श्रीसिद्धिविनायकनामावली

श्रीसिद्धिविनायकनामावली

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ गणानामधिपश्चण्डो गजवक्त्रस्तिलोचनः । प्रीतो भवतु मे नित्यं वरदाता विनायकः ॥ गजाननं गणपतिं गुणानामालयं परम् । तं देवं गिरिजासूनुं वन्देऽहम् अमरार्चितम् ॥ गजवदनम् अचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रम् बृहदुदरम् अशेषं पूतरूपं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशम् पशुपतिसुतम् ईशं विघ्नराजं नमामि ॥ हरिहरविरिञ्चिवासवाद्यैः अपि कृतपूजमुपक्रमे क्रियायाः सकलदुरितहरम् अम्बिकायायाः प्रथमसुतं प्रणमामि विघ्नराजम् ॥ ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम् एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् । शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालं श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्त्थदः ॥ ॐ विनायकाय नमः । ॐ विघ्नराजाय नमः । ॐ गौरीपुत्राय नमः । ॐ गणेश्वराय नमः । ॐ स्कन्दाग्रजाय नमः । ॐ अव्ययाय नमः । ॐ पूताय नमः । ॐ दक्षाध्यक्ष्याय नमः । ॐ द्विजप्रियाय नमः । ॐ अग्निगर्भच्छिदे नमः । १० ॐ इन्द्रश्रीप्रदाय नमः । ॐ वाणीबलप्रदाय नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ शर्वतनयाय नमः । ॐ गौरीतनूजाय नमः । ॐ शर्वरीप्रियाय नमः । ॐ सर्वात्मकाय नमः । ॐ सृष्टिकर्त्रे नमः । ॐ देवोऽनेकार्चिताय नमः । ॐ शिवाय नमः । २० ॐ शुद्धाय नमः । ॐ बुद्धिप्रियाय नमः । ॐ शान्ताय नमः । ॐ ब्रह्मचारिणे नमः । ॐ गजाननाय नमः । ॐ द्वैमातुराय नमः । ॐ मुनिस्तुत्याय नमः । ॐ भक्त विघ्न विनाशनाय नमः । ॐ एकदन्ताय नमः । ॐ चतुर्बाहवे नमः । ३० ॐ शक्तिसंयुताय नमः । ॐ चतुराय नमः । ॐ लम्बोदराय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ कालाय नमः । ॐ ग्रहपतये नमः । ॐ कामिने नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ४० ॐ पाशाङ्कुशधराय नमः । ॐ छन्दाय नमः । ॐ गुणातीताय नमः । ॐ निरञ्जनाय नमः । ॐ अकल्मषाय नमः । ॐ स्वयंसिद्धार्चितपदाय नमः । ॐ बीजापूरकराय नमः । ॐ अव्यक्ताय नमः । ॐ गदिने नमः । ॐ वरदाय नमः । ५० ॐ शाश्वताय नमः । ॐ कृतिने नमः । ॐ विद्वत्प्रियाय नमः । ॐ वीतभयाय नमः । ॐ चक्रिणे नमः । ॐ इक्षुचापधृते नमः । ॐ अब्जोत्पलकराय नमः । ॐ श्रीधाय नमः । ॐ श्रीहेतवे नमः । ॐ स्तुतिहर्षताय नमः । ६० ॐ कलाद्भृते नमः । ॐ जटिने नमः । ॐ चन्द्रचूडाय नमः । ॐ अमरेश्वराय नमः । ॐ नागयज्ञोपवीतिने नमः । ॐ श्रीकान्ताय नमः । ॐ रामार्चितपदाय नमः । ॐ वृतिने नमः । ॐ स्थूलकान्ताय नमः । ॐ त्रयीकर्त्रे नमः । ७० ॐ सङ्घोषप्रियाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ स्थूलतुण्डाय नमः । ॐ अग्रजन्याय नमः । ॐ ग्रामण्ये नमः । ॐ गणपाय नमः । ॐ स्थिराय नमः । ॐ वृद्धिदाय नमः । ॐ सुभगाय नमः । ॐ शूराय नमः । ८० ॐ वागीशाय नमः । ॐ सिद्धिदाय नमः । ॐ दूर्वाबिल्वप्रियाय नमः । ॐ कान्ताय नमः । ॐ पापहारिणे नमः । ॐ कृतागमाय नमः । ॐ समाहिताय नमः । ॐ वक्रतुण्डाय नमः । ॐ श्रीप्रदाय नमः । ॐ सौम्याय नमः । ९० ॐ भक्ताकाङ्क्षितदाय नमः । ॐ अच्युताय नमः । ॐ केवलाय नमः । ॐ सिद्धाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ ज्ञानिने नमः । ॐ मायायुक्ताय नमः । ॐ दन्ताय नमः । ॐ ब्रह्मिष्ठाय नमः । ॐ भयावर्चिताय नमः । १०० ॐ प्रमत्तदैत्यभयदाय नमः । ॐ व्यक्तमूर्तये नमः । ॐ अमूर्तये नमः । ॐ पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनाय नमः । ॐ समस्तजगदाधाराय नमः । ॐ वरमूषकवाहनाय नमः । ॐ हृष्टस्तुताय नमः । ॐ प्रसन्नात्मने नमः । ॐ सर्वसिद्धिप्रदायकाय नमः । १०८ (१०९) ॥ इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ॥ Proofread by Avinash Sathaye sohum at ms.uky.edu
% Text title            : shrii siddhi vinaayaka naamaavali
% File name             : vinaayaka108-5.itx
% itxtitle              : siddhivinAyakAShTottarashatanAmAvaliH athavA gaNeshAShTottarashatanAmAvalI (vinAyakAya vighnarAjAya)
% engtitle              : siddhi vinAyaka nAmAvali (108 names)
% Category              : aShTottarashatanAmAvalI, ganesha, nAmAvalI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Proofread by          : Avinash Sathaye sohum at ms.uky.edu
% Latest update         : May 6, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org