गणपत्यादिदेवतानां ध्यानक्रमः

गणपत्यादिदेवतानां ध्यानक्रमः

१. श्रीपञ्चमुखहेरम्बगणपतिध्यानं मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिणेत्राञ्चितैः नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् । दृप्तं दानमभीतिमोदकरदानब्जं शिरोऽक्षात्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥ १॥ २. श्रीसुब्रह्मण्यध्यानं ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ २॥ ३. श्रीवल्लीदेवीध्यानं श्यामां श्यामालकान्तां द्रुतकनकमणिप्रस्फुरद्दिव्यभूषां गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् । वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ३॥ ४. श्रीदेवसेनाध्यानं रक्ताभां रक्तवस्त्रां मणिमयखचितानेकभूषाभिरामां देवीं माहेन्द्रमान्यां मधुरिपुनयनादुद्भवां देवसेनाम् । दक्षे हस्ते च पद्मं त्वितरकरवरं लम्बितं सन्दधानां संस्थां स्कन्दस्य वामे समुदमपि गुहं लोकयन्तीं भजेऽहम् ॥ ४॥ ५. नव वीराः । प्रथमो वीरबाहुः स्यात् द्वितीयो वीरकेसरी । तृतीयो वीरमाहेन्द्रः तुर्यो वीरमहेश्वरः ॥ ५॥ वीरपुरन्दरःपञ्चमः षष्ठो वीरराक्षसः । सप्तमो वीरमार्ताण्डो वीरान्तक इहाष्टमः ॥ ६॥ नवमो वीरधीरश्च नव वीरा इमे क्रमात् । गौरीपादसरोद्भूतनवरत्नलतात्मजाः ॥ ७॥ तत्तद्रत्नसमानाङ्गशोभाम्बरविभूषणाः । सासिखेटास्सदा सेव्याः स्कन्दसेनाधिपा वराः ॥ ८॥ ५.१ - श्रीवीरबाहुध्यानम् । अम्बानूपुररत्नकिङ्किणिमणेर्जाता पुरा याऽबला ख्याता रत्नलतेति सद्गुणवती तस्यास्सुतो धैर्यवान् । हस्ताम्भोजधृतासिखेटकवरः श्रीवीरबाहुर्महान् ध्येयोवर्मकिरीटकुण्डलधरः सेनानिवीरादिमः ॥ ९॥ ५.२ - श्रीवीरकेसरीध्यानम् । गौरीनूपुर मौक्तिकात्तरलवल्ल्याख्या पुरा याऽभवत् तस्याः पुत्रवरः सुरेन्द्रविनुतः श्रीवीरकेसर्यसौ । खड्गं खेटकमावहन् करयुगे मुक्तामणीभूषणः सेव्यो वर्मनिषङ्गहेतिविपुलो वीरद्वितीयो बली ॥ १०॥ ५.३ - श्रीवीरमाहेन्द्रध्यानम् । अम्बानपुरपुष्यरागमणिजा या पुष्पवल्लीसमा ख्याता कान्तिमती सुभूषणवती तस्याः सुतो भीषणः । श्रीमान्वीरमहेन्द्र इत्यभिधया ख्यातस्तृतीयोऽपरः खड्गं खेटकमावहन्निषुधिभृत्सान्निध्यमेतु प्रभुः ॥ ११॥ ५.४ - श्रीवीरमाहेश्वरध्यानम् । देवीमञ्जीरगोमेदकमणिवरजा या च गोमेदवल्ली तस्याः सूनुर्नितान्तं सुरकुलहितकृद् वीरमाहेश्वराख्यः । सेनासन्नाहकोलाहल रवमुदितः खड्गखेटाभिरामः सुब्रह्मण्यान्तरङ्गो विपुलकरयुगः सेवितस्तुर्यवीरः ॥ १२॥ ५.५ श्रीवीरपुरन्दरध्यानम् । हेमाद्रिप्रभवापदाब्जविलसच्छ्रीनूपुरान्निर्गलद् वैडूर्योपलसम्भवा गुणवती वैडूर्यवल्लीति या । तस्यास्सूनुरुदारधीः प्रविलसत्खेटासिमान् पञ्चमः श्रीमान् वीरपुरन्दरो विजयते स्कन्दस्य सेनापतिः ॥ १३॥ ५.६ श्रीवीरराक्षसध्यानम् । जाता या वज्रवल्ली तुहिनगिरिभवापादमञ्जीरवज्रात् तस्याः सूनुर्बलाढ्यो युधि विजितरिपुः वीरयुग्राक्षसेन्द्रः । खेटप्रासोरुहस्तो ज्वलितनिजवपुः स्कन्दसेनाधिनाथः षष्ठस्सव्यापसव्याहवहतदितिजः पूजनीयो वरेण्यः ॥ १४॥ ५.७ श्रीवीरमार्ताण्डध्यानम् । जाता देव्यङ्घ्रिभूषान्मरतकलवलीत्याख्यया विश्रुता या तस्यास्सूनुः प्रसिद्धो नवमणिमकुटो वीरमार्ताण्डसंज्ञः । विद्युत्कल्पोऽसिखेटोल्लसितकरयुगःसप्तमोऽभेद्यवर्मा सेव्यः सेनानिसेनापतिरतुलबलो दैत्यहा देववन्द्यः ॥ १५॥ ५.८ श्रीवीरान्तकध्यानम् । अम्बायास्तु पुरा प्रवाललवली ख्याता च या नूपुरात् जाता तत्तनयोऽतुलोऽधिकबलो वीरान्तकाख्यः सुधीः । श्रीमान्खेटकखड्गभृत्करयुगः सेनानिवीराष्टमः सङ्ग्रामान्तरधीरकृत्यमुदितस्कन्दः सदाऽभ्यर्चितः ॥ १६॥ ५.९ श्रीवीरधीरध्यानम् । अम्बापादसरेन्द्रनीलमणिजा या नीलवल्ली सुदृक् तस्यास्सूनुरघोरसङ्गरमुखे दैत्यान्तकः खेटभृत् । खड्गी कञ्चुकझल्लटादिविपुलः श्रीवीरधीराभिधः सुब्रह्मण्यसुवीरवर्यनवमः सौख्यं सदा यच्छतात् ॥ १७॥ ये पठन्ति स्तुतिं नित्यं जयं सर्वत्र सर्वदा । वीरांश्च तनयान् कीर्तिं लभन्ते विपुलां श्रियम् ॥ १८॥ कन्यका प्रत्यहं प्रातः पठेत्पत्यर्थमादरात् । षण्मासाल्लभते वीरं भर्तारं सततं प्रियम् ॥ १९॥ सर्वरोगहरं पुण्यं भूतादीनां विनिग्रहम् । विषघ्नमुत्तमं स्तोत्रं पठतां सर्वसिद्धिदम् ॥ २०॥ इति श्रीस्कान्दपुराणान्तर्गतः गणपत्यादिदेवतानां ध्यानक्रमः सम्पूर्णः । Proofread by Aruna Narayanan
% Text title            : Ganapatyadidevatanam Dhyanakramah
% File name             : gaNapatyAdidevatAnAMdhyAnakramaH.itx
% itxtitle              : gaNapatyAdidevatAnAM dhyAnakramaH
% engtitle              : gaNapatyAdidevatAnAM dhyAnakramaH
% Category              : ganesha, dhyAnam
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org