विघ्नराजस्तुतिः देवर्षिभिः प्रोक्ता

विघ्नराजस्तुतिः देवर्षिभिः प्रोक्ता

कश्यप उवाच - ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १॥ पूज्यं तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बधाअजलय आदरात् ॥ २॥ देवर्षय ऊचुः साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् । आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३॥ सर्वात्मकं बिम्बं अथो विधाय तेनैव द्वन्द्वं रचितं गणेश ! । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ८॥ भेदैर्विहीनं परं अप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५॥ दुण्ढे! त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च । उत्थानरूपं त्वं अपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६॥ त्वन्मायया मोहयुते परेशे अन्योन्यं आदौ मिलिते प्रकाशिन्! । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७॥ त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८॥ ताभ्यां मिलित्वा रचितं गणेश! विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ! प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९॥ एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिण्! । तद्भावशून्योऽसि जगानन! त्वं तं विघ्नराजं सततं भजामः ॥ १०॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज! भासि । साङ्क्य्स्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११॥ दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर ! साङ्क्युसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२॥ स्वानन्दवासी गणनायकस्त्वं आनन्दरूपोऽसि वदन्ति वेदाः । द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानन्दघनप्रकाशतं विघ्नराजं सततं भजामः ॥ १४॥ स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बं आद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव! तं विघ्नराजं सततं भजामः ॥ १५॥ सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्र मुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानं अपारं एवं विघ्नराजं सततं भजामः ॥ १६॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७॥ देहस्त्रसद्गह्ममयश्च तेऽयं सद्गूपतुण्डं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८॥ कर्याननं त्वां प्रवदन्ति तेन सन्तह् सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९॥ ब्रह्माऽहं एवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २०॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ! । स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१॥ अङ्गिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति । विघ्नेशनामाऽसि ततस्त्वं एव तं विघ्नराजं सततं भजामः ॥ २२॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३॥ विघ्नेश उवाच - भवत्कृतं इदं स्तोत्रं भवेत् सर्वार्थदायकम् । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६॥ विद्यामायुर्धनं धान्यं यशो धर्म तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥२७॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥२८॥ मारणोच्चाटनायं चानेन सिद्धं भविष्यति । परकत्यप्रशमनं भवेच्च मरणादिकम् ॥२०॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥३०॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा श‍ृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥३१॥ मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥३२॥ इति देवर्षिभिर्प्रोक्ता विघ्नराजस्तुतिः समाप्ता । ७.९ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Vighnaraja Stuti by Devarshi
% File name             : vighnarAjastutiHdevarShibhiHproktA.itx
% itxtitle              : vighnarAjastutiH devarShibhiH proktA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH devarShibhiH proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 7, Adhyaya 9
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org