जयनारायणप्रणीतं शङ्करीसङ्गीतम् अथवा जगदम्बाचरित्रम्

जयनारायणप्रणीतं शङ्करीसङ्गीतम् अथवा जगदम्बाचरित्रम्

The ``shaNkari sangItaM'', composed by ShrI JayanArAyana Kavi, is a small geya kAvya on the Shiva-Parvati theme, styled in the same format as that of Jayadeva's ``gIta govindam'', There are 12 paTala's (chapters) in this work. Each paTala begins with some shlokas, followed by one or two gItams (with anywhere from 4 to 9 pAda, and in one gItaM we find 11 pAda-s) and concludes with a shloka or two. There are 28 gIta-s it total, and 76 shlokas are spinkled in between. The concludinmg pAda in each gItaM is a ``bhaNitam'' of poet Jayanarayana, just like the one we usually find in Jayadeva's gItagovindam. The book employs the following scheme for numbering the items. There is a sequential numbering throughout, starting with numeral 1, and each shloka and each pAda of each gIta is given its own number in that order. The shlokas carry only one numeral, whereas the pAdas of each gIta carry two numbers, the first one, the number of the pAda in that particular gIta, and the second, the sequential order from the very beginning. In the printed book, this numbering scheme is abandoned after the fouth paTala, but we have carried it over till faithfully the end of the work. The total number is 249, distributed as follows: number of shlokas - 76 total number of pAda-s in all 28 gItam-s - 173 distribition:- 5 gItas with 4 pAda each, 5 with 5 pAdas, 8 with 6 pAdas, 4 with 7 padas, 4 with 8 pAdas, one each with 9 and 11 pAda). gIta 2 is a ``dashAvatAra gIta'' in 11 pAda-s with all usual 10 incarnations, this time taken by Goddess Parvati, (similar to the Jayadeva's first aShTapadi ``praLayapayodhijale''). The shlokas employ many standard metres found in Sanskrit such as: अनुष्टुभ्, उपजाति (इन्द्रवज्रा उपेन्द्रवज्रा संमीलित), द्रुतविलम्बित, रथोद्धत, वसन्ततिलकम्, मालिनी, मन्दाक्रान्ता, शार्दूलविक्रीडितम् अन्द् स्रग्धरा (anuShTup, upajAti (mixture of indravajrA, upendravajrA), drutavilambita, rathoddhata, vasantatilakam, mAlinI, mandAkrAntA, shArdUlavikrIDitam and sragdharA.) The work concludes with a description (in 10 shlokas) of the poet's ``vaMsha paraMparA (lineage). ॥ श्रीगणेशाय नमः ॥ ॐ दुर्गायै नमो नमः ॥

अनुक्रमणिका

१. गोत्रोत्थानं नाम प्रथमः पटलः । २. बाल्यलीलावर्णनं नाम द्वितीयः पटलः । ३. नारदसमागमो नाम तृतीयः पटलः । ४. मेनाविलापो नाम चतुर्थः पटलः । ५. काशीप्रस्थानं नाम पञ्चमः पटलः । ६. वसन्तवर्णनं नाम षष्ठः पटलः । ७. शिवसम्भाषणं नाम सप्तमः पटलः । ८. एकाम्रवनगमनं नाम अष्टमः पटलः । ९. गोष्ठवर्णनं नाम नवमः पटलः । १०. विरहवर्णनं नाम दशमः पटलः । ११. दूतीसंवादो नाम एकादशः पटलः । १२. रासवर्णनं नाम द्वादशः पटलः ।

प्रथमः पटलः

आनन्दतुन्दिलपुरन्दरमन्दभुक्त- मन्दारदामविगलन्मकरन्दसिक्तम् । वन्दे गिरीन्द्रतनयाचरणारविन्दं योगीन्द्रवृन्दहृदयभ्रमरावलीढम् ॥ १॥ क्व त्रिलोकजननीचरित्रकं क्वाऽपि मन्दविषया मतिर्मम । भूहिता ह्यवचिषुरस्म्यहं नाकशाखिकुसुमानि पाणिना ॥ २॥ अथवाऽस्मिन् प्रयत्नो मे निष्प्रत्यूहं कलिष्यति । जगदम्बाचरित्रं हि प्रत्यूहव्यूहनाशनम् ॥ ३॥

॥ गीतं १ ॥ चौताल भैरवरागः

कलिभयमपहर करुणां सुवितर सकलभुवनकृतसेव । त्वयि मम नतिततिरविरतिरतिगतिहीनगतिद गुरुदेव ॥ १॥ ४॥ दशशतदलजलजातनिकेत जय जय परमब्रह्मद नाथ ॥ ध्रुवम्॥ त्वममरतरुरिति गदित इह जगति कलयसि याचककामम् । विपदमतिशमय मम परिपूरय हृदभिलषितमविरामम् ॥ २॥ ५॥ तव करुणालवभवबोधनमव बाधितविषयविकारम् । भवनिगडदलनकारणमतुलनमागमकृतमिति सारम् ॥ ३॥ ६॥ जयनारायण इति भणति शमनदमनमखिलसुखनिलयम् । गुरुपदकमलं रसमयममलं मधु पीयन्तं मम हृदयम् ॥ ४॥ ७॥

॥ गीतं २ ॥ मूलताल भैरवरागः

लयसमरे जलराशौ रक्षसि मग्नं जगदुपकृतये वेदमभग्नम् ॥ १॥ ८॥ धूमावति मीनदेहे जय जगदम्ब शिवे ! ॥। ध्रुवम्॥ तव पृष्ठे विपुले सचराचरकीर्णा सन्ततमस्ति धरणिरविशीर्णा ॥ २॥ ९॥ बगलामुखि कमठरूपे जय जगदम्ब शिवे ! ॥। ध्रुवम्॥ खरनखरं तव करकमलं परमकृशं हिरण्यकशिपुं दारयति भृशम् ॥ ३॥ १०॥ छिन्नमस्ते नृहरितान जय जगदम्ब शिवे ॥। ध्रुवम्॥ करुणारसमपहाय बलिं निजदासं अमरकृते गमयसि कणिवासम् ॥ ४॥ ११॥ भुवनेश्वरि वामनतान जय जगदम्ब शिवे ॥। ध्रुवम्॥ नृपकुलरुधिरजलैर्जगदविदितसीमं शमयसि कोपानलमतिभीमम् ॥ ५॥ १२॥ सुन्दरि धृतभार्गवतान जय जगदम्ब शिवे ॥। ध्रुवम्॥ हत्वा दशवदनं युधि तदनय दुःस्थं निखिलं भुवनं जनयसि सुस्थम् ॥ ६॥ १३॥ तारे धृतरामरूपे जय जगदम्ब शिवे ॥। ध्रुवम्॥ वक्षसि कराम्बुरुहेण हलं शितधारं रिपुगणदेहक्षत्रविदारम् ॥ ७॥ १४॥ भैरवि धृतहलिशरीरे जय जगदम्ब शिवे ॥। ध्रुवम्॥ स्वकथितवेदमहो कथयसि विपरीतं त्रिजगज्जनयसि मोहपरीतम् ॥ ८॥ १५॥ महालक्ष्मि विश्वरूपे जय जगदम्ब शिवे ॥ ध्रवम् ॥ समरशिरसि सबलं विनिहंसि च कंसं परमं न (हि) दयसे यदुवंशम् ॥ ९॥ १६॥ श्यामे धृतकृष्णरूपे जय जगदम्ब शिवे ॥ ध्रुवम्॥ हंसि म्लेच्छचयान् विनिधृत्य कृपाणं भूत्वा द्विजतनयो बहुशाणम् ॥ १०॥ १७॥ दुर्गे घृतकल्किकाये जय जगदम्ब शिवे ॥ ध्रुवम्॥ श्रीजयनारायणभणितं रमणीयं श‍ृणुत बुधाः सुरनरकमनीयम् ॥ ११॥ १८॥ तारिणि धृतदशविधतान जय जगदम्ब शिवे ॥। ध्रुवम्॥ वेदोद्धारं धरित्रीधरणमसुरहृद्वारणं नागलोके सम्प्रस्थायं बलेश्च क्षितिपतिविजयं निर्जयं रावणस्य । आदानं व्याच्छलस्य श्रुतिपथसमुपालम्भनं कंसनाशं म्लेच्छोद्ग्रासं क्रमाद् या रहसि कृतवती तां नमाम्याद्यशक्तिम् ॥ १९॥

