ऋषभगीता भागवतमहापुराणान्तर्गता
पञ्चमोऽध्यायः ५.५
ऋषभ उवाच
नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वंशुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥
महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ २॥
ये वा मयीशे कृतसौहृदार्थाजनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायाऽऽत्मजरातिमत्सुन प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥
नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ॥ ४॥
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वैकर्मात्मकं येन शरीरबन्धः ॥ ५॥
एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवेन मुच्यते देहयोगेन तावत् ॥ ६॥
यदा न पश्यत्ययथा गुणेहांस्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ॥ ७॥
पुंसः स्त्रिया मिथुनीभावमेतन्तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्यमोहोऽयमहं ममेति ॥ ८॥
यदा मनो हृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मान्मुक्तः परं यात्यतिहाय हेतुम् ॥ ९॥
हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥
मत्कर्मभिर्मत्कथया च नित्यम्मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ॥ ११॥
अध्यात्मयोगेन विविक्तसेवयाप्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् ॥ १२॥
सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तोलिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥
कर्माशयं हृदयग्रन्थिबन्धमविद्ययाऽऽसादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन् मनुजोऽर्थं लभेत निपातयन् नष्टदृशं हि गर्ते ॥ १५॥
लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान् समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः ॥ १६॥
कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥
गुरुर्न स स्यात्स्वजनो न स स्यात्
पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्या-
न्न मोचयेद्यः समुपेतमृत्युम् ॥ १८॥
इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः ॥ १९॥
तस्माद्भवन्तो हृदयेन जाताःसर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥
भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥
देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः ॥ २२॥
न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे ॥ २३॥
धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र ॥ २४॥
मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥
सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुताध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥
मनो वचो दृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥
श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि
लोकानुशासनार्थं महानुभावःपरमसुहृ-
द्भगवान् ऋषभापदेश उपशमशीलाना-
मुपरतकर्मणां महामुनीनां भक्तिज्ञान-
वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः
स्वतनयशतज्येष्ठं परमभागवतं
भगवज्जनपरायणं भरतं धरणिपालनाया-
भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-
परिग्रह उन्मत्त इव गगनपरिधानः
प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ २८॥
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषो-
ऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोष-
सार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः
परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडना-
वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवातदुरुक्तै-
स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे
सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेना-
समारोपिताहम्ममाभिमानत्वादविखण्डितमनाः
पृथिवीमेकचरः परिबभ्राम ॥ ३०॥
अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदना-
द्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदन-
महोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारो-
ऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१॥
यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति
खादत्यवमेहति हदति स्म चेष्टमान उच्चरित
आदिग्धोद्देशः ॥ ३२॥
तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं
दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥
इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभो-
ऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूताना-
मात्मभूते भगवति वासुदेव आत्मनोऽव्यवधाना-
नन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि
वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५॥
ॐ नमो भगवते वासुदेवाय ।
षष्ठोऽध्यायः ५.६
राजोवाच
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित-
कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति
यदृच्छयोपगतानि ॥ १॥
ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भ-
मनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥
तथा चोक्तं -
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥
अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितै-
रविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहित-
मनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ६॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत
ऋषभस्य योगमायावासनया देह इमां
जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्
देशान् यदृच्छयोपगतः कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव
मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥
अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे
भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय
कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते ॥ ९॥
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः
स्वविधिनियोगशौचचारित्रविहीनादेवहेलना-
न्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नाना-
नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनो-
पहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः
प्रायेण भविष्यन्ति ॥ १०॥
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-
ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११॥
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥
तस्यानुगुणान् श्लोकान् गायन्ति -
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेःकर्माणि भद्राण्यवतारवन्ति ॥ १३॥
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ॥ १४॥
को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ताह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन-
मिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि
समनुवर्तते ॥ १६॥
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार-
परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि
स्वयमासादितन्नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्थाः ॥ १७॥
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥
Proofread by Sunder Hattangadi, PSA Easwaran