धूम्रवर्णस्तुतिः अहमसुरेण प्रोक्ता
धूम्रवर्णस्तु तुरेण
गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः ।
धूम्रवर्ण जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२॥
पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः ।
पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३॥
अहमुवाच -
धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने ।
अव्यकायादिबीजाय परेशाय नमो नमः ॥ १४॥
लम्बोदराय देवाय दैत्यनाथाय ते नमः ।
हेरम्बाय महेशानां बालकाय नमो नमः ॥ १५॥
कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे ।
ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥
चराय चररूपाय जङ्गमस्थाय ते नमः ।
स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥
स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः ।
योगाय योगनाथाय योगिने योगदायिने ॥ १८॥
योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः ।
शान्ताय शान्तचित्तैस्तु प्राप्याय शान्त मूर्यते ॥ १९॥
ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद! ।
सिद्धिनाथाय बुद्धीश! तयोर्योगाय ते नमः ॥ २०॥
मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥
किं स्तौमि त्वां गणाधीश! धूम्रवर्णस्वरूपिणम् ।
अव्यक्तं वेदवादेषु कथितं सततं प्रभो! ॥ २२॥
स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः ।
योगशान्तिधरास्ते कथयितुं ध्रुवं अक्षमाः ॥ २३॥
अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः ।
पश्यामि तं धूम्रवर्ण एवाऽहं योगिदुर्लभम् ॥ २४॥
धन्योऽहं सकुलो नाथ! त्वदङ्गियुगदर्शनात् ।
धूम्रवर्ण उवाच -
त्वया कृतं इदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥
शृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् ।
न भसिष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥
यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः ।
मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥
इति अहमसुरेणप्रोक्ता धूम्रवर्णस्तुतिः समाप्ता । ८.७
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran