श्रीयोगेश्वरीकवचम्

श्रीयोगेश्वरीकवचम्

श्रीगणेशाय नमः । श्रीयोगेश्वर्यै नमः । देव्युवाच - भगवन्सर्वमाख्यातं मन्त्रयन्त्रादिकं त्वया । योगिन्याः कवचन्देव न कुत्रापि प्रकाशितम् ॥ १॥ श्रोतुमिच्छाम्यहं देव कृपापात्रं तवास्म्यहम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥ २॥ ईश्वर उवाच - श‍ृणुदेवि महाविद्यां सर्वदेवप्रपूजिताम् । यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ ३॥ सृष्टिकर्ता भवेद्ब्रह्मा संहर्ताहं तथैवच । यस्याः स्मरणमात्रेण देवादेवत्वमाप्नुयुः ॥ ४॥ रहस्यं श‍ृणुवक्ष्यामि योगेश्याः प्राणवल्लभे । त्रैलोक्यविजयं नाम कवचं मन्त्र विग्रहम् ॥ ५॥ अस्य श्रीयोगेश्वरीकवचस्य महादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगेश्वरी देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । मम योगेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः । अथन्यासः - श्रीमहादेव ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीयोगेश्वरी देवतायै नमः हृदये । ऐं बीजाय नमः दक्षिणस्तने । ह्रीं शक्तये नमः वामस्तने । श्रीं कीलकाय नमः नाभौ ॥ ऐं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । श्रीं करतलकरपृष्ठाभ्यां नमः ॥ ऐं हृदयाय नमः । ह्रीं शिररोस्वाहा । श्रीं शिखायै वषट् । ऐं कवचाय हुं । ह्रीं नेत्रत्रयाय वौषट् । श्रीं अस्त्रायफट् । भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानम् - खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरी तथा ॥ इति ध्यात्वा पञ्चोपचारैः सम्पूज्य कवचं पठेत् । अथ कवचम् । शिरो मे शाङ्करी पातु मूर्ध्नि नारायणी तथा । ऐं बीजा भालदेशेतु ह्रीं बीजं दक्षनेत्रके ॥ १॥ श्रीं बीजं वामनेत्रे च दक्षश्रोत्रे परास्मृता । वामश्रोत्रे नारसिंही नासामूलञ्च खड्गिनी ॥ २॥ नासिकां मानिनी पातु मुखं मेऽवतु चाम्बिका । कपोलौ भूतसंहारी चुबुकं भ्रामरी तथा ॥ ३॥ कण्ठं मे चण्डिका पातु हृदयं विन्ध्यवासिनी । उदरे गिरिजा पातु नाभिं मेवऽतु भोगिनी ॥ ४॥ शुम्भिनी पृष्ठदेशे च स्कन्धयोः शूलधारिणी । हस्तयोर्योगिनी रक्षेत्कम्बुकण्ठ्यङ्गुलीस्तथा ॥ ५॥ कट्यां च सुन्दरी रक्षेद्गुह्यं गुह्येश्वरी तथा । कुब्जिका पातु मे मेढ्रं पातु देशेच शाम्भवी ॥ ६॥ भद्रकाली पातु चोर्वो जान्वोर्मेऽवतु कालिका । जङ्घे पातु महाभीमा गुल्फयोर्वतुशूलिनी ॥ ७॥ पादयोः श्रीधरी रक्षेत्सर्वाङ्गे योगिनी वतु । रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ ८॥ चामुण्डा चैव वाराही कौमारी वैष्णवी तथा । माहेश्वरी च सर्वाद्या जयश्रीर्मङ्गला तथा ॥ ९॥ रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा । इतीदं कवचं दिव्यं पठनात्सर्वसिद्धिदम् ॥ १०॥ स्मरणात्कवचस्यास्य जयः सर्वत्र जायते । राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ ११॥ बन्धने च महादुःखे जपेच्छत्रुसमागमे । प्रयोगञ्चाभिचारं च यो नरः कर्तुमिच्छति ॥ १२॥ अयुताच्च भवेत्सिद्धिः पठनात्कवचस्य तु । सर्वत्र लभते कीर्तिः श्रीमान्भवति धार्मिकः ॥ १३॥ भूर्जपत्रे लिखित्वा तु कवचं यस्तु धारयेत् । मन्त्रसिद्धिमवाप्नोती योगेश्वर्याः प्रसादतः ॥ १४॥ पुत्रवान्धनवान्छ्रीमान्नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नश्यन्ति पठनाच्च वै ॥ १५॥ इदं कवचमज्ञात्वा योगिनीं लभते न च । शतलक्षप्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ १६॥ इति श्रीरुद्रयामले बहुरूपाष्टकप्रस्तावे ईश्वरपार्वतीसंवादे योगेश्वरीकवचं सम्पूर्णम् ॥ अथ मूल मन्त्रः - ॐ ह्रीं नमो भगवति रक्तचामुण्डे योगेश्वरी, योगिनीं ह्रीं स्वाहा इति मन्त्रः रक्तचामुण्डायै विघ्नहे भूत संहारिण्यैच धीमहि । तन्नो योगेश्वरी प्रचोदयात् ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवी त्वप्रसादात्त्वयि स्थितिः ॥ लं, हं, यं, रं, वं । अथ महामन्त्रः- ॐ अस्य श्रीयोगेश्वरी महामन्त्रस्य महादेवऋषिः अनुष्टुप् छन्दः । श्रीयोगेश्वरी देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । अथ न्यासः- ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः । ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रद्रेवत्या अनामिकाभ्यां नमः । ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यसेत् । अथ ध्यानम् । ॐ देवीं भक्तजनप्रियां सुवदनां खड्गं च पाशं तथा स्वर्णालङ्कृतलाङ्गलं सुमुसलं हस्तैर्दधानां श्रियम् । विद्युत्कोटिरवीन्दुकान्तिधवलां दन्तासुरोन्मूलिनीं ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्वरीं संभजे ॥ १॥ लं पृथिव्यादि पञ्चमानसोपचारैः सम्पूज्य जपेत् । अथ मन्त्रः । ॐ ह्रीं यं यां रुद्रदेवतायै योगेश्वर्यै स्वाहा ॥ उत्तर न्यासं कृत्या गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् । सिद्धिभर्वतु मे देवित्वत्प्रसादात्सुरेश्वरि ॥ इति ॥ श्रीयोगेश्वर्यै नमः । ॐ ॐ ॐ
% Text title            : Shri Yogeshwari Kavacham
% File name             : yogeshvarIkavacham.itx
% itxtitle              : yogeshvarIkavacham yogeshvarI trailokyavijayakavacham (rudrayAmAlAntargatam)
% engtitle              : Yogeshwari Kavacham
% Category              : devii, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : rudrayAmale bahurUpAShTaka prastAve IshvarapArvatI saMvAde
% Indexextra            : (Marathi and audio)
% Acknowledge-Permission: http://chitpavanfoundation.org/Chitpavans/
% Latest update         : January 28, 2019, July 5, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org