काशीप्रविष्टुं काश्मीरगणनायकादिपूजनमहत्त्ववर्णनम्

काशीप्रविष्टुं काश्मीरगणनायकादिपूजनमहत्त्ववर्णनम्

गौरीश‍ृङ्गमितिख्यातमेकश‍ृङ्गं वरं मुने । तत्रास्त्येकं सरो रम्यं दिव्योदकविराजितम् ॥ ७९॥ तत्तीरे विमलं लिङ्गमेकं गौर्या विनिर्मितम् । तत्र काश्मीरगणपः कश्चिद्गौर्यां विनिर्मितः ॥ ८०॥ तत्र गौर्यास्सरस्तीरे स्नानं कृत्वा विधानतः । लिङ्गं सम्पूज्य यत्नेन यथाशास्त्रं ततः परम् ॥ ८१॥ यथाशास्त्रं विधानेन काश्मीरगणनायकम् । पूजयस्वातियत्नेन गणानां त्वेति मन्त्रतः ॥ ८२॥ तत्प्रीत्यर्थं तपश्चर्या तत्र कार्या निरन्तरम् । पञ्चाग्नि मध्य(ध्ये)पञ्चास्यपुत्रध्यानपुरःसरम् ॥ ८३॥ गणानां त्वेति मन्त्रोऽयं सर्वविघ्नविनाशकः । जपनीयः प्रयत्नेन सर्वविघ्नोपशान्तये ॥ ८४॥ इत्युक्तस्तदनुज्ञातः सन्तुष्टः शैवपुङ्गवः । मत्वाकृतार्थमात्मानं गौरीश‍ृङ्गं जगाम च ॥ ८५॥ तस्मिन्सरोवरे रम्ये स्नानार्थं विधिपूर्वकम् । गौरीलिङ्गमितिख्यातं तल्लिङ्गमतिशोभनम् ॥ ८६॥ ततो बिल्वदलैः शुद्धैस्तत्सरोविमलैर्जलैः । पूजयामास पूतात्मा गौरीलिङ्गमघापहम् ॥ ८७॥ ततो गणाधिपं सम्यगभिषिच्य यथाविधि । चकार पूजां विमलैर्बिल्वदूर्वाङ्कुरैरपि ॥ ८९॥ प्रणम्य बहुधा स्तुत्वा मनुं विघ्नहरं जपन् । पञ्चाग्निमध्ये संविश्य तपश्चक्रे दृढव्रतः ॥ ९०॥ शैवमुग्रतपोनिष्ठं विलोक्येन्द्रादयः सुराः । कम्पायमानास्तिष्ठन्ति कृताञ्जलिपुटः सदा ॥ ९१॥ एवमेव स शैवेन्द्रस्त्रिपञ्चाशद्युगावधि । चक्रारोग्रं तपः सम्यक् त्यक्ताहारो भृशं मुदा ॥ ९२॥ ततः प्रसादितस्तेन गणेशो विघ्ननाशकः । विघ्नान्धकारमार्ताण्डशुण्डदण्डविराजितः ॥ ९३॥ प्रसन्ने सति विघ्नेशे स्तुत्वा नत्वा मुहुर्मुहुः । ययाचे स वरं स्वेष्टं सर्वविघ्नौघनाशकम् ॥ ९४॥ गौरीसुत गणाधीश गजवक्र शिवप्रिय । विष्णुपूजितपादाब्ज प्रसीद वरदो भव ॥ ९५॥ गणेश सर्वविघ्नेश विघ्नान् संहर संहर । काशीप्राप्तिर्यथा भूयात्तथा कुरु ममानघ ॥ ९६॥ काशीप्राप्त्यर्थमुद्युक्तं यथा मां विघ्नराशयः । न बाधन्ते सदा सम्यक् तथा कुरु गणेश्वर ॥ ९६॥ इति सम्प्रार्थितस्तेन विघ्नेशो विघ्ननाशकः । स प्रीतो वरदस्तस्मै ददौ वरमनुत्तमम् ॥ ९७॥ ततस्तदाज्ञया शैवः सन्तुष्टः सम्प्रणम्य च । काशीं शिवपुरीं रम्यामाजगाम महामतिः ॥ ९८॥ ततः काशीरक्षकांश्च सम्प्रसाद्य द्विजोत्तमः । स्नात्वा च शिवगङ्गायामाग्नीध्रेशं प्रणम्य च ॥ ९९॥ वक्रतुण्डेशमभ्यर्च्य नत्वा श्रीकालभैरवम् । वीरेशमभिवाद्यैव नत्वा पशुपतीश्वरम् ॥ १००॥ दण्डपाणिप्रसादेन ज्ञानवापीजलेऽमले । स्नात्वा ज्ञानेशमभ्यर्च्यं नत्वा पञ्चविनायकान् ॥ १०१॥ ढुण्ठिराजं समभ्यर्च्य सर्वविघ्नौघनाशकम् । ततो विवेश धर्मात्मा महाशैवाश्रयं सदा ॥ १०२॥ ॥ इति शिवरहस्यान्तर्गते हिमवान्प्रोक्तं काशीप्रविष्टुं काश्मीरगणनायकादिपूजनमहत्त्ववर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ७ । ७९-१०२॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 7 . 79-102.. Notes: Himvān हिमवान् speaks about a hill called Gaurīśṛṅga गौरीश‍ृङ्ग at Kāśī काशी, where Gaurī गौरी created a Śivaliṅga शिवलिङ्ग called gaurIliṅga गौरीलिङ्ग by a nearby pond, and also created a form of Gaṇeṣa गणेश called Kāśmīragaṇanāyaka काश्मीरगणनायक. Himvān हिमवान् further outlines the importance of worshiping the several Guardians of Kāśī काशी for being able to gain entry into Kāśī काशी; that include Kālabhairava कालभैरव, Vīreśvara वीरेश्वर, Paśupatīśvara पशुपतीश्वर, and Daṇḍapāṇi दण्डपाणि - whose Grace keeps the Waters of Jñānavāpī ज्ञानवापी pure. He also emphasizes the worship of several forms of Gaṇeṣa गणेश - like Vakratuṇḍa वक्रतुण्ड, PañcaVināyaka पञ्चविनायक, Ḍhuṇḍhirāja ढुण्ढिराज et al who remove the obstacles thus for the worshiper. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashipravishtum Kashmiragananayakadipujanamahattvavarnanam
% File name             : kAshIpraviShTuMkAshmIragaNanAyakAdipUjanamahattvavarNanam.itx
% itxtitle              : kAshmIragaNanAyakAdipUjanamahattvavarNanam kAshIpraviShTum (shivarahasyAntargatam)
% engtitle              : kAshIpraviShTuMkAshmIragaNanAyakAdipUjanamahattvavarNanam
% Category              : ganesha, shiva, pUjA, shivarahasya
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 7 | 79-102||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org