॥ गीतं ३ ॥ मूलताल ललितरागः

भवभयभञ्जन जनहृद्रञ्जन मञ्जुलचरणसरोजे ! नखरसुधाकरकरपरिवारितमायातिमिरसमाजे ! ॥ १॥ २०॥ जय जय सुरार्च्चिते ! ॥ ध्रुवम्॥ त्रिभुवनभवन-विपालन-विलयन लीलाकारणभूते ! कृतनिजचारण दुःखनिवारणि करुणानिकरपरीते ! ॥ २॥ २१॥ मृगपतिवाहिनि मुक्तिविधायिनि निर्गुणसगुणकशीले ! असुरविदारण सुरकुलपालन विरचितवहुभवलीले ! ३॥ २२॥ कथयति सेवकजयनारायण इह भवसागरभीतः । कृपया मामभितारय तारिणि ! भजनरहितमिति मातः ! ॥ ४॥ २३॥ प्रातः प्रेमभरालसा निजसखीमालासमेता किल मेना भूधरराजधर्मगृहिणी निद्रावती पार्वतीम् । लीलादेहविधारिणीं भगवतीं ज्योतिर्मयीं चिन्मयीं सम्प्राबोधयताऽमिताक्षरयुतैर्वाक्यैर्जगन्मङ्गलैः ॥ २४॥

॥ गीतं ४ ॥ मध्यमानताल विभाय(स)रागः

तव पदपल्लवनखरतुलनमिव नैव समेत्य कलङ्की । जलधिपयसि परिमज्जति शीतकरः परिभवशक्तिः ॥ १॥ २५॥ शशधरवदने खञ्जननयने परिहर शयनमिदानीम् ॥ ध्रुवम्॥ किसलयलोहितविमलचरणतलतुलनामाप्तुमिवैषः । दवसमुखे तपनं तव परमधिगच्छति विद्रुमभासः ॥ २॥ २६॥ मृदुपवनावलिकम्पितचम्पकमालाहिमकणभारम् । तव चरणाङ्गुलिगमित तिरस्कृतिरिव सृजतीक्षणनीरम् ॥ ३॥ २७॥ कूजति कोकिलकुलमतिमञ्जुलमधिविपिनं वनदेवैः । वच इव तव परिबोधजनकमभियुक्तं मधुरविरावैः ॥ ४॥ २८॥ भवनबहिः परितिष्ठति वत्से ! तुल्यवयः पुरबालम् । तव रचिताञ्जलिखेलनमिच्छत्युपहृतपुष्करमालम् ॥ २९॥ श्रीजयनारायणभणिताखिलमेनावचनमुदारम् । परिकलयत इह दुर्गा निदिशतु दुर्गभवार्णवपारम् ॥ ६॥ ३०॥ इत्याकर्ण्य गिरं प्रबोधजननीं मायाजनन्याः शुभां विश्वेषां जननी मुखाब्जरुचिभिर्विद्योतयन्ती दिशः । ईषत्काम्यवती सती त्रिजगती चैतन्यरूपा मुहुः स्मृत्वेशं शयनात् समुत्थितवती पायाज्जगत्पार्वती ॥ ३१॥ इति श्रीशङ्करीसङ्गीत् गोत्रोत्थानं नाम प्रथमः पटलः ॥ १॥

द्वितीयः पटलः

ततः समाहृत्य शुभात्मकानि द्रव्याणि रत्नासनसंस्थितां ताम् । पुराङ्गनाभिः सह शैलजाया निर्मज्जयामास यथाभिलाषम् ॥ ३२॥ पद्मालया किञ्च पुलोमजेयं श्रेयःस्तुतिः किञ्च हिमालयस्य । शरीरिणीं तामवलोक्य सर्वा नगादिनो विस्मयमापुरीषत् ॥ ३३॥ नेत्राम्बुभिस्तत्पुरसुन्दरीणां चितं तदन्नं (तदङ्गं ?) क्रमशः पतद्भिः । आक्षेपसूत्रेण विनाऽपि मालामिन्दीवराणां रचितां बिभर्ति ॥ ३४॥ मुक्त्वा हि विद्वेषि सुधाकरस्य सरोरुहं काव्यविदो वदन्ति । मुखेन्दुमालोकयतां हि तस्या जहुर्द्दॄगङ्गानि निमीलनानि ॥ ३५॥ यस्या वैभवलेशमात्रकथने वेदाः परं कुण्ठिता ब्रह्माद्या यदनुग्रहप्रणयिन दौवारिकत्वं गताः । पित्रोः प्राज्यमुपार्जितोग्रतपनात् पूर्णं विघातुं फलं भक्ताधोनतया तया बहुविधा लीलास्ततश्चक्रिरे ॥ ३६॥

॥ गीतं ५ ॥ मध्यमान-ताल रामकेलिरागः

मत्तकरीन्द्रसुमन्दगता दरदोलितसुन्दरवासाः । गायति चामितकण्ठगुणं पिककण्ठविकुण्ठनभाषा ॥ १॥ ३७॥ हिमगिरिराजसुता ललिता नृत्यति नववनितालियुता ॥ ध्रुवम्॥ चञ्चलनूपुरमञ्जुलशिञ्जितगञ्जितहंससमाजा । अञ्जनगञ्जनखञ्जनगवविखर्वणनयनसरोजा ॥ २॥ ३८॥ मन्दगलच्छ्रमवारिलवादरविलुलितललितशरीरा । प्रातरिवानिलकम्पितकल्पलतापरिगलिततुषारा ॥ ३॥ ३९॥ चारुसखीगणमध्यगता रुचिरोचितभुवनविताना । तारापटलविमण्डलिता शशिलेखा हर्षविधाना ॥ ४॥ ४०॥ वादयते मृदुवेणुवरञ्जननी विनिहितनवनीतम् । अत्ति ददाति सखीवदनाब्जे चार्द्धमधुररसपूतम् ॥ ५॥ ४१॥ वर्णीतमेतदुमाचरितं ललितं सततं परिपूतम् । श्रीजयनारायणकविना कुरुतामति जगतामतिशातम् ॥ ६॥ ४२॥ तां दृष्ट्वा हृष्टचेता हिमगिरिवनिता जन्मजन्मार्जितानां पुण्यानां पूर्णमाप्तं फलमिव सहसा नेत्रवारां वहन्तीम् । नृत्यन्तीं प्राङ्गणान्ते स्मितरुचिरुचिरां पद्मजाद्यैरवेद्यां प्रोच्चैः प्रोवाच वाचोऽचलकुलतिलकं पूर्णकामा हिमाद्रिम् ॥ ४३॥

॥ गीतं ६ ॥ होटचौताल खट(षड्)रागः

ताण्डवलोलसुलोहितकिरणपदाम्बुजविरचितभूषम् । उदयशिखरितटमिव नवसमुदितदिनपतिविततविलासम् ॥ १॥ ४४॥ पश्य ममाङ्गनमुमया शोभितमचल ! विचित्रमिदम् ॥। ध्रुवम्॥ चारुचरणविनिवेशनलाञ्छनलाञ्छितमध्यविभागम् । अविरलविकसितनिर्मलशतदलचितमिव शरदि तडागम् ॥ २॥ ४५॥ काञ्चनपीतमयूखविकाशिततनुलतया समुपेतम् । अम्बरमिव रुचिरं परिखेलितसुस्थिरचपलाजातम् ॥ ३॥ ४६॥ स्फुरदभिराममरीचिचयाननमण्डलया कृतचारम् । शशधरलेखावयवदिवापि मनोहरविहितविहारम् ॥ ४॥ ४७॥ श्रीजयनारायणकविना परिवर्णितमेतदुदारम् । सततं श्रवणपुटेन निपीतं सुखयतु कोविदवारम् ॥ ५॥ ४८॥ संसारार्णवपारसेतुरखिलानन्दैककेलिस्थली खेदच्छेदिसमस्ततीर्थनिलयो मोक्षस्य मुख्यायनम् । सर्वाभीष्टफलैकसंवितरणश्रीकल्पभूमीरुहः श्रीदुर्गाचरणारविन्दमखिलं पायात् जगत्सन्ततम् ॥ ४९॥ इति श्रीशङ्करीसङ्गीत् बाल्यलीलावर्णनं नाम द्वितीयः पटलः ॥ २॥

तृतीयः पटलः

विलोक्य तस्या भुवनाद्भुतानि मुदान्वितो बाल्यविचेष्टितानि । अनाप्तवल्लोचनयुग्मतृप्तिं जगाद मेनामथ शैलराजः ॥ ५०॥

॥ गीतं ७ ॥ मध्यमान-ताल श्रीरागः

वादयामि मृदुमधुरमृदङ्गं त्वमपि कलय करतालविभङ्गम् ॥ १॥ ५१॥ अयि कृतसुकृतचये गौरीं पुनरपि नर्त्तय सफलय मम नयने ॥ ध्रुवम्॥ जन्मसु बहुषु तपः कति तप्तं तस्य मया फलमिदमभिप्राप्तम् ॥ २॥ ५२॥ कोटिकोटिकुलमजनि पवित्रं कामदुघं मम सबलचरित्रम् ॥ ३॥ ५३॥ तोषितविप्रगणाशीर्गदितं नूनमिदानीं तन्मम फलितम् ॥ ४॥ ५४॥ धरणितले न कृतं कति सुकृतं चरणस्पर्शनसुखमनुभूतम् ॥ ५॥ ५५॥ श्रीजयनारायणकृतगीतं भक्तजनं कुरुतामतिप्रोतम् ॥ ६॥ ५६॥ इति जनकजनन्योर्वाञ्छितं पूरयन्तां मदनमथनजाया मायया मोहयन्ती । त्रिभुवनमनिशं सा दोहिनी ब्रह्मरूपा हिमवति कति कालान् पर्वते सन्निनाय ॥ ५७॥ तस्याः समीपे किल नारदोऽथ वाराणसीनाथनिदेशवर्ती । अभ्याययौ प्रीतमना महर्षिर्गायंस्तदीयं चरितं महत्या ॥ ५८॥ कृताञ्जलिर्भक्तिनतोत्तमाङ्गः स बाष्पधारापरिवाहिनेत्रः । तुष्टाव तां हृष्टमना गविष्ठं स्पष्टार्थवाग्भिर्वदतां वरिष्ठः ॥ ५९॥

॥ गीतं ८ ॥ चौताल आशातुयारीरागः

अव्ययमेकमनन्तविभवमपि परमं ज्योतिरसि त्वम् । स्फटिकमणेरिव गुणसंयोगात् तव जगदम्ब ! बहुत्वम् ॥ १॥ ६०॥ करुणामयि मयि करुणा भवतु भवानि भवार्णवभीते ! तव चरणशरणविभवे ! ॥ ध्रुवम्॥ त्वं प्रकृतिः पुरुषोऽसि च काले सृजसि(से) रक्षसि संहरसि । विश्वमशेषमनिशमभिभजतां मुक्तिपदं विदधासि ॥ २॥ ६१॥ विधिहरिगिरिशमुखा विबुधास्तव जातास्तनुरुहकूपात् । क्रमश इमे त्रिजगन्मयरूपे दीपालय इव दीपात् ॥ ३॥ ६२॥ सुकृतवतां सुकृतं जननी त्वं यागवतामसि यागः । तत्त्ववतामसि परमं तत्त्वं रागवतामसि रागः ॥ ४॥ ६३॥ ध्यायति सकृदपि हृदि यस्तव पदपल्लवमविदितसीमम् । गोष्पदमिव भवसागरमाशु स तारिणि! सन्तरतीमम् ॥ ५॥ ६४॥ तव नामसुधां निपीयति यः सकृदपि त्रिभुवनमातः । स पुनर्न च जननीजठरोद्भवदुःखचयाननुयातः ॥ ६॥ ६५॥ श्रीजयनारायणकविवर्णितमेतदतीव विचित्रम् । श‍ृणुत बुधा यदि वो गिरिजाया नन्दयते सुचरित्रम् ॥ ७॥ ६६॥ तस्याकलय्य वचनं मुनिपुङ्गवस्य भक्तिप्रयुक्तमथ भक्तजनानुरक्ता । साऽऽविर्बभूव पुरतश्च शुभप्रसङ्गै- रानुग्रहीतुमखिलान्तरभावविज्ञा ॥ ६७॥ साष्टाङ्गपातं प्रणिपत्य पत्युरादिष्टमाचष्ट च सन्निकृष्टम् । प्रस्थातुमस्यै स तथेति साऽपि स्वोकृत्य तत्तत्र तिरोबभूव ॥ ६८॥ या ब्रह्माण्डमशेषमीश्वरहृषीकेशप्रजेशादिकान् प्रासूय क्रमशो नियोजितवती स्वस्वाधिकारेऽनिशम् । सा दुर्गाऽखिल(लोक)दुर्गतिहरा स्वर्गापवर्गप्रदा नित्या नित्यमनित्यवैभवभवाद्युष्मन्मनः कर्षतु ॥ ६९॥ इति श्रीशङ्करीसङ्गीत् नारदसमागमो नाम तृतीयः पटलः ॥ ३॥

चतुर्थः पटलः

भर्तुनिदेशात् कृतनिश्चयां तां वाराणसी गन्तुमथाद्रिजाया । वाष्पप्ररोहावलिरुद्धकण्ठा प्रोवाच चेष्टाभवलोलनेत्रा ॥ ७०॥

॥ गीतं ९ ॥ रूपकताल तुडीरागः

वचननिमीलनजनितं विरहं नैव पुरा तव सुमुखि सहेऽहम् ॥ १॥ ७१॥ अयि वत्से ! जीवामि कथं तव विरहे ॥ ध्रवम् ॥ मुखशशिसृतममृतं मातेति क्व नु मे श्रवणचकोरी पिबति ॥ २॥ ७२॥ तव वदनाम्वुजमधुवलदङ्गः जीवति किं मम लोचनभृङ्गः ॥ ३॥ ७३॥ कैरपराधैर्मामतिदीनां परिहर जननि ! श्रवणविहीनाम् ॥ ४॥ ७४॥ तव विरहानलविकलितपौराः सम्प्रति मुक्तभवनपरिचाराः ॥ ५॥ ७५॥ कलयति हंसकुलं बिसकवलं न च शिखिकुलमपि नृत्यति विकलम् ॥ ६॥ ७६॥ शिशुकुलमधुना मातुरुरोजं पिबति न मलिनितवदनसरोजम् ॥ ७॥ ७७॥ कोऽपि न सहजविषयमाचरति चित्रितमिव पुरमिदमाभाति ॥ ८॥ ७८॥ श्रीजयनारायणकविभणितिर्बुधहृदि विहरतु मृदुपदविततिः ॥ ९॥ ७९॥ वरमहो विरहाग्निरहर्निशं दहतु शैलसुते त्वदृते भृशम् । इदमसह्यमतीव च कोऽपि मां न हि जगज्जननी जननीं वदेत् ॥ ८०॥ बहुजन्मार्जितैः पुण्यपण्यैः क्रीतमिदं धनम् । दुर्वारकर्मचौरेण हा हन्ताऽपहृतं क्षणात् ॥ ८१॥ शैलाङ्गनामित्यनुशोशुचानां विवेकहीनां प्रसमीक्ष्य दीनाम् । विघ्नेशमाता करुणार्द्रचेताः प्रशान्तयामास सुशान्तवादैः ॥ ८२॥

॥ गीतं १० ॥ तेयोटताल काफिरागः

तनयविभवादिविषय नियतनश्वरं विद्धि जलफेनमिव भज सन्ततमीश्वरम् ॥ १॥ ८३॥ जननि विचिन्तय तत्त्वं भावय भावमनित्यम् ॥ ध्रुवम्॥ विश्वमतिमोहमिदमेति मम मायया मां स्मरत्विह तु हृदि शान्तिमेति किं तया ॥ २॥ ८४॥ यावदुदयति न हृदि तत्त्वमयभास्वरः तावदभिभवति जगदविद्यान्धकारः ॥ ३॥ ८५॥ अम्ब ! मयि भक्तिकरवालखरधारया छिन्धि ममताविषमनिगडमतिहेलया ॥ ४॥ ८६॥ आत्मनि निवर्त्तय च चित्तमतिभास्वरे मज्ज सततं परमनित्य सुखसागरे ॥ ५॥ ८७॥ शिष्टगणमानस-सुतोषमशेषेण भणितमिदमावहतु जयनारायणेन ॥ ६॥ ८८॥ इत्थं मनः पर्वतराजपत्न्या निजित्य मायामलमत्स्यभावम् । शान्तोपदेशेन समापदस्याश्चन्द्रोदयेनेव नभं तमिस्रम् ॥ ८९॥ स्वन्ते सन्ततमस्तु वः समुदितं बालारुणश्रीयुतं देव्या भव्यपदं पदं तदमलं विभ्राजमानं परम् । यन्मुक्ताफलजालनिर्मलतरे वक्षःस्थले शूलिनः शोणाङ्का समलज्जयद्विकसितं क्षीरोदनीरोदरे ॥ ९०॥ इति श्रीशङ्करीसङ्गीत् मेनाविलापो नाम चतुर्थः पटलः ॥ ४॥

पञ्चमः पटलः

अत्रान्तरे निजकुलाचरणैकविज्ञाः प्रेमातिरेकपुलकाञ्चितचारुगात्राः । तां तत्र पौरवनिता अभितः समेता नानाविधं शुभसमाचरणं प्रचक्रुः ॥ ९१॥

॥ गीतं ११ ॥ हेट-चौताल पूरवीरागः

शङ्खनिनदपरिपूरितगगना मुहुरभिनर्त्तितनवशिखिनटना ॥ १॥ ९२॥ काऽपि युवतिवरा शिव शिव शिव इति गानपरा ॥ ध्रुवम्॥ विकिरति काऽपि च मङ्गललाजान् नवलतिकेव सुकुसुमसमाजान् ॥ २॥ ९३॥ काऽपि च धेनुगणानपसव्ये न्यस्यति पूर्णकलशमपि सव्ये ॥ ३॥ ९४॥ काऽपि च विप्रपदाम्बुजरजसा विकिरति मन्त्रं तस्याः सहसा ॥ ४॥ ९४॥ तामभिषिञ्चति काऽपि च सलिलैः तीर्थभवैरतिशीतलविमलैः ॥ ५॥ ९६॥ नीलनिचोल(ल)ता वासयते घनवलयिततडितं ह्रेषयते ॥ ६॥ ९७॥ शशधरधरसुरजननिर्माल्यं तस्याः शिरसि दधाति च माल्यम् ॥ ७॥ ९८॥ श्रीजयनारायणभणितानि दधतु त्रिभुवनतोषमिमानि ॥ ८॥ ९९॥ अतः परं दुष्करमम्बुजाक्ष्या मयैव वै पथ्यविधानमस्याः । इतीव चित्ते विनिधाय राज्ञी यथेप्सितं सा विदधे ततस्तत् ॥ १००॥

॥ गीतं १२ ॥ मूलताल - गौरीरागः

जितनवतपने मृदुतरचरणे तलरुचिचयनिर्जितम् । गतमिव शरणं यावकभरणं रचयति लघुराजितम् ॥ १॥ १०१॥ कुरुते हिमगिरिवनिता सुतां विविधभूषणभूषिताम् ॥ ध्रुवम्॥ सुविमलसुघने वितुलनजघने सा रसनमतिपीने । स्मरति सुमनसो विकिरति बहुशो दृढगुणमिव बन्धने ॥ २॥ १०२॥ विशदमुदारं वक्षसि हारं घटयति कनकामले । निन्दिततारं गङ्गासारं परमिव विबुधाचले ॥ ३॥ १०३॥ रक्तकरतलं मृदुभुजयुगलं ततमरकतकङ्कणम् । जलदवलयितं दिनकृतमुदितं रचयत इव नूतनम् ॥ ४॥ १०४॥ स्फुरति विशाले विलिखति भाले सुरुचिररुचिशोभने । सुललिततिलकं मृगमदकृतकं मृगमिव मृगलाञ्छने ॥ ५॥ १०५॥ जितघनमाले कुन्तलजाले विकलितमृगचामरे । विकिरति विमलां चम्पकमालां तडितमिव घनोदरे ॥ ६॥ १०६॥ इदमतिरुचिरं कथयति सुचिरं कुरु पदयुगचारणे । करुणां तारिणि ! विपदभिवारिणि कविजयनारायणे ॥ ७॥ १०७॥ वत्से ! भर्तृकृतं कुलप्रददया स्यादप्रियं वा प्रियं श्रेयः सम्मतया सुमर्षणमविस्मर्त्तव्यमेतच्चिरम् । भर्तारं वशमानयामरवरं गङ्गाधरं सादरं मेनेत्युक्तवती विहाय तनयां मेने हृतं जीवितम् ॥ १॥ १०८॥ नित्या सर्वगता द्वितीयरहिताऽप्याकारसावर्जिता सावित्रीति रमेति कल्पिततनू राधेति वाणीति च । माता चेति गणेशितुः श्रुतिचयैर्या स्तूयतेऽनेकधा तां सृष्टिस्थितिसंहृतिप्रणयिनी दुर्गा भजध्वं जनाः ॥ २॥ १०९॥ इति श्रीशङ्करीसङ्गीत् काशीप्रस्थानं नाम पञ्चमः पटलः ॥ ५॥

षष्ठः पटलः

ततो मृगेन्द्रं विजयाजयाभ्यामारुह्य काशीनगरीमुदारम् । उपागमत् सान्ततवर्त्मखेदा गङ्गाम्बुजारण्यजमन्दवातैः ॥ ११०॥

॥ गीतं १३ ॥ तोयाटताल वसन्तरागः

भ्रमरकदम्बविचुम्बितमल्लीवल्लीरचितनिकुञ्जम् । रमणीमण्डलमानविखण्डनपण्डितपरभृतगुञ्जम् ॥ १॥ १११॥ विलसति विरहितजनकृततापं मधुसमये हरनगरवनम् । परमुन्मदमिथुनकपालम् ॥ ध्रुवम्॥ मनसिजनृपतिच्छत्रसदृशनवविकसितसितशतपत्रम् । सुमधुरनिनदपतगवरमागधविपठितमदनचरित्रम् ॥ २॥ ११२॥ मारुतचालितचामररुचिरशिरीषकुसुमसुविकाशम् । चित्रितविमलध्वजरवसुन्दरकेशरनिकरविलासम् ॥ ३॥ ११३॥ शरदुपशीलनशीतपवनदरकम्पितविकसितबकुलम् । युवजनभेदनलोहितप्रक्षितशरनिभकिंशुकमुकुलम् ॥ ४॥ ११४॥ पुष्पितसुललितनवमल्लीपरिरम्भिततरुणतमालम् । स्तबकपयोधरनम्रमनोहरनवकाशोकसुमालम् ॥ ५॥ ११५॥ कुड्मलपुलकितचूतविलोकनमाधविकाकृतहासम् । पथिकहृदयतटपाटनपटुतरकेतकगणकर्णाशम् ॥ ६॥ ११६॥ अभिहितमेतज्जयनारायणकविना परमरहस्यम् । कुरुतां मुदितं परमविरामं बुधगणहृदयमवश्यम् ॥ ७॥ ११७॥ तास्ता दृष्ट्वा दुरा(पा)दमरपुरतो दुर्लभतरे पुरे वाराणस्यामुपवनगतं मन्मथरिपुम् । उवाचेदं कापि प्रियतमसखी शैलतनयां स्मितज्योत्स्नाजालस्नपितविलसद्दन्तवसना ॥ ११८॥

