श्रीविघ्नविनाशकस्तोत्रम्
ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाशो वरेण्यो
देवानामग्रगण्यः सकलगुणनिधिर्योऽग्रपूजाधिकारी ।
विद्याधीशो बलिष्ठः षडरिविदलनः सिद्धिबुद्धिप्रदाता
जीवानां मुक्तिहेतुर्जयति भवहरः श्रीगुरुः सौख्यसिन्धुः ॥ १॥
विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो
व्यक्ते वाव्यक्तरूपे प्रणववपुरयं ब्रह्मरूपः स्वमात्रः ।
यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्क्रियोऽपि
भक्तानां मुक्तिहेतौ विदलयतिकृतं मायिकस्याद्वयः सः ॥ २॥
सर्पोरज्जुर्हि यद्वन्न भुजग इति सा कथ्यते रज्जुसर्पे
विश्वं ब्रह्मैव तद्वन्नच जगदिति तत्खल्विदं ब्रह्मवाक्ये ।
सत्तासामान्यसरूपात्कथितमपि च यो दृश्यरूपो न तादृग्
दृश्यं यद्विघ्नकृत्स्यात्तदपनति यो बोधतो विघ्नहायम् ॥ ३॥
सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च
चैतन्यस्याद्वयत्वात् गदित इति च यो दृश्यरूपोऽप्यरूपः ।
माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति
सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योद्वयः सः ॥ ४॥
भात्यस्त्यानन्दरूपो सदसुखजडतारूपदृश्येस्ति यो वै
नित्यो नित्यादिकानां भवति किल तथा चेतनश्चेतनानाम् ।
सर्वस्यैतस्य मायाकृतसुखमिह यत्पार्थ्यते तद्गणेशो
यस्तं सर्वादिभूतं भजत जगति भो! सारभूतं वरेण्यम् ॥ ५॥
नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्म तन्मत्स्वरूपं
ज्ञात्वा विश्वातिभूतः सकलविदलयन् स्वार्चिषास्वस्थ आसे ।
माया तत्कार्यमेतत् स्पृशति न मयि वा दृश्यते नाविरासीन्
मयायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोहम् ॥ ६॥
ब्रह्मानन्द करोयमात्ममतिदः श्रीढुण्ढिराजस्तवः
विघ्नाघौघघनप्रचण्डपवनः कामेभपञश्चाननः ।
मायाव्यालकुलप्रमत्तगरुडो मोहाटवीहव्यवाड्
आनान्घ्यनिवारणैकतरणिर्भेदाब्धिकुम्भोद्भवः ॥ ७॥
इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्रीधरस्वामिना विरचितं श्रीविघ्नविनाशकस्तोत्रं सम्पूर्णम् ॥
रचनास्थकम् चिक्कमंगलूर, काॅफिउद्यानम् शके १८६५
Encoded and proofread by Sonali Upendra Dasare, Sumit