॥ ईश्वरगीता कूर्मपुराणे ॥

प्रथमोऽध्यायः ऋषय ऊचुः भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः । ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१॥ तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः । ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२॥ तद्वदाशेषसंसारदुःखनाशमनुत्तमम् । ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३॥ त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो । अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४॥ श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् । सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५॥ अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६॥ तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् । व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७॥ पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः । प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८॥ पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् । समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ १.९॥ अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः । कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१०॥ ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् । ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११॥ इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः । शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२॥ ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् । मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१३॥ ३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४॥ व्यास उवाच वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा । सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५॥ सनत्कुमारः सनकस्तथैव च सनन्दनः । अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६॥ कणादः कपिलो योगी वामदेवो महामुनिः । शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७॥ परस्परं विचार्यैते संशयाविष्टचेतसः । तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८॥ अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् । नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९॥ संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः । प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२०॥ विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् । प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१॥ अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् । साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२॥ वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः । भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३॥ त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः । नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४॥ नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् । शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५॥ किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा । कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६॥ कः संसारपतीशानः को वा सर्वं प्रपश्यति । किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७॥ एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् । विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८॥ विभ्राजमानं विमलं प्रभामण्डलमण्डितम् । श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९॥ शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् । न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३०॥ तदन्तरे महादेवः शशाङ्काङ्कितशेखरः । प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१॥ निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् । तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२॥ जयेश्वर महादेव जय भूतपते शिव । जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३॥ सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक । जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४॥ सहस्रचरणेशान शंभो योगीन्द्रवन्दित । जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५॥ संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः । समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६॥ किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः । इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७॥ आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः । प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८॥ इमे हि मुनयो देव तापसाः क्षीणकल्पषाः । अभ्यागतानां शरणं सम्यग्दर्शनकाङ्क्षिणाम् ॥ १.३९॥ यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् । सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४०॥ त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव । ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१॥ एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् । प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२॥ संदर्शनान्महेशस्य शंकरस्याथ शूलिनः । कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३॥ द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् । ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४॥ निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् । सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५॥ अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् । किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्बभौ ॥ १.४६॥ तत्राससाद योगात्मा विष्णुना सह विश्वकृत् । तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७॥ ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः । विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८॥ यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा । अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९॥ यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते । तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५०॥ यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् । सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१॥ प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः । निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२॥ तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः । प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १॥
द्वितीयोऽध्यायः ईश्वर उवाच । अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् । यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१॥ इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः । न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२॥ गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः । वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३॥ आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४॥ सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः । स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५॥ अस्माद् विजायते विश्वमत्रैव प्रविलीयते । स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६॥ न चाप्ययं संसरति न च संसारमयः प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७॥ न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८॥ न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः । न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ २.९॥ न माया नैव च प्राणा चैतन्यं परमार्थतः । यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ॥ २.१०॥ तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः छायातपौ यथा लोके परस्परविलक्षणौ ॥ २.११॥ तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः । तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ॥ २.१२॥ नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि । पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ॥ २.१३॥ विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् । अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः ॥ २.१४॥ सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः । वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ॥ २.१५॥ भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् । तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥ २.१६॥ अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् । नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ॥ २.१७॥ अहंकाराविवेकेन कर्त्ताहमिति मन्यते । पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ॥ २.१८॥ प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः । तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ॥ २.१९॥ स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः । अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ॥ २.२०॥ रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः । कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ॥ २.२१॥ तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः । नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ॥ २.२२॥ एकः स भिद्यते शक्त्या मायया न स्वभावतः । तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ॥ २.२३॥ भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया । यथा हि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ॥ २.२४॥ अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते । यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ॥ २.२५॥ उपाधिहीनो विमलस्तथैवात्मा प्रकाशते । ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ॥ २.२६॥ अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः । कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ॥ २.२७॥ दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः । यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ॥ २.२८॥ रक्तिकाद्युपधानेन तद्वत् परमपूरुषः । तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ॥ २.२९॥ उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः । यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ २.३०॥ योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् । यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ २.३१॥ सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा । यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ २.३२॥ एकीभूतः परेणासौ तदा भवति केवलम् । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ २.३३॥ तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः । यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ २.३४॥ तत एव च विस्तारं ब्रह्म सम्पद्यते तदा । यदा पश्यति चात्मानं केवलं परमार्थतः ॥ २.३५॥ मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६॥ यदा जन्मजरादुःखव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७॥ यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८॥ तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः । अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९॥ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् । अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०॥ एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१॥ योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२॥ यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते । एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३॥ अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४॥ यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५॥ एष आत्माऽहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६॥ सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः । सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७॥ अपाणिपादो जवनो ग्रहीता हृदि संस्थितः । अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८॥ वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९॥ पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः । निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०॥ यन्न देवा विजानन्ति मोहिता मम मायया । वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥ २.५१॥ नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः । प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२॥ यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३॥ तेषां हि वशमापन्ना माया मे विश्वरूपिणी । लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५॥ तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः । मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २॥
तृतीयोऽध्यायः ईश्वर उवाच अव्यक्तादभवत् कालः प्रधानं पुरुषः परः । तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३॥ सर्वोपमानरहितं प्रमाणातीतगोचरम् । निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४॥ अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् । निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५॥ स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः । सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६॥ मया ततमिदं विश्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७॥ प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् । तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८॥ त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् । तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९॥ महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् । या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१०॥ पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् । अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११॥ आद्यो विकारः प्रकृतेर्महानिति च कथ्यते । विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२॥ एक एव महानात्मा सोऽहंकारोऽभिधीयते । स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३॥ तेन वेदयते सर्वं सुखं दुः खं च जन्मसु । स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४॥ तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु । स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५॥ कालः सृजति भूतानि कालः संहरति प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६॥ सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः । प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७॥ सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः । मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९॥ प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः । सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२०॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१॥ सोऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२॥ मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३॥
चतुर्थोऽध्यायः ईश्वर उवाच । वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः । माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१॥ नाहं तपोभिर्विविधैर्न दानेन न चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२॥ अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३॥ यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः । सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४॥ न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः । ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५॥ गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६॥ सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७॥ अहं हि सर्वहविषां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसम्प्लुतः ॥ ४.८॥ मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९॥ ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०॥ अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११॥ न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः । आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२॥ यो वै निन्दति तं मूढो देवदेवं स निन्दति । यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३॥ पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४॥ अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५॥ अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६॥ अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७॥ अहमेव हि संहर्त्ता संस्रष्टा परिपालकः । मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८॥ ममैव च परा शक्तिर्या सा विद्यते गीयते । नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९॥ अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः । आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०॥ एका सर्वान्तरा शक्तिः करोति विविधं जगत् । आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१॥ अन्या च शक्तिर्विपुला संस्थापयति मे जगत् । भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२॥ तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३॥ ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४॥ सर्वेषामेव भक्तानामिष्टः प्रियतमो मम । यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५॥ अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः । तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६॥ मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् । मय्येव संस्थितं चित्तं मया सम्प्रेर्यते जगत् ॥ ४.२७॥ नाहं प्रेरयिता विप्राः परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८॥ पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः । करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९॥ योगः सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः । योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०॥ महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः । प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१॥ यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२॥ सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः । नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३॥ इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४॥