॥ गीतं १४ ॥ खवेराबादी ईमनरागः

इह सततमन्तसमये निखिलदेहिनां श्रवणपुटकेषु भवतारम् । नाम तव तत्त्वमयमादधतमुत्तमं विकसदभिनवपुलकभारम् ॥ १॥ ११९॥ शिवे रम्यरूपे रूपय पुरान्तकमुदारं तव विरहसम्भरं सखि नयनकैतवं दधतमिव दहनमनिवारम् ॥ ध्रुवम्॥ तव वदनरुचिररुचिनिचयपरिचोरकं चन्द्रमपि तापसुनिदानम् । धरणिधरकुलतिलक पुत्रि विनिविभ्रत स्वीयशिरसि च निरवसानम् ॥ २॥ १२०॥ श्रवणतटसीम सञ्चारिचललोचने लोचयितुमिव नयनसाम्यम् । तव विमलपाणिकमले च मृगशावकं सम्प्रति वहन्तमतिकाम्यम् ॥ ३॥ १२१॥ सजलघनकिरणचयनिन्दिनववेषिकाभ्रमत इव ते सदनुरागम् । स्वहृदि भृशदिस्तृते मणिनिकरकोचिते दधानमयि वासुकिनागम् ॥ ४॥ १२२॥ त्वामृते विकलमिदमामनति काशीनगरममरसुदुरापम् । त्वमिममधुनाऽर्हसि स्वजनमनुरागिणं कर्तुमनुकपरितापम् ॥ ५॥ १२३॥ इदमवलराजतनयलिजनभावितं भक्तजनमानसविहारम् । श‍ृणुत जयपूर्वनारायणादिवर्णितं सन्त इह दोषपरिहारम् ॥ ६॥ १२४॥ सम्फुल्लचम्पकदलामलगौरगात्री कुन्दालिनिन्दिरुचिना गिरिशेन पौरी । रेजे ततः समुपगत्य तदासनार्द्धं वर्षात्यये जलधरेण तडिल्लतेव ॥ १२५॥ अन्योन्यप्रतिबिम्बितं सुविमलानन्यासनासीनयो- र्यत्सम्मार्जितरत्ननिर्मितनवादशभिरामच्छवि । पित्रोर्विश्वजनस्य रूपमनघं गाढानुरागात् स्फुटा- मन्योन्यान्तरगामितामिव सदा कुर्वज्जगत् पातु तत् ॥ २॥ १२६॥ इति श्रीशङ्करीसङ्गीत् वसन्तवर्णनं नाम षष्ठः पटलः ॥ ६॥

सप्तमः पटलः

अथ सान्द्रतरानन्दसमुज्झिततनूरुहः । जगाद पार्वतीं शम्भुः प्रेम्णा मधुरया गिरा ॥ १२७॥

॥ गीतं १५ ॥ मूलतान कानोडारागः

सन्निधिमेत्य तवाऽहं गुणमयि सकलं कर्म चरामि । प्राणमयि त्वद्विरहित इव मृतवद्गहनमपि न भजामि ॥ १॥ १२८॥ विमले मम देहे जीवनमधुना जातम् ॥ ध्रुवम्॥ श्रुतिरसि मतिर्दृष्टिरसि त्वं प्रेयसि मम रसनाऽसि । पुष्टिस्तुष्टिरथापि भूषा स्मृतिरसि गन्धवहाऽसि ॥ २॥ १२९॥ विकलितसुरकुलविषमगरलचयपाने या तु भवानि । मम जगतीजनमोहननिपुणा शक्तिः सा त्वममानि ॥ ३॥ १३०॥ तव विरहजनितमतुलं सुन्दरि दुःखं यदनुभवामि । सुखमपि दर्शनजं तत् किञ्चन पञ्चमुखः कथयामि ॥ ४॥ १३१॥ काशी धन्या कृतकतिपुण्या त्रिदशनगरसुदुरापम् । यदियमुपेति तवातुलपदकमलाङ्कितमपहतपापम् ॥ ५॥ १३२॥ श्रीजयनारायणकविकथितं काव्यमिदं तु न कस्य । परमां सम्पल्लहरीं चेतसि जनयति जगति जनस्य ॥ ६॥१३३॥ इति ब्रुवन्तं निजवल्लभं ततः समुल्लसत्प्रेमरसार्द्रचेतसम् । श्रुतिप्रमोदप्रतिपत्तिपेशला जगाद गौरी मधुराक्षरा गिरः ॥ १३४॥

॥ गीतं १६ ॥ तेयोटतालः खामाजरागः

विरहकृशां तव मुखशशिदर्शनतोषविफुल्लकलेवराम् । जलधरजलधारापल्लवितां लतामिव भगविकलतराम् ॥ १॥ १३५॥ जानीहि मामिदानीमधिगतसकलमनोरथाम् ॥ ध्रुवम्॥ त्वामधिगम्य परमसुखसागरमग्नां चिरमभियाचितम् । दुर्गतिनीमिव निधिचयवर्षणमम्बरतः सहसागतम् ॥ २॥ १३६॥ जीवननाथ ! विना भवताऽसून् क्षणमपि धर्तुमशक्ताम् । चन्दनतिलकामितमलयाख्यक गिरिणानन्यसुरक्ताम् ॥ ३॥ १३७॥ ध्यानवशादधिगम्य भवन्तं कथमपि रक्षितजीवनाम् । प्रागिव वर्षासमयाज्जलदं पिपासितचातकाङ्गनाम् ॥ ४॥ १३८॥ क्षीणतरां त्वामधुनाऽवाप्य प्रतिसमयागतशान्तिम् । शशधरलेखामिव तिथिभेदं दधतीमभिनवकान्तिम् ॥ ५॥ १३९॥ श्रीजयनारायणकविकृतमिति गीतं श्रुतिसुखकारणम् । शैलसुताचरणचारणानां निदिशतु भवतो वारणम् ॥ ६॥ १४०॥ देवानां प्रणिपातनम्रशिरसां निर्भीतिसम्भाषणं भक्तानां च परेतराज विजयेष्वाज्ञापनं वैरिणाम् । स्तम्भक्षोभणमोहनप्रमथने संसिद्धमन्त्रोपमं पायाद्वो युधि वृत्तनृत्यगिरिजामञ्जीरसंशिञ्जितम् ॥ १४१॥ इति श्रीशङ्करीसङ्गीत् शिवसम्भाषणं नाम सप्तमः पटलः ॥ ७॥

अष्टमः पटलः

पत्युः कदाचिदथ सा रहसि स्थितस्य सम्प्रार्थितस्य गुरुहर्षसमृद्धचेताः । आज्ञामवाप्य किल योगिगणावकीर्ण- मेकाम्रनामविपिनं तरसा प्रतस्थे ॥ १४२॥ ततो धृताऽऽभीरसुतासुवेशा (षा) निजप्रभाजालविकाशिताशा । अलञ्चकारेश्वरपालितं तद् वनं प्रसूनैः परिपूरितं सा ॥ १४३॥

॥ गीतं १७ ॥ तेयोटताल धानश्रीरागः

मृदुलसमीरणशीतलसुललितनीपतले कृतचारा । शिवगुणकीर्तनपरमामोदनविगलितलोचनधारा ॥ १॥॥ १४४॥ विहरति विपिनेऽखिलभुवनेशा धृतवल्लवतनयावेशा ॥ ध्रुवम्॥ दोहनपात्रकवेत्रकवेणुविशोभितकरशतपत्रा! नीलनवीननिचोलवरा हरिचन्दनचर्चितगात्रा ॥ २॥ १४५॥ अभिनवकुसुमविनिर्मितमालावलयितकबरीभारा । निन्दितमुक्ताफलगणलम्बितमल्लीकुड्मलहारा ॥ ३॥ १४६॥ अधरितनूतनपदारागरुचिविलसदशोकवतंसा । तत्प्रतिविम्बविचिह्नितचारुद्युतिभरसंवहदंशा ॥ ४॥ १४७॥ परिणतविम्बविडम्बितदशनच्छदगतसुविशदहास्या । हीरकखचितसुविद्रुमरचितवराटककनकमलास्या ॥ ५॥ १४८॥ सार्द्रालक्तकसुचरणविहरणसुरुचिरचिह्नचयेन । निचितं स्थलमिव तज्जनयन्ती लोहिततामरसेन ॥ ६॥ १४९॥ अभिनवविसवलयावलिभूषितबाहुयुगामृतभाषा । खगपतिचञ्चुकीर्तिनिवर्त्तनचत्वरमनोहरनासा ॥ ७॥ १५०॥ श्रीजयनारायणकविभाषितमिति नवरूपमुमायाः । ध्यायत भक्तजनाः सततं हृदि पापचयापहरायाः ॥ ८॥ १५१॥ तत्रोदञ्चन्मृदुमधुरवैर्वारिताशेषविश्व- स्वान्तस्थैर्य्यं नवनवलसद्रागसार्थं ततः सा । पीयूषोद्भावयत उदधेर्मानविम्लानबीजं वक्त्राम्भोजे प्रसृतपवनैः पूरयामास वेणुम् ॥ १५२॥ माधुर्यैरवधोरितामृतरसं तं वेणुनादं मुहुः श्रुत्वा कर्णयुगं निहन्ति पशवो व्यस्तास्ततो मानवाः । धातारं श्रवणद्वयं विदधतं निन्दन्ति वाञ्छन्ति च व्यालो नेत्रसहस्रतां च चकमे चक्षुःश्रवस्त्वं वृषा ॥ १५३॥ जगन्मातुर्लीलारसभरसनालोलमनसो मनोवृत्तिं ज्ञात्वा सुरभिरथ पातालपुरतः । पदं द्रष्टुं ध्यातुं विधिहरिहराद्यैः सुरगणै- रुपागच्छत्तत्र स्वगणनिचयैः सम्परिवृता ॥ १५४॥ सा गोपतनयारूपधरां विश्वसवस्थलीम् । नत्वा जगाद तामेतत् प्रेम्णोत्फुल्लकलेवरा ॥ १५५॥

