्वाशुभभयापहम् । अरातिराष्ठसैन्यानां आक्रमोपद्रवापहम् ॥ ७७॥ सर्वपापप्रशमनं सर्वानुग्रहसिद्धिदम् । शान्तिपुष्टिकरं योगसिद्धिदं ज्ञानसि(वृद्धि)द्धिदम् ॥ ७८॥ विशेषात् शूलिनीदेव्याः कटाक्षेक्षणहेतुकम् । धर्मार्थकाममोक्षैकहेतुकं विश्वजीवनम् ॥ ७९॥ य इदं शूलिनीदुर्गादेव्याः स्तोत्रमनुत्तमम् । स्मरेद्वा प्रजपेद् ध्यानपूर्वकं विजितेन्द्रियः ॥ ८०॥ अवाप्य सकलान् कामान् भुक्त्वा भोगान् असङ्ख्यकान् । पितृमातृकुलस्निग्धबन्धुभृत्यावृतः स्वयम् ॥ ८१॥ सृष्ट्यादिपञ्चभेदानां कर्मणां महतां सदा । कर्ता भवति लोकानां समातिशयवर्जितः ॥ ८२॥ स्तोत्रमेतद्वरं दिव्यं रहस्यातिरहस्यकम् । मन्त्री विशुद्धहृदयो बाह्यव्यापारवर्जितः ॥ ८३॥ अशेषात्महृदम्भोजवासिनीं परदेवताम् । ध्यायन् प्रतिदिनं कुर्यात् जप सर्वार्तिशान्तये ॥ ८४॥ निग्रहानुग्रहे कार्ये विविधे मन्त्रवित्तमः । स्मरन् देवीं जपेत् स्तोत्रं मन्त्रं तत्तदवाप्तये ॥ ८५॥ बहुनोक्तेन किं मन्त्री यत्र यत्र स्मरन् जपेत् । तत्र तत्र स्थिता सैव सर्वाभीष्टप्रदा भवेत् ॥ ८६॥ यं यं मनसि सञ्चिन्त्य देवीं ध्यायन् जपेत् स्तुतिम् । तं तं काममवाप्नोति सर्वावस्यासु सर्वथा (दा) ॥ ८७॥ अनेन स्तुतिमन्त्रेण मन्त्र्य भस्मादिकौषधम् । प्रदापयेदशेषाणां तत्तकर्मा(काम्या) र्थसिद्धये ॥ ८८॥ इति परमरहस्यं स्तोत्रमेतत्परायाः प्रथितं उपसि भक्त्या ध्यानपूर्वं जपेद्यः । जगति निखिलभाग्यं दीर्घमायुः सुपुत्रान् विपुलविमलकीर्तिं प्राप्य मुक्तो भवेत्सः ॥ ८९॥ इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गाक्रियाभेदविघाने विश्वरूपस्तुतिर्नाम षष्ठोपदेशः ॥ Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : shUlinIvishvarUpastutiH
% File name             : shUlinIvishvarUpastutiH.itx
% itxtitle              : shUlinIvishvarUpastutiH (AkAshabhairavakalpAntargatA)
% engtitle              : shUlinIvishvarUpastutiH
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Shulinikalpam, Tanjavur Saraswati Mahal Series No. 403
% Indexextra            : (Scan)
% Latest update         : December 3, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org