श्रीविलापकुसुमाञ्जलिः

श्रीविलापकुसुमाञ्जलिः

त्वं रूपमञ्जरि सखि प्रथिता पुरेऽस्मि- न्पुंसः परस्य वदनं न हि पश्यसीति । बिम्बाधरे क्षतमनागतभर्तृकाया यत्ते व्यधायि किमु तच्छुकपुङ्गवेन ॥ १॥ (वसन्त) स्थलकमलिनि युक्तं गर्विता काननेऽस्मि- न्प्रणयसि वरहास्यं पुष्पगुच्छच्छलेन । अपि निखिललतास्ताः सौरभाक्ताः स मुञ्च- न्मृगयति तव मार्गं कृष्णभृङ्गो यदद्य ॥ २॥ (मालिनी) व्रजेन्द्रवसतिस्थले विविधवल्लवीसङ्कुले त्वमेव रतिमञ्जरि प्रचुरपुण्यपुञ्जोदया । विलासभरविस्मृतप्रणयिमेखलामार्गणे यदद्य निजनाथया व्रजति नाथिता कन्दरम् ॥ ३॥ (पृथ्वी) प्रभुरपि यदुनन्दनो च एष प्रिययदुनन्दन उन्नतप्रभावः । स्वयमतुलकृपामृताभिषेकं मम कृतवांस्तमहं गुरुं प्रपद्ये ॥ ४॥ (पुष्पिताग्रा) यो मां दुस्तरगेहनिर्जलमहाकूपादपारक्लमा- त्सद्यः सान्द्रदयाम्बुधिः प्रकृतितः स्वैरी कृपारज्जुभिः । उद्धृत्यात्मसरोजनिन्दिचरणप्रान्तं प्रपाद्य स्वयं श्रीदामोदरसाच्चकार तमहं चैतन्यचन्द्रं भजे ॥ ५॥ (शार्दूल) वैराग्ययुग्भक्तिरसप्रयत्नै- रपाययन्मामनभीप्सुमन्धम् । कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥ ६॥ (उपजाति) अत्युत्कटेन नितरां विरहानलेन दन्दह्यमानहृदया किल कापि दासी । हा स्वामिनि क्षणमिह प्रणयेन गाढं आक्रन्दनेन विधुरा विलपामि पद्यैः ॥ ७॥ (वसन्त) देवि दुःखकुलसागरोदरे दूयमानमतिदुर्गतं जनम् । त्वं कृपाप्रबलनौकयाद्भुतं प्रापय स्वपदपङ्कजालयम् ॥ ८॥ (रथोद्धता) त्वदलोकनकालाहिदंशैरेव मृतं जनम् । त्वत्पादाब्जमिलल्लाक्षाभेषजैर्देवि जीवय ॥ ९॥ (अनुष्टुभ्) देवि ते चरणपद्मदासिकां विप्रयोगभरदावपावकैः । दह्यमानतरकायवल्लरीं जीवय क्षणनिरीक्षणामृतैः ॥ १०॥ (रथोद्धता) स्वप्नेऽपि किं सुमुखि ते चरणाम्बुजात राजत्परागपटवासविभूषणेन । शोभां परामतितरामहहोत्तमाङ्गं बिभ्रद्भविष्यति कदा मम सार्थनामा ॥ ११॥ (वसन्त) अमृताब्धिरसप्रायैस्तव नूपुरसिञ्जितैः । हा कदा मम कल्याणि वाधिर्यमपनेष्यते ॥ १२॥ (अनुष्टुभ्) शशकभृदभिसारे नेत्रभृङ्गाञ्चलाभ्यां दिशि विदिशि भयेनोद्घुर्णिताभ्यां वनानि । कुवलयदलकोषाण्येव कॢप्तानि याभ्यां किमु किल कलनीयो देवि ताभ्यां जनोऽयम् ॥ १३॥ (मालिनी) यदवधि मम काचिन्मञ्जरी रूपपूर्वा व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार । तदवधि तव वृन्दारण्यराज्ञि प्रकामं चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ १४॥ (मालिनी) यदा तव सरोवरं सरसभृङ्गसङ्घोल्लस- न्सरोरुहकुलोज्ज्वलं मधुरवारिसम्पूरितम् । स्फुटत्सरसिजाक्षि हे नयनयुग्मसाक्षाद्बभौ तदैव मम लालसाजनि तवैव दास्ये रसे ॥ १५॥ (पृथ्वी) पादाब्जयोस्तव विना वरदास्यमेव नान्यत्कदापि समये किल देवि याचे । सख्याय ते मम नमोऽस्तु नमोऽस्तु नित्यं दास्यास्य ते मम रसोऽस्तु रसोऽस्तु सत्यम् ॥ १६॥ (वसन्त) अतिसुललितलाक्षाश्लिष्टसौभाग्यमुद्रा ततिभिरधिकतुष्ट्या चिह्नितीकृत्य बाहू । नखदलितहरिद्रागर्वगौरि प्रियां मे चरणकमलसेवां हा कदा दास्यसि त्वम् ॥ १७॥ (मालिनी) प्रणालीं कीलालैर्बहुभिरभि सङ्क्षाल्य मधुरै- र्मुदा सम्मार्ज्य स्वैर्विवृतकचवृन्दैः प्रियतया । कदा बाह्यागारं वरपरिमलैर्धूपनिवहै- र्विधास्ये ते देवि प्रतिदिनमहो वासितमहम् ॥ १८॥ (शिखरिणी) प्रातः सुधांशुमिलितां मृदमत्र यत्ना- दाहृत्य वासितपयश्च गृहान्तरे च । पादाम्बुजे बत कदा जलधारया ते प्रक्षाल्य भाविनि कचैरिह मार्जयामि ॥ १९॥ (वसन्त) प्रक्षाल्य पादकमलं कृतदान्तकाष्ठां स्नानार्थमन्यसदने भवतीं निविष्टाम् । अभ्यज्य गन्धिततरैरिह तैलपूरैः प्रोद्वर्तयिष्यति कदा किमु किङ्करीयम् ॥ २०॥ (वसन्त) अयि विमलजलानां गन्धकर्पूरपुष्पै- र्जितविधुमुखपद्मे वासितानां घटोघैः । प्रणयललितसख्या दीयमानैः पुरस्ता- त्तव वरमभिषेकं हा कदाहं करिष्ये ॥ २१॥ (मालिनी) पानीयं चीनवस्त्रैः शशिमुखि शनकै रम्यमृद्वङ्गयष्टे- र्यत्नादुत्सार्य मोदाद्दिशि दिशि विचलन्नेत्रमीनाञ्चलायाः । श्रोणौ रक्तं दुकूलं तदपरमतुलं चारुनीलं शिरोऽग्रा- त्सर्वाङ्गेषु प्रमोदात्पुलकितवपुषा किं मया ते प्रयोज्यम् ॥ २२॥ (स्रग्धरा) प्रक्षाल्य पादकमलं तदनुक्रमेण गोष्ठेन्द्रसूनुदयिते तव केशपाशम् । हा नर्मदाग्रथितसुन्दरसूक्ष्ममाल्यै- र्वेणीं करिष्यति कदा प्रणयैर्जनोऽयम् ॥ २३॥ (वसन्त) सुभगमृगमदेनाखण्डशुभ्रांशुवत्ते तिलकमिह ललाटे देवि मोदाद्विधाय । मसृणघुसृणचर्चामर्पयित्वा च गात्रे स्तनयुगमपि गन्धैश्चित्रितं किं करिष्ये ॥ २४॥ (मालिनी) सिन्दूररेखा सीमन्ते देवि रत्नशलाकया । मया या कल्पिता किं ते सालकाञ्छोभयिष्यति ॥ २५॥ (अनुष्टुभ्) हन्त देवि तिलकस्य समन्ता- द्बिन्दवोऽरुणसुगन्धिरसेन । कृष्णमादनमहौषधिमुख्या धीरहस्तमिह किं परिकल्प्याः ॥ २६॥ (स्वागता) गोष्ठेन्द्रपुत्रमदचित्तकरीन्द्रराज बन्धाय पुष्पधनुषः किल बद्धरज्ज्वोः । किं कर्णयोस्तव वरोरु वरावतंस युग्मेन भूषणमहं सुखिता करिष्ये ॥ २७॥ (वसन्त) या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् । किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं प्राणेभ्योऽप्यधिकं स्वकं निधियुगं सङ्गोपयत्येव हि ॥ २८॥ (शार्दूल) नानामणिप्रकरगुम्फितचारुपुष्टा मुक्तास्रजस्तव सुवक्षसि हेमगौरि । श्रान्त्याभृतालसमुकुन्दसुतूलिकायां किं कल्पयिष्यतितरां तव दासिकेयम् ॥ २९॥ (वसन्त) मणिचयखचिताभिर्नीलचूडावलीभि- र्हरिदयितकलाविद्द्वन्द्वमिन्दीवराक्षि । अपि बत तव दिव्यैरङ्गुलीरङ्गुलीयैः क्वचिदपि किल काले भूषयिष्यामि किं नु ॥ ३०॥ (मालिनी) पादाम्भोजे मणिमयतुलाकोटियुग्मेन यत्ना- दभ्यर्चे तद्दलकुलमपि प्रेष्टपादाङ्गुलीयैः । काञ्चीदाम्ना कटितटमिदं प्रेमपीठं सुनेत्रे कंसारातेरतुलमचिरादर्चयिष्यामि किं ते ॥ ३१॥ (मन्दाक्रान्ता) ललिततरमृणालीकल्पबाहुद्वयं ते मुरजयिमतिहंसीधैर्यविध्वंसदक्षम् । मणिकुलरचिताभ्यामङ्गदाभ्यां पुरस्ता- त्प्रमदभरविनम्रा कल्पयिष्यामि किं वा ॥ ३२॥ (मालिनी) रासोत्सवे य इह गोकुलचन्द्रबाहु स्पर्शेन सौभगभरं नितरामवाप । ग्रैवेयकेण किं तं तव कण्ठदेशं सम्पूजयिष्यति पुनः सुभगे जनोऽयम् ॥ ३३॥ (वसन्त) दत्तः प्रलम्बरिपुणोद्भटशङ्खचूड नाशात्प्रतोषि हृदयं मधुमङ्गलस्य । हस्तेन यः सुमुखि कौस्तुभमित्रमेतं किं ते स्यमन्तकमणिं तरलं करिष्ये ॥ ३४॥ (वसन्त) प्रान्तद्वये परिविराजितगुच्छयुग्म विभ्राजितेन नवकाञ्चनडोरकेण । क्षीणं त्रुटत्यथ कृशोदरि चेदितीव बध्नामि भोस्तव कदातिभयेन मध्यम् ॥ ३५॥ (वसन्त) कनकगुणितमुच्चैर्मौक्तिकं मत्करात्ते तिलककुसुमविजेत्री नासिका सा सुवृत्तम् । मधुमथनमहालिक्षोभकं हेमगौरि प्रकटतरमरन्दप्रायमादास्यते किम् ॥ ३६॥ (मालिनी) अङ्गदेन तव वामदोःस्थले स्वर्णगौरि नवरत्नमालिकाम् । पट्टगुच्छपरिशोभितामिमां आज्ञया परिणयामि ते कदा ॥ ३७॥ (रथोद्धता) कर्णयोरुपरि चक्रशलाके चञ्चलाक्षि निहिते मयका ते । क्षोभकं निखिलगोपवधूनां चक्रवद्भ्रमयतां मुरशत्रुम् ॥ ३८॥ कदा ते मृगशावाक्षि चिबुके मृगनाभिना । बिन्दुमुल्लासयिष्यामि मुकुन्दामोदमन्दिरे ॥ ३९॥ (अनुष्टुभ्) दशनांस्ते कदा रक्त रेखाभिर्भूषयाम्यहम् । देवि मुक्ताफलानीह पद्मरागगुणैरिह ॥ ४०॥ (अनुष्टुभ्) उत्खादिरेण नवचन्द्रविराजितेन रागेण ते वरसुधाधरबिम्बयुग्मे । गाङ्गेयगात्रि मयका परिरञ्जितेऽस्मि- न्दंशं विधास्यति हठात्किमु कृष्णकीरः ॥ ४१॥ (वसन्ततिलक) यत्प्रान्तदेशलवलेशविघूर्णितेन बद्धः क्षणाद्भवति कृष्णकरीन्द्र उच्चैः । तत्खञ्जरीटजयिनेत्रयुगं कदायं सम्पूजयिष्यति जनस्तव कज्जलेन ॥ ४२॥ (वसन्त) यस्याङ्करञ्जितशिरास्तव मानभङ्गे गोष्ठेन्द्रसूनुरधिकां सुषमामुपैति । लाक्षारसं स च कदा पदयोरधस्ते न्यस्तो मयाप्यतितरां छविमाप्स्यतीह ॥ ४३॥ (वसन्त) कलावति नतांसयोः प्रचुरकामपुञ्जोज्ज्वल- त्कलानिधिमुरद्विषः प्रकटराससम्भावयोः । भ्रमद्भ्रमरझङ्कृतैर्मधुरमल्लिमालां मुदा कदा तव तयोः समर्पयति देवि दासीजनः ॥ ४४॥ सूर्याय सूर्यमणिनिर्मितवेदिमध्ये मुग्धाङ्गि भावत इहालिकुलैर्वृतायाः । अर्घं समर्पयितुमुत्कधियस्तवारा- त्सज्जानि किं सुमुखि दास्यति दासिकेयम् ॥ ४५॥ व्रजपुरपतिराज्ञ्या आज्ञया मिष्ठमन्नं बहुविधमतियत्नात्स्वेन पक्वं वरोरु । सपदि निजसखीनां मद्विधानां च हस्तै- र्मधुमथननिमित्तं किं त्वया सन्निधास्यम् ॥ ४६॥ नीतान्नमद्विधललाटतटे ललाटं प्रीत्या प्रदाय मुदिता व्रजराजराज्ञी । प्रेम्णा प्रसूरिव भवत्कुशलस्य पृच्छां भव्ये विधास्यति कदा मयि तावकत्वात् ॥ ४७॥ कृष्णवक्त्राम्बुजोच्छिष्टं प्रसादं परमादरात् । दत्तं धनिष्ठया देवि किमानेष्यामि तेऽग्रतः ॥ ४८॥ (अनुष्टुभ्) नानाविधैरमृतसाररसायनैस्तैः कृष्णप्रसादमिलितैरिह भोज्यपेयैः । हा कुङ्कुमाङ्गि ललितादिसखीवृता त्वं यत्नान्मया किमुत्तरामुपभोजनीया ॥ ४९॥ (वसन्त) पानाय वारि मधुरं नवपाटलादि कर्पूरवासिततरं तरलाक्षि दत्त्वा । काले कदा तव मयाचमनीयदन्त काष्ठादिकं प्रणयतः परमर्पणीयम् ॥ ५०॥ (वसन्त) (युग्मकम्) भोजनस्य समये तव यत्ना- त्देवि धूपनिवहान्वरगन्धान्। बीजनाद्यमपि तत्क्षणयोग्यं हा कदा प्रणयतः प्रणयामि ॥ ५१॥ (स्वागता) कर्पूरपूरपरिपूरितनागवल्ली पर्णादिपूगपरिकल्पितवीटिकां ते । वक्त्राम्बुजे मधुरगात्रि मुदा कदाहं प्रोत्फुल्लरोमनिकरैः परमर्पयामि ॥ ५२॥ (वसन्त) आरात्रिकेण भवतीं किमु देवि देवीं निर्मञ्छयिष्यतितरां ललिता प्रमोदात् । अन्यालयश्च नवमङ्गलगानपुष्पैः प्राणार्बुदैरपि कचैरपि दासिकेयम् ॥ ५३॥ आलीकुलेन ललिताप्रमुखेन सार्धं आतन्वती त्वमिह निर्भरमर्मगोष्ठीम् । मत्पाणिकल्पितमनोहरकेलितल्पं आभूषयिष्यसि कदा स्वपनेन देवि ॥ ५४॥ संवाहयिष्यति पदौ तव किङ्करीयं हा रूपमञ्जरिरसौ च कराम्बुजे द्वे । यस्मिन्मनोज्ञहृदये सदयेऽनयोः किं श्रीमान्भविष्यतितरां शुभवासरः सः ॥ ५५॥ तवोद्गीर्णं भोज्यं सुमुखि किल कल्लोलसलिलं तथा पादाम्भोजामृतमिह मया भक्तिलतया । अयि प्रेम्णा सार्धं प्रणयिजनवर्गैर्बहुविधै- रहो लब्धव्यं किं प्रचुरतरभोग्योदयबलैः ॥ ५६॥ भोजनावसरे देवि स्नेहेन स्वमुखाम्बुजात् । मह्यं त्वद्गतचित्तायै किं सुधास्त्वं प्रदास्यसि ॥ ५७॥ (अनुष्टुभ्) अपि बत रसवत्याः सिद्धये माधवस्य व्रजपतिपुरमुद्यद्रोमरोमा व्रजन्ती । स्खलितगतिरुदञ्चत्स्वान्तसौख्येन किं मे क्वचिदपि नयनाभ्यां लप्स्यसे स्वामिनि त्वम् ॥ ५८॥ (मालिनी) पार्श्वद्वये ललितयाथ विशाखया च त्वां सर्वतः परिजनैश्च परैः परीताम् । पश्चान्मया विभृतभङ्गुरमध्यभागां किं रूपमञ्जरिरियं पथि नेष्यतीह ॥ ५९॥ हम्बारवैरिह गवामपि बल्लवानां कोलाहलैर्विविधवन्दिकलावतां तैः । सम्भ्राजते प्रियतया व्रजराजसूनो- र्गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः ॥ ६०॥ प्राप्तां निजप्रणयिनीप्रकरैः परीतां नन्दीश्वरं व्रजमहेन्द्रमहालयं तम् । दूरे निरीक्ष्य मुदिता त्वरितं धनिष्ठा त्वामानयिष्यति कदा प्रणयैर्ममाग्रे ॥ ६१॥ (युग्मकम्) प्रक्षाल्य पादकमले कुशले प्रविष्टा नत्वा व्रजेशमहिषीप्रभृतीर्गुरूस्ताः । हा कुर्वती रसवतीं रसभाक्कदा त्वं सम्मज्जयिष्यसितरां सुखसागरे माम् ॥ ६२॥ माधवाय नतवक्त्रमादृता भोज्यपेयरससञ्चयं क्रमात् । तन्वती त्वमिह रोहिणीकरे देवि फुल्लवदनं कदेक्ष्यसे ॥ ६३॥ भोजने गुरुसभासु कथञ्चि- न्माधवेन नतदृष्टि मुदोत्कम् । वीक्ष्यमाणमिह ते मुखपद्मं मोदयिष्यसि कदा मधुरे माम् ॥ ६४॥ अयि विपिनमटन्तं सौरभेयीकुलानां व्रजनृपतिकुमारं रक्षणे दीक्षितं तम् । विकलमतिजनन्या लाल्यमानं कदा त्वं स्मितमधुरकपोलं वीक्ष्यसे वीक्ष्यमाणा ॥ ६५॥ गोष्ठेशयाथ कुतुकाच्छपथादिपूर्वं सुस्निग्धया सुमुखि मातृपरार्धतोऽपि । हा ह्रीमति प्रियगणैः सह भोज्यमानां किं त्वां निरीक्ष्य हृदये मुदमद्य लप्स्ये ॥ ६६॥ आलिङ्गनेन शिरसः परिचुम्बनेन स्नेहावलोकनभरेण च खञ्जनाक्षि । गोष्ठेशया नववधूमिव लाल्यमानां त्वां प्रेक्ष्य किं हृदि महोत्सवमातनिष्ये ॥ ६७॥ हा रूपमञ्जरि सखि प्रणयेन देवीं त्वद्बाहुदत्तभुजवल्लरिमायताक्षीम् । पश्चादहं कलितकामतरङ्गरङ्गां नेष्यामि किं हरिविभूषितकेलिकुञ्जम् ॥ ६८॥ साकं त्वया सखि निकुञ्जगृहे सरस्याः स्वस्यास्तटे कुसुमभावितभूषणेन । श‍ृङ्गारितं विदधती प्रियमीश्वरी सा हा हा भविष्यति मदीक्षणगोचरः किम् ॥ ६९॥ श्रुत्वा विचक्षणमुखाद्व्रजराजसूनोः शस्ताभिसारसमयं सुभगेऽत्र हृष्टा । सूक्ष्माम्बरैः कुसुमसंस्कृतकर्णपूर हारादिभिश्च भवतीं किमलङ्करिष्ये ॥ ७०॥ नानापुष्पैः क्वणितमधुपैर्देवि सम्भाविताभि- र्मालाभिस्तद्घुसृणविलसत्कामचित्रालिभिश्च । राजद्द्वारे सपदि मदनानन्ददाभिख्यगेहे मल्लीजालैः शशिमुखि कदा तल्पमाकल्पयिष्ये ॥ ७१॥ श्रीरूपमञ्जरिकरार्चितपादपद्म गोष्ठेन्द्रनन्दनभुजार्पितमस्तकायाः । हा मोदतः कनकगौरि पदारविन्द संवाहनानि शनकैस्तव किं करिष्ये ॥ ७२॥ गोवर्धनाद्रिनिकटे मुकुटेन नर्म लीलाविदग्धशिरसां मधुसूदनेन । दानच्छलेन भवतीमवरुध्यमानां द्रक्ष्यामि किं भ्रूकुटिदर्पितनेत्रयुग्माम् ॥ ७३॥ तव तनुवरगन्धासङ्गिवातेन चन्द्रा वलिकरकृतमल्लीकेलितल्पाच्छलेन । मधुरमुखि मुकुन्दं कुण्डतीरे मिलन्तं मधुपमिव कदाहं वीक्ष्य दर्पं करिष्ये ॥ ७४॥ समन्तादुन्मत्तभ्रमरकुलझङ्कारनिकरै- र्लसत्पद्मस्तोमैरपि विहगरावैरपि परम् । सखीवृन्दैः स्वीयैः सरसि मधुरे प्राणपतिना कदा द्रक्ष्यामस्ते शशिमुखि नवं केलिनिवहम् ॥ ७५॥ सरोवरलसत्तटे मधुपगुञ्जिकुञ्जान्तरे स्फुटत्कुसुमसङ्कुले विविधपुष्पसङ्घैर्मुदा । अरिष्टजयिना कदा तव वरोरु भूषाविधि- र्विधास्यत इह प्रियं मम सुखाब्धिमातन्वता ॥ ७६॥ स्फीतस्वान्तं कयाचित्सरभसमचिरेणार्प्यमाणैर्दरोद्य- न्नानापुष्पोरुगुञ्जाफलनिकरलसत्केकिपिञ्छप्रपञ्चैः । सोत्कम्पं रच्यमानः कृतरुचिहरिणोत्फुल्लमङ्गं वहन्त्याः स्वामिन्याः केशपाशः किमु मम नयनानन्दमुच्चैर्विधाता ॥ ७७॥ माधवं मदनकेलिविभ्रमे मत्तया सरसिजेन भवत्या । ताडितं सुमुखि वीक्ष्य किन्त्वियं गूढहास्यवदना भविष्यति ॥ ७८॥ सुललितनिजबाह्वाश्लिष्टगोष्ठेन्द्रसूनोः सुवलिततरबाह्वाश्लेषदीव्यन्नतांसा । मधुरमदनगानं तन्वती तेन सार्धं सुभगमुखि मुदं मे हा कदा दास्यसि त्वम् ॥ ७९॥ जित्वा पाशकखेलायां आच्छिद्य मुरलीं हरेः । क्षिप्तां मयि त्वया देवि गोपयिष्यामि तां कदा ॥ ८०॥ अपि सुमुखि कदाहं मालतीकेलितल्पे मधुरमधुरगोष्ठीं विभ्रतीं वल्लभेन । मनसिजसुखदेऽस्मिन्मन्दिरे स्मेरगण्डां सपुलकतनुरेषा त्वां कदा बीजयामि ॥ ८१॥ आयातोद्यत्कमलवदने हन्त लीलाभिसारा- द्गत्याटोपैः श्रमविलुलितं देवि पादाब्जयुग्मम् । स्नेहात्संवाहयितुमपि ह्रीपुञ्जमूर्तेऽप्यलज्जं नामग्राहं निजजनमिमं हा कदा नोत्स्यसि त्वम् ॥ ८२॥ हा नप्त्रि राधे तव सूर्यभक्तेः कालः समुत्पन्न इतः कुतोऽसि । इतीव रोषान्मुखरा लपन्ती सुधेव किं मां सुखयिष्यतीह ॥ ८३॥ देवि भाषितपीयूषं स्मितकर्पूरवासितम् । श्रोत्राभ्यां नयनाभ्यां ते किं नु सेविष्यते मया ॥ ८४॥ कुसुमचयनखेलां कुर्वती त्वं परीता रसकुटिलसखीभिः प्राणनाथेन सार्धम् । कपटकलहकेल्या क्वापि रोषेण भिन्ना मम मुदमतिबेलं धास्यसे सुव्रते किम् ॥ ८५॥ नानाविधैः पृथुलकाकुभरैरसह्यैः संप्रार्थितः प्रियतया बत माधवेन । त्वन्मानभङ्गविधये सदये जनोऽयं व्यग्रः पतिष्यति कदा ललितापदान्ते ॥ ८६॥ प्रीत्या मङ्गलगीतनृत्यविलसद्वीणादिवाद्योत्सवैः शुद्धानां पयसां घटैर्बहुविधैः संवासितानां भृशम् । वृन्दारण्यमहाधिपत्यविधये यः पौर्णमास्या स्वयं धीरे संविहितः स किं तव महासेको मया द्रक्ष्यते ॥ ८७॥ भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे । नीतायाः सुखशोकरोदनभरैस्ते सन्द्रवन्त्याः परं वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥ ८८॥ लज्जयालिपुरतः परतो मां गह्वरं गिरिपतेर्बत नीत्वा । दिव्यगानमपि तत्स्वरभेदं शिक्ष्ययिष्यसि कदा सदये त्वम् ॥ ८९॥ याचिता ललितया किल देव्या लज्जया नतमुखीं गणतो माम् । देवि दिव्यरसकाव्यकदम्बं पाठयिष्यसि कदा प्रणयेन ॥ ९०॥ निजकुण्डतटिकुञ्जे गुञ्जद्भ्रमरसङ्कुले । देवि त्वं कच्छपिशिक्षां कदा मां कारयिष्यसि ॥ ९१॥ विहारैस्त्रुटितं हारं गुम्फितुं दयितं कदा । सखीनां लज्जया देवि संज्ञया मां निदेक्ष्यसि ॥ ९२॥ स्वमुखान्मन्मुखे देवि कदा ताम्बूलचर्वितम् । स्नेहात्सर्वदिशे वीक्ष्य समये त्वं प्रदास्यसि ॥ ९३॥ निविडमदनयुद्धे प्राणनाथेन सार्धं दयितमधुरकाञ्ची या मदाद्विस्मृतासीत् । शशिमुखि समये तां हन्त सम्भाल्य भङ्ग्या त्वरितमिह तदर्थं किं त्वयाहं प्रहेया ॥ ९४॥ केनापि दोषलवमात्रलवेन देवि सन्ताड्यमान इह धीरमते त्वयोच्चैः । रोषेण तल्ललितया किल नीयमानः सन्द्रक्ष्यते किमु मनाक्सदरं जनोऽयम् ॥ ९५॥ तवैवास्मि तवैवास्मि न जीवामि त्वया विना । इति विज्ञाय देवि त्वं नय मां चरणान्तिके ॥ ९६॥ स्वकुण्डं तव लोलाक्षि सप्रियायाः सदास्पदम् । अत्रैव मम संवास इहैव मम संस्थितिः ॥ ९७॥ हे श्रीसरोवर सदा त्वयि सा मदीशा प्रेष्ठेन सार्धमिह खेलति कामरङ्गैः । त्वं चेत्प्रियात्प्रियमतीव तयोरितीमां हा दर्शयाद्य कृपया मम जीवितं ताम् ॥ ९८॥ क्षणमपि तव सङ्गं न त्यजेदेव देवी त्वमसि समवयस्त्वान्नर्मभूमिर्यदस्याः । इति सुमुखि विशाखे दर्शयित्वा मदीशां मम विरहहतायाः प्राणरक्षां कुरुष्व ॥ ९९॥ हा नाथ गोकुलसुधाकर सुप्रसन्न वक्त्रारविन्द मधुरस्मित हे कृपार्द्र । यत्र त्वया विहरते प्रणयैः प्रियारा- त्तत्रैव मामपि नय प्रियसेवनाय ॥ १००॥ लक्ष्मीर्यदङ्घ्रिकमलस्य नखाञ्चलस्य सौन्दर्यबिन्दुमपि नार्हति लब्धुमीशे । सा त्वं विधास्यसि न चेन्मम नेत्रदानं किं जीवितेन मम दुःखदवाग्निदेन ॥ १०१॥ आशाभरैरमृतसिन्धुमयैः कथञ्चि- त्कालो मयातिगमितः किल साम्प्रतं हि । त्वं चेत्कृपां मयि विधास्यसि नैव किं मे प्राणैर्व्रजेन च वरोरु बकारिणापि ॥ १०२॥ त्वं चेत्कृपामयि कृपां मयि दुःखितायां नैवातनोरतितरां किमिह प्रलापैः । त्वत्कुण्डमध्यमपि तद्बहुकालमेव संसेव्यमानमपि किं नु करिष्यतीह ॥ १०३॥ अयि प्रणयशालिनि प्रणयपुष्टदास्याप्तये प्रकाममतिरोदनैः प्रचुरदुःखदग्धात्मना । विलापकुसुमाञ्जलिर्हृदि निधाय पादाम्बुजे मया बत समर्पितस्तव तनोतु तुष्टिं मनाक् ॥ १०४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीविलापकुसुमाञ्जलिः सम्पूर्णा ।
% Text title            : vilApakusumAnjaliH
% File name             : vilApakusumAnjaliH.itx
% itxtitle              : vilApakusumAnjaliH (raghunAthadAsagosvAmivirachitA)
% engtitle              : vilApakusumAnjaliH
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, shataka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org