॥ गीतं १८ ॥ सूरफाकताल चिडिरागः

निन्दितनूतनमिहिरविकाशे भक्तहृदयतटतिमिरविनाशे ॥ १॥ १५६॥ शैलसुते मम नतिरास्तां तव चरणे ॥ ध्रुवम्॥ किल्बिषदहनहुताशनजाते तापविनाशामृतसम्पाते ॥ २॥ १५७॥ नतसुरपतिमुकुटासितमणिना तुलयति कमलं चुम्बितमलिना ॥ ३॥ १५८॥ वाञ्छाधिकफलविच(त)रणचतुरे अमरमहीरुहमानं छिदुरे ॥ ४॥ १५९॥ घोरभवार्णवतारणतरणौ त्रिभुवननिःश्रैयसैकमरणौ ॥ ५॥ १६०॥ विदधति शङ्करवक्षसि परमां पद्मरागमणिवरयुगसुषमाम् ॥ ६॥ १६१॥ लोहितभासिनखरवरनिचिते शोण कमल इव हिमकणललिते ॥ ७॥ १६२॥ जयनारायणभणितं गीतं सुखयतु जगति श्रवणनिपीतम् ॥ ८॥ १६३॥ घोरान्तःकरणाप्रवर्षणतमःस्तोमापसारामल- वर्त्मा लोकमहौषधं त्रिजगतां पङ्कौघसंशोषणः । श्रीदुर्गाचरणारुणः स्फुटजवापुष्पाभिरामद्युति'- र्युष्माकं हृदयाम्बरे समुदितो भूयाद् विपद्वारणः ॥ १६४॥ इति श्रीशङ्करीसङ्गीत् एकाम्रवनगमनं नाम अष्टमः पटलः ॥ ८॥

नवमः पटलः

तत्र सा कति दिनानि लीलया धेनुपालनपरायणा सती । अध्युवास जगदीश्वरी वने सिद्धचारणगणैः समाकुले ॥ १६५॥

॥ गीतं १९ ॥ मध्यमानताल सारङ्गरागः

क्षुधितान्नवतृणकवलैरवति पिपासून् शीतजलेन । आमन्त्रयति विपथमनुयातान् सुमधुरवेणुरवेण ॥ १॥ १६६॥ सा विपिने शिवजाया धेनुगणान् परिचारयति । त्रिभुवनजनमोहनमाया ॥ ध्रुवम्॥ वत्सतरप्रतिविम्बविचिह्नितममलं मृदुलशरीरम् । निहिता विनिवारयति करेण रणद्वलयेन गभीरम् ॥ २॥ १६७॥ सम्मुखगतनिजवत्सतरानपहाय विवृत्य च तुष्टया । लोकयतो मुहुरास्यविधुं सुखयन्ती सकरुणदृष्ट्या ॥ ३॥ १६८॥ मञ्जुलवञ्जुलकिसलयबुद्ध्या कवलयतः पदयुगलम् । लालयते निजकरकमलेन च तेषां वपुरतिमृदुलम् ॥ ४॥ १६९॥ दोहं दोहं विमलपयांसि च तैस्त्रिपुरान्तकलिङ्गम् । अभिषिञ्चति परिफुल्लहृदयनलिना भुवनेश्वरसंज्ञम् ॥ ५॥ १७०॥ श्रीजयनारायणभणितैषा गीतिर्भक्तजनानाम् । हृदयतटं प्रतिवसतु सदा शिवजायागुणमुदितानाम् ॥ ६॥ १७१॥ निःसाराच्चपलेन्द्रजालसदृशाद् भूयिष्ठकष्टाकरात् संसाराद् विनिवृत्य नृत्यपरमप्रीतिप्रदे सम्पदाम् । सर्वासां कुलमन्दिरे त्रिजगतां सारे सुरैर्वाञ्छिते भूयाद् वः सुरसुन्दरीपदयुगाम्भोजे मतिर्निर्मला ॥ १७२॥ इति श्रीशङ्करीसङ्गीत् गोष्ठवर्णनं नाम नवमः पटलः ॥ ९॥

दशमः पटलः

स्नेहेन देहार्द्धहरं हरप्रिया हरं समुद्दिश्य विलोलमानसा । कामप्यसौ दुःखसुखांशभागिनमथाब्रवीदिन्दुमुखीं सखीमिति ॥ १७३॥

॥ गीतं २० ॥ खायारावादीताल हामीररागः

सकलकलापरिपूर्णसुधाकरदर्पदलनमुखकान्तिम् । विकचकमलरुचिलोचनवलनविधूतयुवतिजनशान्तिम् ॥ १॥ १७४॥ त्रिभुवनहृदयानन्दनिधानं स्मरति सदा मम मन ईशानम् ॥ ध्रुवम्॥ अभिनवभवदमृतनिकरमधुरिमगरिमविलोपनभाषम् । परिहृततरुणीमानतिमिर(तति )तरुणाधरगतहासम् ॥ २॥ १७५॥ सुविशदपृष्ठतटावविलम्बिपिशङ्गजटापरिवारम् । स्फटिकशिलोच्चयतटमिव कूटाद् विगलितधातुजधारम् ॥ ३॥ १७६॥ अवधीरितकरिवरकरजानुविलम्बिललितभुजदण्डम् । दशनवसनपरिलसदतिशोणिमनिन्दितविद्रुमखण्डम् ॥ ४॥ १७७॥ अमलस्थलकमलद्युतिचयविनिगञ्जनचरणविकाशम् । सुरतटिनीसलिलोर्म्मिपटलनिभसुवलीत्रितयविलासम् ॥ ५॥ १७८॥ ददतं विततललाटतटोपरि शिशिरकरं समुदारम् । विजयकलितमिव रतिपतिसायकमर्द्धशशाङ्काकारम् ॥ ६॥ १७९॥ भणितमिदं जयनारायणकविना परमेश्वररूपम् । गिरितनयोदितमादिशतु शुभं भक्तिमतामनुरूपम् ॥ ७॥ १८०॥ बाणानपाङ्गलसितानि शरासनं च भ्रूयुग्मकं श्रवणपालिमथास्य मौर्वीम् । कामं विजित्य जयसाधनवस्त्रजातं तस्येव मन्मथरिपुः स्वयमाप्तहारः ॥ १८१॥ प्रौढाङ्गनामृदुलकाङ्गमपाङ्गवह्नि - र्भस्मीकरोति सखि कामरिपोर्न चित्रम् । भस्मीकृतं कुलवधूवधकण्ड्वनङ्ग- मङ्गीकरोति पुनरेव ममेति चित्रम् ॥ १८२॥ त्वया हि काशीनगरीनिवासिनं समानय क्षिप्रमिहेन्दुशेखरम् । इति प्रयुक्ता गिरिजातया तया सखी समेत्य त्रिपुरारिमब्रवीत् ॥ १८३॥

॥ गीतं २१ ॥ मध्यमानताल इम्मनरागः

शिव शिव इति तव नाम सकामं जपति यथेच्छफलदमविरामम् ॥ १॥१८४॥ शङ्करी शङ्कर ! तव विरहे ॥ ध्रुवम्॥ दिक्षु विदिक्षु विलक्षणरूपं (वि)लक्षति त्वां जीवनभूपम् ॥ २॥ १८५॥ स्रस्तं स्रस्तं विषकृतविलयं धवति सखी लङ्घितनिजनिलयम् ॥ ३॥ १८६॥ क्वानुभवामि भवं भवसारं इति पृच्छति परिजनमनुवारम् ॥ ४॥ १८७॥ विलिखति धरणीं नतमुखकमला श्वसितमननमिव विसृजति विकला ॥ ५॥ १८८॥ विरुवति परभृतयूथे विकलं स्वमपि दधाति श्रुतिपुटयुगलम् ॥ ६॥ १८९॥ निन्दति मञ्जुलवञ्जुलकुञ्जं कलयति मलयजमिव विषपुञ्जम् ॥ ७॥ १९०॥ श्रीजयनारायणकविभणितं जगतामपहरतु सकलदुरितम् ॥ ८॥ १९१॥ पीयूषद्युतिरप्यहो विसृजति क्षोभोच्चयं रश्मिभिः प्राणानर्तुमिव प्रसर्पति जगत्प्राणोऽप्यसौ सम्प्रति । तस्या वाडवहेतिकां वितनुते दुर्धर्षणीयां हिमं नास्त्यन्यो भवता विना स्मररिपो प्राणप्रदानप्रभुः ॥ १९२॥ ज्ञानानन्दनरूपिका शिवमनःसन्तोषिका शोषिका पापानामथ पोषिका त्रिजगतामुत्पादिका हारिका । भक्ते मुक्तिविधायिका रिपुकुलप्रोन्माथिका दीपिका या मोहप्रबलान्धकारहरणे सा पातु वश्चण्डिका ॥ १९३॥ इति श्रीशङ्करीसङ्गीत् विरहवर्णनं नाम दशमः पटलः ॥ १०॥

एकादशः पटलः

लीलारसोल्लासितमानसायाः प्राणप्रियाया अथ विश्वनाथः । सखीजनस्याहृतमर्थविज्ञः श्रुत्वा द्रुतं तद्विपिनं जगाम ॥ १९४॥ निवसामि निकुञ्जेऽस्मिन् समानय मम प्रियाम् । इत्युक्ता सा शिवेनाथ गौरीमेत्याब्रवीदिदम् ॥ १९५॥

॥ गीतं २२ ॥ मध्यमानताल आडानारागः

वाति मलयजपवने प्रेमभरालसो ध्यायति तव गमनं विकलितमानसः ॥ १॥ १९६॥ सीदति विरही कुञ्जे सखि ! शशिमौलिः ॥ ध्रुवम्॥ उदयति शिशिरकिरणे तापभरमेति विकसति कुसुमचये स्मरशरतो बिभेति ॥ २॥ १९७॥ स्वनति कोकिलकुले हृदि शल्यमुपेति सुविनदहंसकुलं यमचारमवैति ॥ ३॥ १९८॥ स्वपिति धरणीतले निन्दति कुसुमदाम हृदये विरहविधुरे प्रलपति तव नाम ॥ ४॥ १९९॥ दिशतु करुणामुमा निजपदचरणे कथयति गीतमिदं जयनारायणे ॥ ५॥ २००॥ नान्यद् ध्यायति संश‍ृणोति वदति प्रत्येति पश्यत्यपि त्वद्विच्छेदनखेदकुण्ठकरणग्रामः सदा शङ्करः । मन्ये कुञ्जगृहोदरे सखि ! जपंस्त्वन्नामतत्त्वं मनुं सर्वाभीप्सितदं तपः प्रचरति त्वत्प्राप्तिकामोऽनिशम् ॥ २०१॥

॥ गीतं २३ ॥ तेयोटताल विहागडारागः

मृदुलसमीरे कुञ्जकुटीरे युवतिविमोहनवेशम् । अधिगतमिन्दुविमलमुखि ! सत्वरमनुचर तं परमेशम् ॥ १॥ २०२॥ विकसितकुसुमे राजति विपिने चिन्तितश्रीभुवनेशः ॥ ध्रुवम्॥ त्वदुपगमनपरमाकुलहृदयो दिशि दिशि विकिरति नेत्रम् । दिग्वनिताजनललितवतंसनमिव विकसितशतपत्रम् ॥ २॥ २०३॥ कुञ्जं प्रविशति मुहुरपि विचरति बहिरतिचञ्चलनयनः । ध्वनति समदने मधुकरमिथुने शङ्कितनूपूररवणः ॥ ३॥ २०४॥ चिरविरहैरतितापितमानसमर्हसि रक्षितुमेतम् । सखि ! निजवल्लभमशरणमनुगतमुपसर कुञ्जनिकेतम् ॥ ४॥ २०५॥ श्रीजयनारायण इति गीतं भणति सतामभिरामम् । हिमगिरितनया दुःखितसदया शमयतु भवमविरामम् ॥ ५॥ २०६॥ ततः प्रियाप्रेमरसानुरागिरणी चिरादवालोकनमुग्धलोचना । प्रफुल्लपुष्पं भ्रमरालिगुञ्जितं जगाम कुञ्जं गजमञ्जुगामिनी ॥ २०७॥

॥ गीतं २४ ॥ तोयाटताल जयजयन्तीरागः

शिव जय शिव जय भाषणशीला गमनतिरस्कृतकुञ्जरलीला ॥ १॥ २०८॥ प्रविशति भुवनत्रयजननी सा शिवयुतकुज प्रेमवशा ॥ ध्रुवम्॥ निजकरविधृतसखीकरकमला किरणचयैरवधीरितचपला ॥ २॥ २०९॥ मुखशशधरनलिनामृतहासा दलितहराक्षिचकोरपिपासा ॥ ३॥ २१०॥ मुखमारुतसुरभितसकलाशा वारितमधुकरकमलप्रिया सा ॥ ४॥ २११॥ जयनारायण इदमभिभणति तारा करुणां कुरुतां नमति ॥ ५॥ २१२॥ या बुद्धिः प्रतिभा दया हृतभया माया च मेधा सुधा तुष्टिः पुष्टिरपि क्षमा च विकृतिः शान्तिश्च कान्तिस्तृषा । भुक्तिर्मुक्तिरथोक्तिराकृतिरपि श्रद्धा च विद्या त्रपा निद्रा सर्वशरीरिणामवतु सा विश्वं सदा शङ्करी ॥ २१३॥ इति श्रीशङ्करीसङ्गीत् दूतीसंवादो नाम एकादशः पटलः ॥ ११॥

द्वादशः पटलः

अत्रान्तरे तत्र पवित्रवेशा शिवेन सार्द्धं गिरिराजपुत्री । विश्वत्रयामोदनमादधानां प्रकाशयामास च रासलीलाम् ॥ २१४॥

॥ गीतं २५ ॥ तेयाटताल केदाररागः

विलुलितवेणी शोभितरत्ना यया जितसुशिखिशिखण्डः । तप्तकनकरुचिरोचितया रुचिनिन्दितहीरकखण्डः ॥ १॥ २१५॥ विराजति रासमण्डले शिवया शिव एकाम्रवने ॥ ध्रुवम्॥ अलकललितमुखमण्डलया मणिकुण्डलमण्डितगण्डः । कङ्कणराजितभुजलतया मणिचयराजितभुजदण्डः ॥ २॥ २१६॥ चञ्चलचारुदृगञ्चलया विकचेन्दीवरनेत्रः । सुविशदहारविभूषितया वनमालावलयितगात्रः ॥ ३॥ २१७॥ नीलनवीनाम्बरधरया नवपीतनिचोलवसानः । करतालविलोलकराम्बुजया स्वरपूरितसुललितगानः ॥ ४॥ २१८॥ त्रिभुवनपित्रो रूपमिदं सुरनिकरैश्चिरमभिलषितम् । श्रीजयनारायणकविना परिचिन्तय हृदये भणितम् ॥ ५॥ २१९॥ अष्टाभिर्मिथुनैः सुचारुचरितं तत्तत्स्वदेहोद्भवै- स्तत्तद् रूपमनोहरैरनुपमं श्रीराससम्मण्डलम् । तत्तद्वेश(ष)धरौ त्रिलोकपितरौ लोलोल्लसन्मानसौ श्रीदुर्गागिरिशौ तदन्तरगतौ संशोभयाञ्चक्रतुः ॥ २२०॥ ततो बहुविधे तत्र रासलीलामहोत्सवे । पार्वत्या परमप्रीत्या जगदे जगतीश्वरः ॥ २२१॥