पञ्चमोऽध्यायः व्यास उवाच । एतावदुक्त्वा भगवान् योगिनां परमेश्वरः । ननर्त्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ ५.१॥ तं ते ददृशुरीशानं तेजसां परमं निधिम् । नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२॥ यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः । तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३॥ यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् । नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४॥ यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् । जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५॥ यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः । ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६॥ योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः । तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८॥ सहस्रशिरसं देवं सहस्रचरणाकृतिम् । सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८॥ वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् । दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९॥ ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् । दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०॥ अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् । सृजन्तमनलज्वालं दहन्तमखिलं जगत् । नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११॥ महादेवं महायोगं देवानामपि दैवतम् । पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२॥ पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३॥ उमापतिं विरूपाक्षं योगानन्दमयं परम् । ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४॥ शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् । महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५॥ आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् । योगिनां परमं ब्रह्म योगिनां योगवन्दितम् । योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥॥ क्षणेन जगतो योनिं नारायणमनामयम् ॥ ५.१६॥ ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः । दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् । कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८॥ सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च । रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८॥ दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् । ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु शिरः सु भूयः ॥ ५.१९॥ ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् । समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०॥ मुनय ऊचुः त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१॥ त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३॥ हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः । संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४॥ त्वत्तो वेदाः सकलाः सम्प्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५॥ त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं सम्प्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६॥ पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८॥ ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् । तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८॥ स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९॥ एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् । वंन्द्यं त्वां ये शरणं सम्प्रपन्ना-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५.३०॥ भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः । स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१॥ एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ ५.३२॥ त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४॥ त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः । त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ५.३५॥ त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ५.३६॥ यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८॥ योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् । नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८॥ त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति । मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९॥ नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् । नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०॥ ततः स भगवान् प्रीतः कपर्दी वृषवाहनः । संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१॥ ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् । दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२॥ भगवन् भूतभव्येश गोवृषाङ्कितशासन । दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३॥ भवत्प्रसादादमले परस्मिन् परमेश्वरे । अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४॥ इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर । भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५॥ स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः । प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५॥
षष्ठोऽध्यायः ईश्वर उवाच । श्रृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः । वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१॥ सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२॥ सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः । मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३॥ भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४॥ सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५॥ ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च । सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६॥ एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः । संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.७॥ आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः । क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८॥ ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् । महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९॥ यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः । हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१०॥ तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् । दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११॥ स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः । दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२॥ स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् । भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३॥ योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः । ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४॥ योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः । मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि । पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६॥ भुक्तमाहारजातं च पचते तदहर्निशम् । वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१७॥ योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः । सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८॥ योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः । मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९॥ योऽपि संजीवनो नॄणां देवानाममृताकरः । सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२०॥ यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा । सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१॥ योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः । यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२॥ यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह । यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३॥ योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः । सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४॥ यः सर्वरक्षसां नाथस्तामसानां फलप्रदः । मन्नियोगादसौ देवो वर्त्तते निरृतिः सदा ॥ ६.२५॥ वेतालगणभूतानां स्वामी भोगफलप्रदः । ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६॥ यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः । रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२७॥ यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः । विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८॥ योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः । स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९॥ ये च प्रजानां पतयो मरीच्याद्या महर्षयः । सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३०॥ या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् । पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१॥ वाचं ददाति विपुलां या च देवी सरस्वती । साऽपीश्वरनियोगेन चोदिता सम्प्रवर्त्तते ॥ ६.३२॥ याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति । सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३॥ पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी । याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४॥ योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः । दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५॥ योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः । पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६॥ ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः । पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३७॥ आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ । अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८॥ गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः । यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९॥ कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः । ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४०॥ युगमन्वन्तराण्येव मम तिष्ठन्ति शासने । पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१॥ चतुर्विधानि बूतानि स्थावराणि चराणि च । नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२॥ पातालानि च सर्वाणि भुवनानि च शासनात् । ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३॥ अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया । प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४॥ ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः । वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६॥ योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् । माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४७॥ यो वै देहभृतां देवः पुरुषः पठ्यते परः । आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८॥ विधूय मोहकलिलं यया पश्यति तत् पदम् । साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९॥ बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥॥ मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५०॥ अहं हि भगवानीशः स्वयं ज्योतिः सनातनः । परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१॥ इत्येतत् परमं ज्ञानं युष्माकं कथितं मया । ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६॥
सप्तमोऽध्यायः ईश्वर उवाच । श्रृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः । यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१॥ परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् । नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२॥ अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३॥ योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा । आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४॥ रुद्राणां शंकरश्चाहं गरुडः पततामहम् । ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५॥ ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः । शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६॥ मुनीनामप्यहं व्यासो गणानां च विनायकः । वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७॥ पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः । वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८॥ अनन्तो भोगिनां देवः सेनानीनां च पावकिः । आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९॥ महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् । कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१०॥ प्रजापतीनां दक्षोऽहं निरृतिः सर्वरक्षसाम् । वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११॥ मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च । वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२॥ सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् । सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३॥ सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् । ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४॥ विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् । भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५॥ पाशानामस्म्यहं माया कालः कलयतामहम् । गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६॥ यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् । तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७॥ आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः । तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८॥ मायापाशेन बध्नामि पशूनेतान् स्वलीलया । मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९॥ मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते । मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२०॥ चतुर्विशतितत्त्वानि माया कर्म गुणा इति । एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१॥ मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४॥ चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् । अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५॥ सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् । साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६॥ सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् । गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७॥ धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ । मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८॥ अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् । क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९॥ एतेषामेव पाशानां माया कारणमुच्यते । मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३०॥ स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च । विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१॥ स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव । स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७॥
अष्टमोऽध्यायः ईश्वर उवाच । अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः । येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१॥ अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः । एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२॥ मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् । मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३॥ प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च । तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४॥ ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् । तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५॥ ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते । न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६॥ यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः । तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७॥ यो मामेवं विजानाति बीजिनं पितरं प्रभुम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८॥ ईशानः सर्वविद्यानां भूतानां परमेश्वरः । ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१०॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२॥ सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३॥ तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि । या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४॥ या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः । तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५॥ ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः । एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६॥ तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः । अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७॥ एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८॥
नवमोऽध्यायः ऋषय ऊचुः । निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः । तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ ९.१॥ ईश्वर उवाच । नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः । मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ॥ ९.२॥ अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया । तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ॥ ९.३॥ अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् । अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ९.४॥ तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः । एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ॥ ९.५॥ अहं तत् परमं ब्रह्म परमात्मा सनातनः । अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ९.६॥ अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः । तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ९.७॥ याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् । एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ९.८॥ पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् । अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ॥ ९.९॥ तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् । तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ ९.१०॥ तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ९.११॥ यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ ९.१२॥ वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ ९.१३॥ यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् । तदेवात्मानं मन्यमानोऽथ विद्वा- नात्मनन्दी भवति ब्रह्मभूतः ॥ ९.१४॥ तदप्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधामा । वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्त्तेत भूयः ॥ ९.१५॥ हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः । तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ ९.१६॥ ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूय साक्षात् । स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ ९.१७॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । तमेवैकं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ ९.१८॥ सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ ९.१९॥ इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ ९.२०॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः ॥ ९॥
दशमोऽध्यायः ईश्वर उवाच । अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् । स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१॥ अव्यक्तं कारणं यत्तदक्षरं परमं पदम् । निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२॥ तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः । पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३॥ अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः । नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४॥ एतत्तत्परमं ज्ञानं केवलं कवयो विदुः । अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५॥ यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् । ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६॥ येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् । आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७॥ ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् । भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८॥ साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् । नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९॥ भजन्ते परमानन्दं सर्वगं जगदात्मकम् । स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१०॥ एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् । निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११॥ तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् । स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२॥ न तत्र सूर्यः प्रविभातीह चन्द्रो नक्षत्राणां गणो नोत विद्युत् । तद्भासितं ह्यखिलं भाति विश्वं अतीवभासममलं तद्विभाति ॥ १०.१३॥ विश्वोदितं निष्कलं निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति । अत्रान्तरे ब्रह्मविदोऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४॥ नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः । तमोमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५॥ न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः । न चेतनोऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ १०.१६॥ इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् । जानाति योगी विजनेऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमोऽध्यायः ॥ १०॥
एकादशोऽध्यायः ईश्वर उवाच । अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ ११.१॥ योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् । प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ ११.२॥ योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते । योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ११.३॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा । ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ॥ ११.४॥ योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः । अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ११.५॥ शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ११.६॥ यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ११.७॥ ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे । सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ११.८॥ यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् । सर्वेषामेव योगानां स योगः परमो मतः ॥ ११.९॥ सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः । न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ ११.१०॥ प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११.११॥ मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः । तत्साधनानि चान्यानि युष्माकं कथितानि तु ॥ ११.१२॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ ११.१३॥ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ॥ ११.१४॥ अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् । विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ॥ ११.१५॥ सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् । यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ ११.१६॥ परद्रव्यापहरणं चौर्यादऽथ बलेन वा । स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ ११.१७॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ ११.१८॥ द्रव्याणामप्यनादानमापद्यपि तथेच्छया । अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ॥ ११.१९॥ तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् । समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ ११.२०॥ उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ ११.२१॥ वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः । सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ ११.२२॥ स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः । उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ ११.२३॥ यः शब्दबोधजननः परेषां श्रृण्वतां स्फुटम् । स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ ११.२४॥ ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् । उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ॥ ११.२५॥ यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् । चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ ११.२६॥ यदृच्छालाभतो नित्यमलं पुंसो भवेदिति । प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ॥ ११.२७॥ बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः । मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ॥ ११.२८॥ स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्मभिः । सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ ११.२९॥ यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत । प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ११.३०॥ उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः । य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ ११.३१॥ मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशान्मात्रिकोत्तमः ॥ ११.३२॥ यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् । मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ११.३३॥ सगर्भमाहुः सजपमगर्भं विजपं बुधाः । एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ११.३४॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ११.३५॥ रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ११.३६॥ रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः । साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ११.३७॥ इन्द्रियाणां विचरतां विषयेषु स्वबावतः । निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ११.३८॥ हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके । एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ११.३९॥ देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः । वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ॥ ११.४०॥ एकाकारः समाधिः स्याद् देशालम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ११.४१॥ धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ११.४२॥ आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा । साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ११.४३॥ ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे । समासीनात्मनः पद्ममेतदासनमुत्तमम् ॥ ११.४४॥ एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः । आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ॥ ११.४५॥ उभे कृत्वा पादतले जानूर्वोरन्तरेण हि । समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ११.४६॥ अदेशकाले योगस्य दर्शनं हि न विद्यते । अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ॥ ११.४७॥ जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे । सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ॥ ११.४८॥ अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते । नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ ११.४९॥ सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु । नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ११.५०॥ गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते । युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ११.५१॥ नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् । गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ११.५२॥ आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा । नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ११.५३॥ कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् । स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ११.५४॥ शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाऽथ पङ्कजम् । धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ११.५५॥ ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् । चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ११.५६॥ सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् । ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ११.५७॥ चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् । तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ११.५८॥ ध्यायीताकाशमध्यस्थमीशं परमकारणम् । तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ॥ ११.५९॥ एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते । चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ११.६०॥ आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् । मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ११.६१॥ चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् । ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ११.६२॥ अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् । तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ११.६३॥ ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् । विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ११.६४॥ संस्थाप्य मयि चात्मानं निर्मले परमे पदे । प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ११.६५॥ मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् । तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥ ११.६६॥ चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् । एष पाशुपतो योगः पशुपाशविमुक्तये ॥ ११.६७॥ सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः । एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ॥ ११.६८॥ द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् । ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ॥ ११.६९॥ संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः । एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ॥ ११.७०॥ तस्मादात्मुगुणोपेतो मद्व्रतं वोढुमर्हति । वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥ ११.७१॥ बहवोऽनेन योगेन पूता मद्भावमागताः । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ ११.७२॥ ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् । अथवा भक्तियोगेन वैराग्येण परेण तु ॥ ११.७३॥ चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः । सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ॥ ११.७४॥ प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् । अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ॥ ११.७५॥ निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः । संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ॥ ११.७६॥ मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः । यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ॥ ११.७७॥ हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः । अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ११.७८॥ सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः । तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ॥ ११.७९॥ अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति । सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ॥ ११.८०॥ मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् । चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥ ११.८१॥ निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥ ११.८२॥ कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते । निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥ ११.८३॥ शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् । यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ॥ ११.८४॥ कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् । मन्मना मन्नमस्कारो मद्याजी मत्परायणः ॥ ११.८५॥ मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् । मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ॥ ११.८६॥ कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः । एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ॥ ११.८७॥ नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता । मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ॥ ११.८८॥ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् । येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ॥ ११.८९॥ तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् । ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ॥ ११.९०॥ मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः । तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ॥ ११.९१॥ मामेव संश्रयेदीशं स याति परमं पदम् । त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ॥ ११.९२॥ यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् । येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ॥ ११.९३॥ एकेन जन्मना तेषां ददामि परमैश्वरम् । परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ॥ ११.९४॥ ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् । ये चान्ये नियता भक्ता भावयित्वा विधानतः ॥ ११.९५॥ यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् । जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ॥ ११.९६॥ रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् । सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ॥ ११.९७॥ तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् । अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ॥ ११.९८॥ काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् । यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ॥ ११.९९॥ यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः । अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ॥ ११.१००॥ एकाकी यतचित्तात्मा स याति परमं पदम् । वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ॥ ११.१०१॥ सोऽपीश्वरप्रसादेन याति तत् परमं पदम् । तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ॥ ११.१०२॥ ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् । वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ॥ ११.१०३॥ तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् । येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ॥ ११.१०४॥ सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः । किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ॥ ११.१०५॥ धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः । एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ॥ ११.१०६॥ धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे । व्यास उवाच । इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ॥ ११.१०७॥ व्याजहार समासीनं नारायणमनामयम् । मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ॥ ११.१०८॥ दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् । उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ॥ ११.१०९॥ हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः । भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ॥ ११.११०॥ उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम । अयं नारायणो योऽहमीश्वरो नात्र संशयः ॥ ११.१११॥ नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् । ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ॥ ११.११२॥ सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता । ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ॥ ११.११३॥ ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः । ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ॥ ११.११४॥ एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः । तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ ११.११५॥ मामेव सम्प्रपश्यध्वं पूजयध्वं तथैव हि । येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ॥ ११.११६॥ ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः । मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ॥ ११.११७॥ मोचयामि श्वपाकं वा न नारायणनिन्दकम् । तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ॥ ११.११८॥ अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि । एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ॥ ११.११९॥ अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् । नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ॥ ११.१२०॥ जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः । ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ॥ ११.१२१॥ साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् । गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ॥ ११.१२२॥ प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः । इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ॥ ११.१२३॥ विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः । एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ॥ ११.१२४॥ नारायणो महायोगी जगामादर्शनं स्वयम् । तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ॥ ११.१२५॥ नारायणं च भूतादिं स्वानि स्थानानि लेभिरे । सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ॥ ११.१२६॥ दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु । सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ॥ ११.१२७॥ प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः । अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ॥ ११.१२८॥ जैगीषव्याय कपिलस्तथा पञ्चशिखाय च । पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ॥ ११.१२९॥ लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् । ममोवाच पुरा देवः सतीदेहभवाङ्गजः ॥ ११.१३०॥ वामदेवो महायोगी रुद्रः किल पिनाकधृक् । नारायणोऽपि भगवान् देवकीतनयो हरिः ॥ ११.१३१॥ अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् । यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ॥ ११.१३२॥ विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् । शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ॥ ११.१३३॥ भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् । भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ॥ ११.१३४॥ प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् । वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ॥ ११.१३५॥ पूजयध्वं महादेव गोपतिं व्यालभूषणम् । एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ॥ ११.१३६॥ प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् । अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ॥ ११.१३७॥ साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् । भवत्प्रसादादचला शरण्ये गोवृषध्वजे ॥ ११.१३८॥ इदानीं जायते भक्तिर्या देवैरपि दुर्लभा । कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ॥ ११.१३९॥ येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः । त्वत्संनिधावेव सूतः श्रृणोतु भगवद्वचः ॥ ११.१४०॥ तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् । यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ॥ ११.१४१॥ पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने । श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ॥ ११.१४२॥ मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः । य इमं पठते नित्यं संवादं कृत्तिवाससः ॥ ११.१४३॥ सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते । श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ॥ ११.१४४॥ यो वा विचारयेदर्थं स याति परमां गतिम् । यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ॥ ११.१४५॥ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते । तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ॥ ११.१४६॥ श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ ११.१४७॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः ॥ ११॥ sa.wikisource.org kUrmapurANa uttarabhAge adhyAya 1-11 https://archive.org/details/puran_kurma

% Text title            : IshvaragItA kUrmapuRANAntargatam
% File name             : IshvaragItAkUrmaP.itx
% itxtitle              : IshvaragItA (kUrmapurANAntargatA)
% engtitle              : Ishvaragita from Kurmapurana
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Translated by         : https://archive.org/details/puran_kurma
% Description-comments  : kUrmapurANa uttarabhAga adhyAya 1-11
% Indexextra            : need to proofread (meaning, scanned) Kurma Purana Uttara vibhaga , Ch. 1-11
% Latest update         : May 1, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP