शिवप्रोक्तं त्रिपुराकवचम्
कवचं त्रिपुरायास्तु शृणु वेताल भैरव ।
यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने ॥ ५०॥
उपचाराः पुरा प्रोक्ता येन एवात्र पूजने ।
प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने ॥ ५१॥
कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः ।
वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन ॥ ५२॥
क्रव्यादाद्भयं न लभते तथा तोयपरिप्लवे ।
कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ॥ ५३॥
अथ कवचं -
ॐ त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते ।
छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुरभैरवी ।
धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ॥ ५४॥
यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत ।
नामतो वाग्भवादीनि कीर्तितानि मया पुरा ॥ ५५॥
तथा त्रिपुरभैरव्या बीजानामपि नामतः ।
वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः ॥ ५६॥
अवतु सकलशीर्षं वाग्भवे वाचमुग्रां
निखिलरचितकामान् कामराजोऽवतान्मे ।
सकलकरणवर्गमीश्वरः पातु नित्यं
तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥ ५७॥
कूटैस्तु पञ्चभिरिदं गदितं हि यन्त्रं
मन्त्रं ततोऽनु सततं मम तेज उग्रम् ।
तेजोमयं महति नित्यपरायणस्थं
तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् ॥ ५८॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि ।
भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः ॥ ५९॥
विततकुलकलाज्ञा कामिनी भैरवी या
त्रिपुरपुरदहाख्या सर्वलोकस्य माता ।
वितरतु मम नित्यं नाभिपद्मे सकुक्षौ
गणपतिवनिता मां रोगहानिं सुखं च ॥ ६०॥
योगैर्जगन्ति परिमोहयतीव नित्यं
जागर्ति या त्रिपुरभैरवभामिनीति ।
सायं च भावकलिता मम पञ्चभागे
नासाक्षिकर्णरसनात्वचि पातु नित्यम् ॥ ६१॥
आद्या तु त्रिपुरेयं या मध्या या कामदायिनी ।
त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी ॥ ६२॥
उदयदिशि सदा मां पातु बाला तु माता
यमदिशि मम मध्याभद्रमुग्रं विदध्यात् ।
वरुणपवनकाष्ठामध्यतो भैरवी मा-
मवतु सकलरक्षां कुर्वती सुन्दरी मे ॥ ६३॥
महामाया महायोनिर्विश्वयोनिः सदैव तु ।
सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या ॥ ६४॥
ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा ।
नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी ॥ ६५॥
भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या ।
वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी ॥ ६६॥
वदने दक्षिणस्यां च दिशि मां भगसर्पिणी ।
त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु ॥ ६७॥
कर्णयोः पश्चिमायां च दिशि मां भगमालिनी ।
अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु ॥ ६८॥
अनङ्गकुसुमा कण्ठे प्रतीच्यां दिशि सुन्दरी ।
त्रिपुराभैरवी माता नित्यं पातु महेश्वरी ॥ ६९॥
हृदि मारुतकाष्ठायां देवी चानङ्गमेखला ।
नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा ॥ ७०॥
अनङ्गमदना देवी पातु त्रिपुरभैरवी ।
ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा ॥ ७१॥
वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी ।
गुदमेढ्रान्तरे पातु रतिस्त्रिपुरभैरवी ॥ ७२॥
हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी ।
भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः ॥ ७३॥
द्रावणी मां ग्रहात् पातु वाणी मां दुर्गमूर्धनि ।
क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः ॥ ७४॥
वशीकरणवाणी मामग्नितः पातु राजतः ।
आकर्षणाह्वया वाणी मां पातु शस्त्रघाततः ॥ ७५॥
मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा ।
नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् ॥ ७६॥
माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु ।
पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम ॥ ७७॥
वरः पातु सदा धाम्नि धामतेजो विवर्धयन् ।
अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ॥ ७८॥
ऊर्ध्वाधोभावभूतस्थिततरकरणै रक्तकीर्णा सुचक्रा
कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला ।
ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं
पातादूर्ध्वं तथाधः सकलभयभृतो भोगभीरोस्तु विद्या ॥ ७९॥
हः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः ।
रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः ॥ ८०॥
रकारो मम नाडीषु शिरः सौः पातु सर्वदा ।
शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः ॥ ८१॥
विद्या विद्याभाविनी कामरूपा
स्थूला सूक्ष्मा मायया याऽऽदिमाया ।
ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री
रक्षां कुर्यात् सर्वतो भैरवी माम् ॥ ८२॥
आद्या मध्या भाविनी नीतियुक्ता
सम्यग्ज्ञानज्ञेयरूपापरा या ।
आदावन्ते मध्यभागे च तारा
पायाद्देवी त्रैपुरी भैरवी या ॥ ८३॥
यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः ।
ब्रह्मा रुद्रश्च जानाति तत्त्वं नान्यो नमोऽस्तु तान् ॥ ८४॥
त्वं ब्रह्माणि भवानि विश्वभवितुर्लक्ष्मीरतिर्योगिनी
त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् ।
वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा
त्वं देवि त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु ॥ ८५॥
इदं तु कवचं देव्या यो जानाति स मन्त्रवित् ।
नाधयो व्याधयस्तस्य न भयं च सदा क्वचित् ॥ ८६॥
इति ते परमं गुह्यमाख्यातं कवचं परम् ।
तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि ॥ ८७॥
इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् ।
त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् ॥ ८८॥
यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् ।
लिखितं कवचं यस्तु कण्ठे गृह्वाति मन्त्रवित् ॥ ८९॥
न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव ।
सङ्ग्रामे शास्त्रवादे च विजयस्तस्य जायते ॥ ९०॥
इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः ।
स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि ॥ ९१॥
बीजमुच्चारयेत् स्वस्थो गतवाग्दोषनिश्चितः ।
संयोगबोधः प्रत्येकभेद-श्रवणगोचरः ॥ ९२॥
इति कालिकापुराणे पञ्चसप्ततितमाध्यायान्तर्गतं शिवप्रोक्तं
त्रिपुराकवचं सम्पूर्णम् ।
Proofread by PSA Easwaran