श्रीगुह्यनामौच्छिष्टगणेशानसहस्रनामस्तोत्रम्

श्रीगुह्यनामौच्छिष्टगणेशानसहस्रनामस्तोत्रम्

अस्य श्रीगुह्यनामसहस्राख्यगणेशानसहस्रनामस्तोत्रमालामहामन्त्रस्य गणकः ऋषिः, गायत्री च्छन्दः उच्छिष्टमहागणेशानो देवता ॐ बीजं, स्वाहा शक्तिः गं कीलकम् ॥ श्रीमदुच्छिष्टमहागणेशानप्रसादसिद्ध्यर्थे पारायणे विनियोगः ॥ ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः हृदयाय नमः । लम्बोदराय तर्जनीभ्यां नमः शिरसे स्वाहा । उच्छिष्टमहात्मने मध्यमाभ्यां नमः शिखायै वषट् । आं क्रों ह्रीं क्लीं ह्रीं हुं घे घे अनामिकाभ्यां नमः कवचाय हुम् । उच्छिष्टाय कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । स्वाहा करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम्- शरचापगुणाङ्कुशान् स्वहस्तैः दधतं रक्तसरोरुहे निषण्णम् । विगताम्बरजायया प्रवृत्तं सुरते सन्ततमाश्रये गणेशम् ॥ शरान् धनुः पाशसृणी स्वहस्तैः दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्यां सुरतप्रवृत्तं उच्छिष्टमम्बासुतमाश्रयेऽहम् ॥ लं पृथिव्यात्मने गन्धं कल्पयामि नमः । हं आकाशात्मने पुष्पाणि कल्पयामि नमः । यं वाय्वात्मने धूपं कल्पयामि नमः । रं अग्न्यात्मने दीपं कल्पयामि नमः । वं अमृतात्मनेऽमृतं महानैवेद्यं कल्पयामि नमः । ॥ श्रीः ॥ महागणाधिनाथाख्योऽष्टाविंशत्यक्षरात्मकः । तारश्रीशक्तिकन्दर्पभूस्मृतिबिन्दुसंयुतः ॥ १॥ ङेन्तगणपतिप्रोक्तो वरवरदसंयुतः । सर्वजनद्वितीयान्त आदित्यशिवसंयुतः ॥ २॥ वशमानयसंयुक्तो वह्निजायासमर्पितः । गणकमुनिसन्दृष्टो निचृद्गायत्रभाषितः ॥ ३॥ सुरादिवन्द्यपादाब्जो मनुराजविजृम्भितः । इक्षुसागरमध्यस्थो रत्नद्वीपस्य मध्यगः ॥ ४॥ तरङ्गमालिकाधौतशीततरामलालयः । कल्पपादपसंशोभिमणिभूमिविराजितः ॥ ५॥ मृदुवातसमानीतदिव्यगन्धनिषेवितः । नानाकुसुमसङ्कीर्णः पक्षिवृन्दरवप्रियः ॥ ६॥ युगपदृतुषट्केन संसेवितपदद्वयः । नवरत्नसमाविद्धसिंहासनसमास्थितः ॥ ७॥ जपापुष्पतिस्कारिरक्तकान्तिसमुज्ज्वलः । वल्लभाश्लिष्टवामाङ्ग एकादशकरान्वितः ॥ ८॥ रत्नकुम्भाढ्यशुण्डाग्रो बीजापूरी गदाधरः । इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ॥ ९॥ पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत् । पञ्चावरणचक्रेशः षडाम्नायप्रपूजितः ॥ १०॥ मूलमन्त्राढ्यपूजाङ्कः षडङ्गपरिवारितः । परौघपूजनातुष्टो दिव्यौघादिनिषेवितः ॥ ११॥ श्रीश्रीपतिसन्तुष्टो गिरिजातत्पतिप्रियः । रतिमन्मथसम्प्रीतो महीवराहपूजितः ॥ १२॥ ऋद्ध्यामोदप्रपूजाकः समृद्धितत्पतिप्रियः । कान्तिसुमुखसुप्रीतो मदनावतिकदुर्मुखः ॥ १३॥ मदद्रवाविघ्नपूज्यो द्राविणीविघ्नकर्तृकः । वसुधाराशङ्खपूज्यो वसुमतिकपद्मकः ॥ १४॥ ब्राह्मीप्रिय ईश्वरीशः कौमारीसेविताङ्घ्रिकः । वैष्णव्यर्चितपद्द्वन्द्वो वाराहीसेविताङ्घ्रिकः ॥ १५॥ इद्राणीपूजितश्रीकश्चामुण्डाश्रितपादुकः । महालक्ष्मीमहामातृसम्पूजितपदद्वयः ॥ १६॥ ऐरावतसमारूढवज्रहस्तेन्द्रपूजितः । अजोपरि समारूढशक्तिहस्ताग्निसेवितः ॥ १७॥ महिषारूढदण्डाढ्ययमदेवप्रपूजितः । नरारोहिखड्गहस्तनिरृत्याश्रितपादुकः ॥ १८॥ मकरवाहनारूढपाशाढ्यवरुणार्चितः । रुरोरुपरिसन्तिष्ठद्ध्वजाढ्यश्वसनार्चितः ॥ १९॥ अश्ववाहनशङ्खाढ्यसोमदेवप्रपूजितः । वृषभवाहनारूढत्रिशूलाढ्येशसेवितः ॥ २०॥ पञ्चावरणपूजोद्यत्कारुण्याकुलमानसः । पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरणः ॥ २१॥ एकमूर्तिरष्टमूर्तिः पञ्चाशन्मूर्तिभेदकः । ब्रह्मचारिसमाख्याकः पत्नीसम्युतमूर्तिकः ॥ २२॥ नग्नपत्नीसमाश्लिष्टः सुरतानन्दतुन्दिलः । सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुधः ॥ २३॥ कामिनीचुम्बनायुक्तसदालिङ्गनतत्परः । अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराट् ॥ २४॥ मदापोलुब्धमधुपैर्विचुम्बितकपोलकः । कामुकः कामिनीकान्तः कान्ताधरमधुव्रतः ॥ २५॥ कामिनीहृदयाकर्षी वशागणनिषेवितः । ऐरावतादिदिङ्नागमिथुनाष्टकपूजितः ॥ २६॥ सदा जायाश्रितोऽश्रान्तो नग्नोपासकपूजितः । मांसाशी वारुणीमत्तो मत्स्यभुङ् मैथुनप्रियः ॥ २७॥ मुद्रासप्तकसम्प्रीतो मपञ्चकनिषेवितः । पञ्चाङ्गरागसुप्रीतः श‍ृङ्गाररसलम्पटः ॥ २८॥ कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तटः । उपासकवरिष्ठास्यवीट्या मौक्यनिरासकः ॥ २९॥ योन्याहितसुशुण्डाको योनिलालनलालसः । भगामोदसमाश्वासी भगचुम्बनलम्पटः ॥ ३०॥ कान्ताकुचसमालिङ्गिशुण्डामण्डितविग्रहः । उच्छिष्टाख्यगणेशान उच्छिष्टास्वादिसिद्धिदः ॥ ३१॥ उच्छिष्टपूजनरत उच्छिष्टजपसिद्धिदः । उच्छिष्टहोमसम्प्रीत उच्छिष्टव्रतधारकः ॥ ३२॥ उच्छिष्टतर्पणप्रीत उच्छिष्टमार्जने रतः । उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधितः ॥ ३३॥ उच्छिष्टविघ्नराजेन्द्र उच्छिष्टवस्तुपूजितः । उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशकः ॥ ३४॥ उच्छिष्टोपचाररत उच्छिष्टोपास्तिसिद्धिदः । मदिरानन्दसन्तोषी सदामत्तो मदोद्धतः ॥ ३५॥ मधुराशी मधूद्रिक्तो मधुपानपरायणः । मधुस्नानपरामोदो माधुर्यैकरसाश्रयः ॥ ३६॥ मदिरासिन्धुसम्भूतः सुधामज्जनतत्परः । मदिराम्बुधिसंस्थायी मदिरामज्जने रतः ॥ ३७॥ मदिरातर्पणप्रीतो मदिरामार्जनादृतः । मदिरामोदसन्तोषी मदिरामोदलोलुपः ॥ ३८॥ कादम्बरीरसोन्मत्तः कादम्बरीप्रियाश्रितः । द्राक्षारससमाह्लादी द्राक्षारसमदोल्वणः ॥ ३९॥ वारुणीमदघूर्णाम्बो वारुणीमदविह्वलः । नारिकेलरसास्वादी नारिकेलमधुप्रियः ॥ ४०॥ तालफलरसोन्मत्तो तालमद्यपरायणः । पानसमद्यसुप्रीतः कदलीमद्यपानकः ॥ ४१॥ दाडिमीरससम्प्रीतो गौडपानकलम्पटः । पौष्पीपानसदामत्तः पौष्पीकरण्डमण्डितः ॥ ४२॥ युवतीसुरतासक्तो युवैतीमणिते रतः । मोदप्रमोदकृत्सङ्गो भैरवानन्दवत्सलः ॥ ४३॥ शुक्लसेव्यः शुक्लतुष्टः शुक्लसिद्धिवरप्रदः । शुक्लधातुमहः पूज्य ओजश्शक्तिप्रकाशनः ॥ ४४॥ शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजितः । मुक्तकच्छो मुक्तकेशो नग्नकान्तासमाश्रितः ॥ ४५॥ ताम्बूलचर्वणायुक्तः कर्पूरवीटिकामदः । कान्ताचर्वितताम्बूलरसास्वादनलम्पटः ॥ ४६॥ विशेषतः कलियुगे सिद्धिदः सुरपादपः । महापद्मादिखर्वान्तनिधिपौष्कल्यपोषकः ॥ ४७॥ स्वल्पायाससुसम्प्रीतः कलौ तूर्णफलप्रदः । पितृकाननसंस्थायी पितृकाननसिद्धिदः ॥ ४८॥ माचीपत्रसमाराध्यो बृहतीपत्रतोषितः । दूर्वायुग्मनमस्याको धुत्तूरदलपूजितः ॥ ४९॥ विष्णुक्रान्तसपर्याको गण्डलीपत्रसेवितः । अर्कपत्रसुसंराध्योऽर्जुनपत्रकपूजितः ॥ ५०॥ नानापत्रसुसम्प्रीतो नानापुष्पसुसेवितः । सहस्रार्चनपूजायां सहस्रकमलप्रियः ॥ ५१॥ पुन्नागपुष्पसम्प्रीतो मन्दारकुसुमप्रियः । बकुलपुष्पसन्तुष्टो धुत्तूरसुमशेखरः ॥ ५२॥ रसालपुष्पसंशोभी केतकीपुष्पसुप्रियः । पारिजातप्रसूनाढ्यो माधवीकुन्दतोषितः ॥ ५३॥ शम्यालङ्कारसुप्रीतो मृणालपाटलीप्रियः । लक्षपङ्कजपूजायामणिमादिप्रसाधकः ॥ ५४॥ सम्हितापदपाठादिघनान्तज्ञानदायकः । अष्टावधानसन्धायी शतावधानपोषकः ॥ ५५॥ साहस्रिकावधानश्रीपरिपाटीप्रवर्धनः । मनश्चिन्तितविज्ञाता मनसा चिन्तितप्रदः ॥ ५६॥ भक्तत्राणव्यग्रचित्तः स्मृतिमात्राभयप्रदः । स्मृतिमात्राखिलत्राता साधकेष्टदतल्लजः ॥ ५७॥ स्वसाधकविपक्षच्छिद् विपक्षजनभक्षकः । व्याधिहन्ता व्यथाहन्ता महाव्याधिविनाशनः ॥ ५८॥ पैत्तिकार्तिप्रशमनः श्लैष्मिकस्य विनाशकः । वातिकज्वरविध्वंसी शूलगुल्मादिनाशनः ॥ ५९॥ नेत्ररोगप्रशमनो नित्यज्वरविनाशनः । कासादिव्याधिसंहर्ता सर्वज्वरविनाशनः ॥ ६०॥ आधिहन्ता तमोहन्ता सर्वापद्विनिवारकः । धनदायी यशोदायी ज्ञानदायी सुरद्रुमः ॥ ६१॥ कल्यत्वदायकश्चिन्तामणिरायुष्यदायकः । परकायप्रवेशादियोगसिद्धिविधायकः ॥ ६२॥ महाधनित्वसन्धाता धराधीशत्वदायकः । तापत्रयाग्निसन्तप्तसमाह्लादनकौमुदी ॥ ६३॥ जन्मव्याधिजरामृत्युमहाव्याधिविनाशकः । संसारकाननच्छेत्ता ब्रह्मविद्याप्रकाशकः ॥ ६४॥ संसारभयविध्वंसिपराकामकलावपुः । उच्छिष्टाख्यगणाधीशो वामाचरणपूजितः ॥ ६५॥ नवाक्षरीमन्त्रराजो दशवर्णकमन्त्रराट् । एकादशाक्षरीरूपः सप्तविंशतिवर्णकः ॥ ६६॥ षट्त्रिंशदर्णसम्पूज्यो बलिमन्त्रप्रपूजितः । द्वादशाक्षरसन्निष्ठ एकोनविंशतीष्टदः ॥ ६७॥ सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरूपकः । द्वात्रिंशदक्षरारूढोऽदक्षिणाचारसेवितः ॥ ६८॥ पञ्चावृतिकयन्त्रोद्धवरिवस्याविधिप्रियः । नववर्णादिमन्त्रौघसम्प्रपूजितपादुकः ॥ ६९॥ परौघीयगुरुव्यूहसन्तर्पणसुसाधितः । महत्पदसमायुक्तपादुकापूजनप्रियः ॥ ७०॥ दक्षिणाभिमुखेशस्य पूजनेन वरप्रदः । दिव्यवृन्दसिद्धवृन्दमानवौघनिषेवितः ॥ ७१॥ त्रिवारं मूलमन्त्रेण बिन्दुचक्रे सुतर्पितः । षडङ्गदेवतापूज्यः षण्मुखाम्नायराजितः ॥ ७२॥ तुषारसमशोभाकहृदयाम्बानमस्कृतः । स्फटिकाश्मसमानश्रीशिरोदेवीनिषेवितः ॥ ७३॥ श्यामशोभासमुज्जृम्भिशिखादेवीप्रपूजितः । इन्द्रनीलमणिच्छायकवचाम्बापरीवृतः ॥ ७४॥ कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृतः । आरुण्यौघनदीमज्जदस्त्राम्बासेविताङ्घ्रिकः ॥ ७५॥ वसुदलाब्जमूलेषु शक्त्यष्टकसमन्वितः । विद्यापूज्यो विश्वधात्रीभोगदार्चितपादुकः ॥ ७६॥ विघ्ननाशिकया पूज्यो निधिप्रदपरीवृतः । पापघ्निकापूज्यपादः पुण्यादेवीनिषेवितः ॥ ७७॥ अन्वर्थनामसंराजिशशिप्रभाप्रपूजितः । दलाष्टकस्य मध्येषु सिद्ध्यष्टकपरीवृतः ॥ ७८॥ अणिम्नीपूजितपदो महिम्न्यर्चितपादुकः । लघिन्मीचिन्तितपदो गरिम्णीपूजिताङ्घ्रिकः ॥ ७९॥ ईशित्वार्चितदेवेन्द्रो वशित्वार्चितवैभवः । प्राकाम्यदेवीसम्प्रीतः प्राप्तिसिद्धिप्रपूजितः ॥ ८०॥ बाह्याष्टदलराजीवे वक्रतुण्डादिरूपकः । वक्रतुण्ड एकदंष्ट्रो महोदरो गजाननः ॥ ८१॥ लम्बोदराख्यो विकटो विघ्नराड् धूम्रवर्णकः । बहिरष्टदलाग्रेषु ब्राह्म्यादिमातृसेवितः ॥ ८२॥ मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृतः । नृकपालादिसम्बिभ्रच्चन्द्रगौरमहेशिकः ॥ ८३॥ इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुकः । नीलमेघसमच्छायवैष्णवीसुपरिष्कृतः ॥ ८४॥ अञ्जनाद्रिसमानश्रीवाराहीपर्यलङ्कृतः । इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुतः ॥ ८५॥ शोणवर्णसमुल्लासिचामुण्डार्चितपादुकः । स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेवितः ॥ ८६॥ ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजितः । पञ्चावृतिनमस्यायामणिमादिप्रकाशकः ॥ ८७॥ सङ्गुप्तविद्यः सङ्गुप्तवरिवस्याविधिप्रियः । वामाचरणसुप्रीतः क्षिप्रसन्तुष्टमानसः ॥ ८८॥ कोङ्काचलशिरोवर्ती कोङ्काचलजनप्रियः । कोङ्काम्बुदजलास्वादी कावेरीतीरवासकः ॥ ८९॥ जाह्नवीमज्जनासक्तः कालिन्दीमज्जने रतः । शोणभद्राजलोद्भूतः शोणपाषाणरूपकः ॥ ९०॥ सरय्यापःप्रवाहस्थः नर्मदावारिवासकः । कौशिकीजलसंवासश्चन्द्रभागाम्बुनिष्ठितः ॥ ९१॥ ताम्रपर्णीतटस्थायी महासारस्वतप्रदः । महानदीतटावासो ब्रह्मपुत्राम्बुवासकः ॥ ९२॥ तमसातमाकारो महातमोऽपहारकः । क्षीरापगातीरवासी क्षीरनीरप्रवर्धकः ॥ ९३॥ कामकोटीपीठवासी शङ्करार्चितपादुकः । ऋश्यश‍ृङ्गपुरस्थायी सुरेशार्चितवैभवः ॥ ९४॥ द्वारकापीठसंवासी पद्मपादार्चिताङ्घ्रिकः । जगन्नाथपुरस्थायी तोटकाचार्यसेवितः ॥ ९५॥ ज्योतिर्मठालयस्थायी हस्तामलकपूजितः । विद्याभोगयशोमोक्षयोगलिङ्गप्रतिष्ठितः ॥ ९६॥ पञ्चलिङ्गप्रतिष्ठायी द्वादशलिङ्गसंस्थितः । कोलाचलपुरस्थायी कामेशीनगरेश्वरः ॥ ९७॥ ज्वालामुखीमुखस्थायी श्रीशैलकृतवासकः । लङ्केश्वरः कुमारीशः काशीशो मथुरेश्वरः ॥ ९८॥ मलयाद्रिशिरोवासी मलयानिलसेवितः । शोणाद्रिशिखरारूढः शोणाद्रीशप्रियङ्करः ॥ ९९॥ जम्बूवनान्तमध्यस्थो वल्मीकपुरमध्यगः । पञ्चाशत्पीठनिलयो पञ्चाशदक्षरात्मकः ॥ १००॥ अष्टोत्तरशतक्षेत्रोऽष्टोत्तरशतपूजितः । रत्नशैलकृतावासः शुद्धज्ञानप्रदायकः ॥ १०१॥ शातकुम्भगिरिस्थायी शातकुम्भोदरस्थितः । गोमयप्रतिमाविष्टः श्वेतार्कतनुपूजितः ॥ १०२॥ हरिद्राबिम्बसुप्रीतो निम्बबिम्बसुपूजितः । अश्वत्थमूलसंस्थायी वटवृक्षाधरस्थितः ॥ १०३॥ निम्बवृक्षस्य मूलस्थः प्रतिग्रामाधिदैवतम् । अश्वत्थनिम्बसंयोगे प्रियालिङ्गितमूर्तिकः ॥ १०४॥ गम्बीजरूप एकार्णो गणाध्यक्षो गणाधिपः । ग्लैम्बीजाख्यो गणेशानो गोङ्कार एकवर्णकः ॥ १०५॥ विरिरूपो विघ्नहन्ता दृष्टादृष्टफलप्रदः । पत्नीवराङ्गसत्पाणिः सिन्दूराभः कपालभृत् ॥ १०६॥ लक्ष्मीगणेशो हेमाभ एकोनत्रिंशदक्षरः । वामाङ्गाविष्टलक्ष्मीको महाश्रीप्रविधायकः ॥ १०७॥ त्र्यक्षरः शक्तिगणपः सर्वसिद्धिप्रपूरकः । चतुरक्षरशक्तीशो हेमच्छायस्त्रिणेत्रकः ॥ १०८॥ क्षिप्रप्रसादपङ्क्त्यर्णो रक्ताभः कल्पवल्लिभृत् । पञ्चवक्त्रः सिंहवाहो हेरम्बश्चतुरर्णकः ॥ १०९॥ सुब्रह्मण्यगणेशानो धात्वर्णः सर्वकामदः । अरुणाभतनुश्रीकः कुक्कुटोद्यत्करान्वितः ॥ ११०॥ अष्टाविंशतिवर्णात्ममन्त्रराजसुपूजितः । गन्धर्वसिद्धसंसेव्यो व्याघ्रद्विपादिभीकरः ॥ १११॥ मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधिः । जनसम्बाधसम्मोही नवद्रव्यविशेषकः ॥ ११२॥ कामनाभेदसंसिद्धविविधध्यानभेदकः । चतुरावृत्तिसन्तृप्तिप्रीतोऽभीष्टसमर्पकः ॥ ११३॥ चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पितः । शुण्डाग्रजलसन्तृप्तिकैवल्यफलदायकः ॥ ११४॥ शिरःकृतपयस्तृप्तिसर्वसम्पद्विधायकः । गुह्यदेशमधुद्रव्यसन्तृप्त्या कामदायकः ॥ ११५॥ नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायकः । पृष्ठदेशघृतद्रव्यतृप्तिभूपवशङ्करः ॥ ११६॥ एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिकः । ऊरुयुग्मकतैलीयतर्पणातिप्रमोदितः ॥ ११७॥ प्रीतिप्रवर्धकांसीयपयः पयःप्रतर्पणः । धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पणः ॥ ११८॥ अष्टद्रव्याहुतिप्रीतो विविधद्रव्यहोमकः । ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादितः ॥ ११९॥ मधुद्रव्यकहोमेन स्वर्णसमृद्धिवर्धकः । गोदुग्धकृतहोमेन गोसमृद्धिविधायकः ॥ १२०॥ आज्याहुतिहोमेन लक्ष्मीलासविलासकः । शर्कराहुतिहोमेन काष्ठाष्टकयशःप्रदः ॥ १२१॥ दधिद्रव्यकहोमेन सर्वसम्पत्तिदायकः । शाल्यन्नकृतहोमेनान्नसमृद्धिवितारकः ॥ १२२॥ सतण्डुलतिलाहुत्या द्रव्यकदम्बपूरकः । लाजाहुतिकहोमेन दिगन्तव्यापिकीर्तिदः ॥ १२३॥ जातीप्रसूनहोमेन मेधाप्रज्ञाप्रकाशकः । दूर्वात्रिकीयहोमेन पूर्णायुःप्रतिपादकः ॥ १२४॥ सुपीतसुमहोमेन वैरिभूपतिशिक्षकः । विभीतकसमिद्धोमैः स्तम्भोच्चाटनसिद्धिदः ॥ १२५॥ अपामार्गसमिद्धोमैः पण्ययोषावशङ्करः । एरण्डकसमिद्धोमैः रण्डासङ्घवशङ्करः ॥ १२६॥ निम्बद्रुदलहोमेन विद्वेषणविधायकः । घृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रदः ॥ १२७॥ तिलादिचतुराहुत्या सर्वप्राणिवशङ्करः । नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिदः ॥ १२८॥ त्रैलोक्यमोहनो विघ्नस्त्र्यधिकत्रिंशदर्णकः । द्वादशाक्षरशक्तीशः पत्नीवराङ्गहस्तकः ॥ १२९॥ मुक्ताचन्द्रौघदीप्ताभो विरिविघ्नेशपद्धतिः । एकादशाक्षरीमन्त्रौल्लासी भोगगणाधिपः ॥ १३०॥ द्वात्रिंशदर्णसंयुक्तो हरिद्रागणपो महान् । जगत्त्रयहितो भोगमोक्षदः कविताकरः ॥ १३१॥ षडर्णः पापविध्वंसी सर्वसौभाग्यदायकः । वक्रतुण्डाभिधः श्रीमान् भजतां कामदो मणिः ॥ १३२॥ मेघोल्कादिमहामन्त्रः सर्ववश्यफलप्रदः । आथर्वणिकमन्त्रात्मा रायस्पोषादिमन्त्रराट् ॥ १३३॥ वक्रतुण्डेशगायत्रीप्रतिपादितवैभवः । पिण्डमन्त्रादिमालान्तसर्वमन्त्रौघविग्रहः ॥ १३४॥ सञ्जप्तिहोमसन्तृप्तिसेकभोजनसाधितः । पञ्चाङ्गकपुरश्चर्योऽर्णलक्षजपसाधितः ॥ १३५॥ कोट्यावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायकः । कृष्णाष्टमीसमारब्धमासेनैकेन साधितः ॥ १३६॥ मातृकया पुटीकृत्य मासेनैकेन साधितः । भूतलिप्या पुटीकृत्य मासेनैकेन साधितः ॥ १३७॥ त्रिषष्ट्यक्षरसंयुक्तमातृकापुटसिद्धिदः । कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धिदः ॥ १३८॥ अर्केदुग्रहकालीनजपाज्झटितिसिद्धिदः । निशात्रिकालपूजाकमासेनैकेन सिद्धिदः ॥ १३९॥ मन्त्रार्णौषधिनिष्पन्नगुटिकाभिः सुसिद्धिदः । सूर्योदयसमारम्भदिनेनैकेन साधितः ॥ १४०॥ सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिदः । शिवोहम्भावनासिद्धसर्वसिद्धिविलासकः ॥ १४१॥ पराकामकलाध्यानसिद्धीश्वरत्वदायकः । अकारोऽग्रियपूजाकोऽमृतानन्ददायकः ॥ १४२॥ अनन्तोऽनन्तावतारेष्वनन्तफलदायकः । अष्टाङ्गपातसम्प्रीतोऽष्टविधभैथुनप्रियः ॥ १४३॥ अष्टपुष्पसमाराध्योऽष्टाध्यायीज्ञानदायकः । आरब्धकर्मनिर्विघ्नपूरयिताऽऽक्षपाटिकः ॥ १४४॥ इन्द्रगोपसमानश्रीरिक्षुभक्षणलालसः । ईङ्कारवर्णसम्बुद्धपराकामकलात्मकः ॥ १४५॥ ईशानपुत्र ईशान ईषणात्रयमार्जकः । उद्दण्ड उग्र उदग्र उण्डेरकबलिप्रियः ॥ १४६॥ ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः । ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ॥ १४७॥ ऋगर्थवेत्ता ॠकार ॠकाराक्षररूपधृक् । ऌवर्णरूपो ॡवर्णो ॡकाराक्षरपूजितः ॥ १४८॥ एधिताखिलभक्तश्रीरेधिताखिलसंश्रयः । एकाररूप ऐकार ऐम्पुटितस्मृतिन्दुकः ॥ १४९॥ ओङ्कारवाच्य ओङ्कार ओङ्काराक्षररूपधृक् । औङ्काराढ्यगभूयुक्त औम्पूर्वयुग्गकारकः ॥ १५०॥ अंशांशिभावसन्दृष्टोशांशिभावविवर्जितः । अः कारान्तसमस्ताच्कवर्णमण्डलपूजितः ॥ १५१॥ कतृतीयविसर्गाढ्यः कतृतीयार्णकेवलः । कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशकः ॥ १५२॥ खल्वाटभूमिसम्रक्षी खल्वाटबुद्धिभेषजम् । खट्वाङ्गायुधसंयुक्तः खड्गोद्यतकरान्वितः ॥ १५३॥ खण्डिताखिलदुर्भिक्षः खनिलक्ष्मीप्रदर्शकः । खदिराधिकसाराढ्यः खलीकृतविपक्षकः ॥ १५४॥ गान्धर्वविद्याचतुरो गन्धर्वनिकरप्रियः । घपूर्वबीजसन्निष्ठो घोरघर्घरबृंहितः ॥ १५५॥ घण्टानिनादसन्तुष्टो घार्णो घनागमप्रियः । चर्तुर्वेदेषु सङ्गीतश्चतुर्थवेदनिष्ठितः ॥ १५६॥ चतुर्दशसंयुक्तचतुर्युक्तचतुश्शतः । चतुर्थीपूजनप्रीतश्चतुरात्मा चतुर्गतिः ॥ १५७॥ चतुर्थीतिथिसम्भूतश्चतुर्वर्गफलप्रदः । छत्रीच्छद्मच्छलश्छन्दोवपुश्छन्दावतारकः ॥ १५८॥ जगद्बन्धुर्जगन्माता जगद्रक्षी जगन्मयः । जगद्योनिर्जगद्रूपो जगदात्मा जगन्निधिः ॥ १५९॥ जरामरणविध्वंसी जगदानन्ददायकः । जागुडानुकृतिच्छायो जाग्रदादिप्रकाशकः ॥ १६०॥ जाम्बूनदसमच्छायो जपसम्प्रीतमानसः । जपयोगसुसंवेद्यो जपतत्परसिद्धिदः ॥ १६१॥ जपाकुसुमसङ्काशो जातीपूजकवाक्प्रदः । जयन्तीदिनसुप्रीतो जयन्तीपूजिताङ्घ्रिकः ॥ १६२॥ जगद्भानतिरस्कारी जगद्भानतिरोहितः । जगद्रूपमहामायाधिष्ठानचिन्मयात्मकः ॥ १६३॥ झञ्झानिलसमश्वासी झिल्लिकासमकान्तिकः । झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णकः ॥ १६४॥ टङ्ककर्मविनाभावस्वयम्भूतकलेवरः । ठक्कुरष्ठक्कुराराध्यष्ठक्कुराकृतिशोभितः ॥ १६५॥ डिण्डिमस्वनसंवादी डमरुप्रियपुत्रकः । ढक्कावादनसन्तुष्टो ढुण्ढिराजविनायकः ॥ १६६॥ तुन्दिलस्तुन्दिलवपुस्तपनस्तापरोषहा । तारकब्रह्मसंस्थानस्तारानायकशेखरः ॥ १६७॥ तारुण्याढ्यवधूसङ्गी तत्त्ववेत्ता त्रिकालवित् । स्थूलः स्थूलकरः स्थेयः स्थितिकर्ता स्थितिप्रदः ॥ १६८॥ स्थाणुः स्थिरः स्थलेशायी स्थाण्डिलकुलपूजितः । दुःखहन्ता दुःखदायी दुर्भिक्षादिविनाशकः ॥ १६९॥ धनधान्यप्रदो ध्येयो ध्यानस्तिमितलोचनः । धीरो धीर्धीरधीर्धुर्यो धुरीणत्वप्रदायकः ॥ १७०॥ ध्यानयोगैकसन्दृष्टो ध्यानयोगैकलम्पटः । नारायणप्रियो नम्यो नरनारीजनाश्रयः ॥ १७१॥ नग्नपूजनसन्तुष्टो नग्ननीलासमावृतः । निरञ्जनो निराधारो निर्लेपो निरवग्रहः ॥ १७२॥ निशीथिनीनमस्याको निशीथिनीजपप्रियः । नामपारायणप्रीतो नामरूपप्रकाशकः ॥ १७३॥ पुराणपुरुषः प्रातस्सन्ध्यारुणवपुःप्रभः । फुल्लपुष्पसमूहश्रीसम्भूषितसुमस्तकः ॥ १७४॥ फाल्गुनानुजपूजाकः फेत्कारतन्त्रवर्णितः । ब्राह्मणादिसमाराध्यो बालपूज्यो बलप्रदः ॥ १७५॥ बाणार्चितपदद्वन्द्वो बालकेलिकुतूहलः । भवानीहृदयानन्दी भावगम्यो भवात्मजः ॥ १७६॥ भवेशो भव्यरूपाढ्यो भार्गवेशो भृगोः सुतः । भव्यो भव्यकलायुक्तो भावनावशतत्परः ॥ १७७॥ भगवान् भक्तिसुलभो भयहन्ता भयप्रदः । मायावी मानदो मानी मनोभिमानशोधकः ॥ १७८॥ महाहवोद्यतक्रीडो मन्दहासमनोहरः । मनस्वी मानविध्वंसी मदलालसमानसः ॥ १७९॥ यशस्वी यशाशंसी याज्ञिको याज्ञिकप्रियः । राजराजेश्वरो राजा रामो रमणलम्पटः ॥ १८०॥ रसराजसमास्वादी रसराजैकपूजितः । लक्ष्मीवान् लक्ष्मसम्पन्नो लक्ष्यो लक्षणसंयुतः ॥ १८१॥ लक्ष्यलक्षणभावस्थो लययोगविभावितः । वीरासनसमासीनो वीरवन्द्यो वरेण्यदः ॥ १८२॥ विविधार्थज्ञानदाता वेदवेदान्तवित्तमः । शिखिवाहसमारूढः शिखिवाहननाथितः ॥ १८३॥ श्रीविद्योपासनप्रीतः श्रीविद्यामन्त्रविग्रहः । षडाधारक्रमप्रीतः षडाम्नायेषु संस्थितः ॥ १८४॥ षड्दर्शनीपारदृश्वा षडध्वातीतरूपकः । षडूर्मिवृन्दविध्वंसी षट्कोणमध्यविन्दुगः ॥ १८५॥ षट्त्रिंशत्तत्त्वसन्निष्ठः षट्कर्मसन्घसिद्धिदः । षड्वैरिवर्गविध्वंसिविघ्नेश्वरगजाननः ॥ १८६॥ सत्ताज्ञानादिरूपाढ्यः साहसाद्भुतखेलनः । सर्परूपधरःसंवित् संसाराम्बुधितारकः ॥ १८७॥ सर्पसङ्घसमाश्लिष्टः सर्पकुण्डलितोदरः । सप्तविंशतिऋक्पूज्यः स्वाहायुङ्मन्त्रविग्रहः ॥ १८८॥ सर्वकर्मसमारम्भसम्पूजितपदद्वयः । स्वयम्भूः सत्यसङ्कल्पः स्वयम्प्रकाशमूर्तिकः ॥ १८९॥ स्वयम्भूलिङ्गसंस्थायी स्वयम्भूलिङ्गपूजितः । हव्यो हुतप्रियो होता हुतभुग् हवनप्रियः ॥ १९०॥ हरलालनसन्तुष्टो हलाहलाशिपुत्रकः । ह्रीङ्काररूपो हुङ्कारो हाहाकारसमाकुलः ॥ १९१॥ हिमाचलसुतासूनुर्हेमभास्वरदेहकः । हिमाचलशिखारूढो हिमधामसमद्युतिः ॥ १९२॥ क्षोभहन्ता क्षुधाहन्ता क्षैण्यहन्ता क्षमाप्रदः । क्षमाधारी क्षमायुक्तः क्षपाकरनिभः क्षमी ॥ १९३॥ ककारादिक्षकारान्तसर्वहल्कप्रपूजितः । अकारादिक्षकारान्तवर्णमालाविजृम्भितः ॥ १९४॥ अकारादिक्षकारान्तमहासरस्वतीमयः । स्थूलतमशरीराढ्यः कारुकर्मविजृम्भितः ॥ १९५॥ स्थूलतरस्वरूपाढ्यश्चक्रजालप्रकाशितः । स्थूलरूपसमुज्जृम्भी हृदब्जध्यातरूपकः ॥ १९६॥ सूक्ष्मरूपसमुल्लासी मन्त्रजालस्वरूपकः । सूक्ष्मतरतनुश्रीकः कुण्डलिनीस्वरूपकः ॥ १९७॥ सूक्ष्मतमवपुश्शोभी पराकामकलातनुः । पररूपसमुद्भासी सच्चिदानन्दविग्रहः ॥ १९८॥ परापरवपुर्धारी सप्तरूपविलासितः । षडाम्नायमहामन्त्रनिकुरुम्बनिषेवितः ॥ १९९॥ तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रियः । अघोरमुखसञ्जातदक्षिणाम्नायपूजितः ॥ २००॥ सद्योजातमुखोत्पन्नपश्चिमाम्नायसेवितः । वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजितः ॥ २०१॥ ईशानमुखसञ्जातोर्ध्वाम्नायमनुसेवितः । विमर्शमुखसञ्जातानुत्तराम्नायपूजितः ॥ २०२॥ तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रकः । सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रकः ॥ २०३॥ पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रकः । हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रकः ॥ २०४॥ शङ्कराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रकः । दक्षिणामूर्तिसन्निष्ठानुत्तराम्नायमन्त्रकः ॥ २०५॥ सहजानन्दसन्निष्ठसर्वाम्नायप्रकाशकः । पूर्वाम्नायकमन्त्रौघैः सृष्टिशक्तिप्रकाशकः ॥ २०६॥ दक्षिणाम्नायमन्त्रौघैः स्थितिशक्तिप्रकाशकः । पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशकः ॥ २०७॥ उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशकः । ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशकः ॥ २०८॥ अनुत्तरगमन्त्रौघैः सहजानन्दलासकः । सर्वाम्नायकसन्निष्ठानुस्यूतचित्सुखात्मकः ॥ २०९॥ सृष्टिकर्ता ब्रह्मरूपो गोप्ता गोविन्दरूपकः । संहारकृद्रुद्ररूपस्तिरोधायक ईश्वरः ॥ २१०॥ सदाशिवोऽनुग्रहीता पञ्चकृत्यपरायणः । अणिमादिगुणास्पृष्टो निर्गुणानन्दरूपकः ॥ २११॥ सर्वात्मभावनारूपः सुखमात्रानुभावकः । स्वस्वरूपसुसंशोभी ताटस्थिकस्वरूपकः ॥ २१२॥ षड्गुणोऽखिलकल्याणगुणराजिविराजितः । यज्ञाग्निकुण्डसम्भूतः क्षीरसागरभध्यगः ॥ २१३॥ त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थितः । ऊरीकृतेशपुत्रत्वो नीलवाणीविवाहितः ॥ २१४॥ नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिदः । विद्यावदसुरध्वंसी सुररक्षासमुद्यतः ॥ २१५॥ चिन्तामणिक्षेत्रवासी चिन्तिताखिलपूरकः । महापापौघविध्वंसी देवेन्द्रकृतपूजनः ॥ २१६॥ तारारम्भी नमोयुक्तो भगवत्पदडेन्तगः । एकदंष्ट्रायसंयुक्तो हस्तिमुखायसंयुतः ॥ २१७॥ लम्बोदरचतुर्थ्यन्तविराजितकलेवरः । उच्छिष्टपदसंराजी महात्मनेपदप्रियः ॥ २१८॥ आङ्क्रोंह्रीङ्गंसमायुक्तो घेधेस्वाहासमापितः । तारारब्धमहामन्त्रो हस्तिमुखान्तङेयुतः ॥ २१९॥ लम्बोदरायसंयुक्तो डेन्तोच्छिष्टमहात्मयुक् । पाशाङ्कुशत्रपामारो हृल्लेखासमलङ्कृतः ॥ २२०॥ वर्मघेघेसमारूढ उच्छिष्टायपदोपधः । वह्निजायासुंसम्पूर्णो मन्त्रराजद्वयान्वितः ॥ २२१॥ हेरम्बाख्यगणेशानो लक्ष्मीयुतगजाननः । तारुण्येशो बालरूपी शक्तीशो वीरनामकः ॥ २२२ ऊर्ध्वसमाख्य उच्छिष्टो विजयो नृत्यकर्मकः । विघ्नविध्वंसिविघ्नेशो द्विजपूर्वगणाधिपः ॥ २२३॥ क्षिप्रेशो वल्लभाजानिर्भक्तीशः सिद्धिनायकः । द्व्यष्टावतारसम्भिन्नलीलावैविध्यशोभितः ॥ २२४॥ द्वात्रिंशदवताराढ्यो द्वात्रिंशद्दीक्षणक्रमः । शुद्धविद्यासमारब्धमहाषोडशिकान्तिमः ॥ २२५॥ महत्पदसमायुक्तपादुकासम्प्रतिष्ठितः । प्रणवादिस्त्रितारीयुग् बालाबीजकशोभितः ॥ २२६॥ वाणीभूबीजसंयुक्तो हंसत्रयसमन्वितः । खेचरीबीजसम्भिन्नो नवनाथसुशोभितः ॥ २२७॥ प्रासादश्रीसमायुक्तो नवनाथविलोमकः । पराप्रासादबीजाढ्यो महागणेशमन्त्रकः ॥ २२८॥ बालाक्रमोत्क्रमप्रीतो योगबालाविजृम्भितः । अन्नपूर्णासमायुक्तो बाजिवाहाविलासितः ॥ २२९॥ सौभाग्यपूर्वविद्यायुङ् रमादिषोडशीयुतः । उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहः ॥ २३०॥ त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिकः । नकुलीमातृसंयुक्तो महामातङ्गिनीयुतः ॥ २३१॥ लघुवार्तालिकायुक्तस्वप्नवार्तालिकान्वितः । तिरस्कारिसमायुक्तो महावार्तालिकायुतः ॥ २३२॥ पराबीजसमायुक्तो लोपामुद्राविजृम्भितः । त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्वितः ॥ २३३॥ महावाक्यमहामातृचतुष्टयविलासितः । ब्रह्मण्यरसबीजाढ्यब्रह्मण्यद्वयशेभितः ॥ २३४॥ सप्तदशाक्षरीशैवतत्त्वविमर्शिनीयुतः । चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभितः ॥ २३५॥ रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रकः । गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजकः ॥ २३६॥ हंसत्रयसमारुढो रसावाणीसमर्पितः । श्रीविद्यानन्दनाथाढ्य आत्मकपदसंयुतः ॥ २३७॥ श्रीचर्यानन्दनाथाढ्यः श्रीमहापादुकाश्रितः । पूजयामिपदप्रीतो नमःपदसमापितः ॥ २३८॥ गुरुमुखैकसंवेद्यो गुरुमण्डलपूजितः । दीक्षागुरुसमारब्धशिवान्तगुरुसेवितः ॥ २३९॥ समाराध्यपदद्वन्द्वो गुरुभिः कुलरूपिभिः । विद्यावतारगुरुभिः सम्पूजितपदद्वयः ॥ २४०॥ परौघीयगुरुप्रीतो दिव्यौघगुरुपूजितः । सिद्धौघदेशिकाराध्यो मानवौघनिषेवितः ॥ २४१॥ गुरुत्रयसमाराध्यो गुरुषट्कप्रपूजितः । शाम्भवीक्रमसम्पूज्योऽशीत्युत्तरशतार्चितः ॥ २४२॥ क्षित्यादिरश्मिसन्निष्ठो लङ्घिताखिलरश्मिकः । षडन्वयक्रमाराध्यो देशिकान्वयरक्षितः ॥ २४३॥ सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभवः । पराकामकलारूपः शिवोहम्भावनात्मकः ॥ २४४॥ चिच्छक्त्याख्यपराहंयुक् सर्वज्ञानिस्वरूपकः । संविद्बिन्दुसमाख्यातोऽपराकामकलामयः ॥ २४५॥ मायाविशिष्टसर्वेशो महाबिन्दुस्वरूपकः । अणिमादिगुणोपेतः सर्जनादिक्रियान्वितः ॥ २४६॥ मायाविशिष्टचैतन्योऽगण्यरूपविलासकः । मिश्रकामकलारूपोऽग्नीषोमीयस्वरूपकः ॥ २४७॥ मिश्रबिन्दुसमाख्याको जीववृन्दसमाश्रितः । कामकलात्रयाविष्टो बिन्दुत्रयविलासितः ॥ २४८॥ कामकलात्रयध्यानसर्वबन्धविमोचकः । बिन्दुत्रयैकताध्यानविकलेवरमुक्तिदः ॥ २४९॥ महायजनसम्प्रीतो वीरचर्याधरप्रियः । अन्तर्यागक्रमाराध्यो बहिर्यागपुरस्कृतः ॥ २५०॥ आत्मयागसमाराध्यः सर्वविश्वनियामकः । मातृकादशकन्यासदेवताभावसिद्धिदः ॥ २५१॥ प्रपञ्चयागन्यासेन सर्वेश्वरत्वदायकः । लघुषोढामहाषोढान्यासद्वयसमर्चितः ॥ २५२॥ श्रीचक्रत्रिविधन्यासमहासिद्धिविधायकः । रश्मिमालामहान्यासवज्रवर्मस्वरूपकः ॥ २५३॥ हंसपरमहंसाख्यन्यासद्वयविभावितः । महापदावनीन्यासकलाशताधिकाष्टकः ॥ २५४॥ त्रिपुरापूजनप्रीतः त्रिपुरापूजकप्रियः । नवावृतिमहायज्ञसंरक्षणधुरन्धरः ॥ २५५॥ लम्बोदरमहारूपो भैरवीभैरवात्मकः । उत्कृष्टशिष्टसद्वस्तु परसंवित्तिरूपकः ॥ २५६॥ शुभाशुभकरं कर्म जीवयात्राविधायकः । सच्चित्सुखं नाम रूपमधिष्ठानात्मकः परः ॥ २५७॥ आरोपितजगज्जातं मिथ्याज्ञानममङ्गलम् । अकारादिक्षकारान्तः शब्दसृष्टिस्वरूपकः ॥ २५८॥ परावाग् विमर्शरूपी पश्यन्ती स्फोटरूपधृक् । मध्यमा चिन्तनारूपो वैखरी स्थूलवाचकः ॥ २५९॥ ध्वनिरूपो वर्णरूपी सर्वभाषात्मकोऽपरः । मूलाधारगतः सुप्तः स्वाधिष्ठाने प्रपूजितः ॥ २६०॥ मणिपूरकमध्यस्थोऽनाहताम्बुजमध्यगः । विशुद्धिपङ्कजोल्लास आज्ञाचक्राब्जवासकः ॥ २६१॥ सहस्राराम्बुजारूढः शिवशक्त्यैक्यरूपकः । मूलकुण्डलिनीरूपो महाकुण्डलिनीमयः ॥ २६२॥ षोडशान्तमहास्थानोऽस्पर्शाभिधमहास्थितिः । इदं नामसहस्रं तु सर्वसम्पत्प्रदायकम् । धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम् ॥ २६३॥ सर्ववन्ध्यात्वदोषघ्नं सत्सन्तानप्रदायकम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ २६४॥ धर्ममर्थं काममोक्षौ झटितीदं प्रदास्यति । निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत् ॥ २६५॥ इति उड्डामरेश्वरतन्त्रे क्षिप्रप्रसादनपटले गुह्यनाम उच्छिष्टगणेशसहस्रनामस्तोत्रम् । The text is not a conventional one and is supportive of higher level established Tantric practices. It is not meant for commonly devotional chanting. User dicretion is recommended. Proofread by krishna vallapareddy krishna321 at hotmail.com
% Text title            : guhyanAma uchChiShTagaNeshasahasranAmastotram
% File name             : guhyagaNeshasahasranAmastotram.itx
% itxtitle              : guhyanAmauchChiShTagaNeshasahasranAmastotram (uDDAmareshvaratantrAntargatam)
% engtitle              : guhyanAma uchChiShTagaNeshasahasranAmastotram
% Category              : sahasranAma, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : krishna vallapareddy krishna321 at hotmail.com
% Description-comments  : Vighneshvara stutimanjari Vol 3, page 466, Ed. S.V.Radhakrishnashastri
% Source                : uDDAmaheshvaratantra
% Indexextra            : (Scanned)
% Latest update         : June 13, 2010
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org