॥ गीतं २६ ॥ मध्यमानताल रागपरजः

जगदनुरञ्जनमनुपममलिकं भूषय मृगमदतिलकेन । शारदमतिरुचिरं परिमिलितं त्वं शशधरमिव शशकेन ॥ १॥ २२२॥ शशिशेखर ! कुरु कृपया मामभिनिचितां भूषया ॥ ध्रुवम्॥ विरचय गण्डयुगं मम परिहर सुललितमृगमदपत्रकम् । उपरि विलसितमधुव्रतनिकरं विकसितमिव शतपत्रकम् ॥ २॥ २२३॥ जनय चिकुरनिचयं कमलेक्षणनिचितं कुरुबकमालया । स्फुरदतिनीलकिरणमिव नीरदमभिनवस्थिरचञ्चलया ॥ ३॥ २२४॥ अनुरञ्जय मम जीवननाथ ! विलोचनमञ्जनलेखया । कमलोदरपरिखेलितखञ्जनमपलज्जय हेलया ॥ ४॥ २२५॥ कटितटमीश ! विधेहि मनोहररसनापरिवलयितम् । उरसि समर्पय निर्मलहारं कुरु करमपि कटकाचितम् ॥ ५॥ २२६॥ वर्णितमिति जयनारायणकविना विदधातु भुवनानाम् । कलुषविषमविषनाशनमनिशं कलिविषधरकवलितानाम् ॥ ६॥ २२७॥ ततो भूधरराजस्य सुतया प्रार्थितो यथा । प्रोल्लसत्परमप्रीतिः शङ्करोऽपि तथाऽकरोत् ॥ २२८॥ विद्याधरीकिन्नरसुन्दरीणां गणो गुणग्रामवदग्रगण्यः । शुश्रूषयाऽतोषयदाशु तत्र सुखासनस्थावथ दम्पती(तौ) ॥ २२९॥

॥ गीतं २७ ॥ तेयोटताल खामाजरागः

काऽपि च तावनुचालयते मृदुचामरमतिशयगौरम् । आतपवारणमुपरि दधाति च काञ्चन शशिकरचौरम् ॥ १॥ २३०॥ गायति सुललितगानं काचन पूरितपञ्चममधुरिम- खण्डितपिककुलगानम् ॥ ध्रुवम्॥ चन्दनकुङ्कुमपङ्कचयैरनुलिम्पति काऽपि तदङ्गम् । उरसि दधाति तयोरथ काऽपि कुसुमगुणमलिकृतसङ्गम् ॥ २॥ २३१॥ वादयते बहुविधमपि वाद्यं काचन कर्णविनोदम् । नृत्यति कापि च शिल्पविशेषविवर्द्धितमानसमोदम् ॥ ३॥ २३२॥ भाषितमिति जयनारायणकविना कलयत शुभगानम् । भक्तजनाः सततं कविनरपतिमानसतोषनिदानम् ॥ ४॥ २३३॥ अत्रान्तरे तद्विपिनप्रवासिनस्तपोधना लोचनवारिवर्षिणः । स्वभक्तिभावेन तनूरुहाञ्चिता बभाषिरे तौ जगदीश्वराविति ॥ २३४॥

॥ गीतं २८ ॥ तेयोटताल मालकोषरागः

त्रिभुवनदैन्यविनाशे सततं सकरुणचित्तौ मोहमहार्णवपतितान् दीनान् शरणविहीनान् । पापवारणवारणे घोराङ्कुशपदकमलौ पापिजनाग्रविग्रान् विपथगकरणाधीनान् ॥ १॥ २३५॥ तारयतं भवसिन्धौ वारयतं कलिकलुषात् । कुरुतं पितरौ कृपया विषयरसे विरतान्नः ॥ ध्रुवम्॥ नानापथविकलानां जगतीनां च भवन्तौ सदयनमुपदेष्टारौ श्रुतमिदमागममुक्तम् । तत् किं नो दिशतोऽस्मान् प्रति कापथमनुयातान् । कल्मषकण्टकदलितान् मृषयत इति तदयुक्तम् ॥ २॥ २३६॥ काचन गतिरिह नास्ते मायानिगडविमुक्त्यै युवयोः पदशरणमृते निभृते निगमोदितमिति तत्त्वम् । अस्मान् यदि गतिहीनान् नो कृपयथ इह न तदा कैरपि घोषयितव्यं भवतोरगतिगतित्वम् ॥ ३॥ २३७॥ कृतगुरुपदयुगनतिना जयनारायणकविना कविकुलमुदे (सु)भणितं गीतं कुरुतां सुमतिम् । अचलमहीपतितनया चरणसरोजं भजतां शमयतु भवभयनिचयं सततं हरतु च कुमतिम् ॥ ४॥ २३८॥ इति स्तुतौ तौ वनचारिभिस्तैर्मनोऽनुकूलं वरमेव दत्त्वा । एभ्यो महाविस्मयमागतेभ्यस्तिरोदधाते शुभदौ जगत्याः ॥ २३९॥ Here the author gives his lineage आसीद् ब्रह्मकुलोद्भूतः शिरो नाम महामतिः । तस्माज्जात उधो धीरस्ततः कोच इति स्मृतः ॥ २४०॥ तत आभः समाजज्ञे सञ्जातश्च ततो पशः(यशः)। उदयश्च ततो जातस्ततो बाणेश्वरोऽभवत् ॥ २४१॥ तत्पुत्रो विश्वनाथोऽथ कंसारिस्तत्सुतो महान् । कंसारेस्तनयः श्रीमान् श्रीधरः परिकीर्त्तितः ॥ २४२॥ यदुनाथस्ततो यज्ञे पाठकख्यातिमीयिवान् । गोपीकान्तस्तस्य पुत्रो रामकृष्णश्च तत्सुतः ॥ २४३॥ राजेन्द्रस्तनयस्तस्य विष्णुदेवस्ततोऽभवत् । दुलालश्चापि कन्दर्पो विष्णुदेवसुतावुभौ ॥ २४४॥ कन्दर्पात् कृष्णचन्द्रोऽभूद् गुणवान् विजितेन्द्रियः । अभवत् कृष्णचन्द्रस्य जयनारायणः स्मृतः ॥ २४५॥ अजायत सुतस्तस्य कालशङ्करसंज्ञकः । तस्य षट् तनयाः ख्याताः काशीकान्तोऽग्रजो महान् ॥ २४६॥ सत्यप्रसादस्तदनु तृतीयः सत्यकिङ्करः । चतुर्थः सृ(स)त्यचरणो घोषालः परिकोत्तितः ॥ २४७॥ पञ्चमः सत्यशरणः षष्ठः सत्यप्रसन्नकः । इति षण्णां कुमाराणां सत्यभक्तस्तु सप्तमः ॥ २४८॥ सप्रज्ञानिषयानुरूपरचितं क्षेमङ्करं यन्मया सद्भक्ताय जयादिना द्विजनुषा नारायणेनाचिरात् । क्रूराकारणदुर्विवादघटनात् पर्यस्यतां शङ्करी- सङ्गीतं तदिदं सतां वितनुतां संश‍ृण्वतां श्रीततिम् ॥ २४९॥ इति श्रीशङ्करीसङ्गीत् रासवर्णनं नाम द्वादशः पटलः ॥ १२॥ ॥ समाप्तश्चायं ग्रन्थः ॥ Proofread by Narayanaswami Pallasena
% Text title            : Shankari Sangitam
% File name             : shankarIsangItam.itx
% itxtitle              : shaNkarIsaNgItam athavA jagadambAcharitam (jayanArAyaNapraNItaM)
% engtitle              : Shankari Sangitam
% Category              : devii, pArvatI, devi, kRitI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Author                : Shri Kavi Jayanarayan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description/comments  : rAjasthAna purAtana granthamAlA, Jodhpur, granthANka 106
% Indexextra            : (Text 1, 2)
% Latest update         : June 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org