अनुगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
कृष्णेनाश्वारस्यमानोऽथ मुनिभिर्भ्रातृभिस्तथा ।
अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ १४.५०॥
द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने ।
अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ १४.५१॥
हेमरत्नलताकान्ते विकासिकनकाम्बुजे ।
अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ १४.५२॥
कथान्ते तत्र कंसारिं सुभद्रावल्लभोऽवदत् ।
युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ १४.५३॥
विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् ।
इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवोऽब्रवीत् ॥ १४.५४॥
अहो त्वयावधानेन न श्रुतं तदबुद्धिना ।
न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ १४.५५॥
ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः ।
सिद्धः पृष्टोऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ १४.५६॥
अस्मिन्नसत्यसङ्घाते भूतानां पाञ्चभौतिके ।
गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ १४.५७॥
अहङ्कारैकसाराणां देहिनां विस्मृतात्मनाम् ।
चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ १४.५८॥
देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः ।
तारारूपा विमानानि भजन्ते नरकाणि वा ॥ १४.५९॥
ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् ।
शुक्ररूपो विशत्यात्मा योन्यां शोणितसम्प्लुतः ॥ १४.६०॥
निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे ।
निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ १४.६१॥
यथा वा कुसुमामोदः प्रविशत्यन्तरेऽनिले ।
रागः सङ्क्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ १४.६२॥
तथा दुर्लक्ष्यसञ्चारो गर्भमात्मा प्रधावति ।
बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ १४.६३॥
जातस्य जायते तस्य वर्धमानस्य वर्धते ।
तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ १४.६४॥
विवेकाद्दुःखसंयोगाद्वैराग्यं गाढमाश्रितः ।
नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ १४.६५॥
पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु ।
निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ १४.६६॥
सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् ।
आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ १४.६७॥
इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत ।
इदमन्यच्च कौन्तेय श्रेयसे प्रयतः शृणु ॥ १४.६८॥
उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा ।
गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ १४.६९॥
इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः ।
अग्निर्वैश्वानरो नाम स्थितोऽन्तः किल देहिनाम् ॥ १४.७०॥
इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः ।
विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः ।
तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ १४.७१॥
इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा ।
परस्परोपकारेण प्रीयते देहसङ्गमे ॥ १४.७२॥
मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा ।
अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ १४.७३॥
जितेन्द्रियस्य नो किञ्चिदिदं तस्यैव चाखिलम् ।
विषया विषयस्येति जनको विप्रमभ्यदात् ॥ १४.७४॥
तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया ।
त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ १४.७५॥
गतिस्तवापि कल्याणि मद्भावसदृशी सदा ।
ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ १४.७६॥
एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी ।
क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ १४.७७॥
श्रुत्वैतदर्जुनः कृष्णं बभाषे विस्मयाकुलः ।
योगीन्द्रो ब्राह्मणः कोऽसौ क्वास्ते वा सा च तद्वधूः ॥ १४.७८॥
इत्युक्तः कैटभारातिः पुनरूचे धनञ्जयम् ।
शिष्येण पृष्टः सर्वज्ञः पुरा गुरुरभाषत ॥ १४.७९॥
बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः ।
श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयम्भुवा ॥ १४.८०॥
गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् ।
भावोऽयं प्राणिनां शश्वदल्पोऽप्यायात्यनल्पताम् ॥ १४.८१॥
विचित्रः किल सर्गोऽयमहङ्काराद्विनिर्गतः ।
तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ १४.८२॥
जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः ।
अहङ्कारः स मनसो लीलया केन भेद्यते ॥ १४.८३॥
अविद्या तानवेनैव शनैः सन्न्यस्तकर्मणः ।
विकल्पद्वन्द्वविरतौ ज्ञानालोकः प्रजायते ॥ १४.८४॥
ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् ।
सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ १४.८५॥
इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा ।
नानानिदर्शनोपेतं कथितं भवशान्तये ॥ १४.८६॥
अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम ।
इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ १४.८७॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता अनुगीता समाप्ता ।