श्रीमदय्यप्पगीता

श्रीमदय्यप्पगीता

॥ ॐ ॥ ॥ शरणमय्यप्प ॥

अनुक्रमणिका

१. अय्यप्पयोगो नाम प्रथमोऽध्यायः । २. शास्तृयोगो नाम द्वितीयोऽध्यायः । ३. अध्यात्मयोगो नाम तृतीयोऽध्यायः । ४. भक्तियोगो नाम चतुर्थोऽध्यायः । ५. ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः । ६. विरागयोगो नामषष्ठोऽध्यायः । ७. विचारयोगो नाम सप्तमोऽध्यायः । ८. निर्ममयोगो नामाष्टमोऽध्यायः । ९. मन्त्रयोगो नाम नवमोऽध्यायः । १०. धर्मयोगो नाम दशमोऽध्यायः । ११. कर्मयोगो नामैकादशोऽध्यायः । १२. गुणयोगो नाम द्वादशोऽध्यायः । १३. ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः । १४. अमरासुरसम्पद्विभागयोगो नाम चतुर्दशोऽध्यायः । १५. विश्वासयोगो नाम पञ्चदशोऽध्यायः । १६. भूमिकायोगो नाम षोडशोऽध्यायः । १७. शरणागतियोगो नाम सप्तदशोऽध्यायः । १८. अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः ।

अथ प्रथमोऽध्यायः ।

सम्बुध्यर्थाऽयिशब्दप्रकटितमहिमा सानुरागं समन्तात् यो भूयोऽपः प्रपाति प्रणतसुरनरानाशुशोकार्णवेभ्यः । यश्शास्ता सर्वभूतं निजजनसुखरान् भीतिराशीन् हिनस्ति । अय्यप्पन्तन्नमामो हरिहरतनयं बोघसौन्दर्यगात्रम् ॥ १॥ जीवनेन विना जीवा न जीवन्ति जगत्त्रये । ततो जीवनगोप्तारमय्यप्पं प्रणमाम्यहम् ॥ २॥ वैष्णव्यां मोहिनीदेव्याम्मृडवीर्येण तेजसा । पुरा बभूव चाय्यप्पो धर्मरक्षणहेतवे ॥ ३॥ प्रत्यङ्ङात्मस्वरूपे दृढतरकृतचिन्मुद्रया भद्रया हि सिद्धश्रीवस्त्रबन्धे स्थिरतरविधिना संस्थितश्शान्तमूर्तिः । वाराणस्यां महत्यां स्वचरणरजसा पावयन् भक्तवर्गान् अय्यप्पो धर्मशास्ता विलसति सुचिरं केशवेशात्मजोऽयम् ॥ ४॥ पुराऽऽसीत्पन्तलो भूपः प्रजापालनतत्परः । प्रसिद्धः केरले देशे भक्तो भक्तजनप्रियः ॥ ५॥ एकदा तु महारण्ये मृगया सम्भ्रमन्नृपः । दिव्यं तं बालकं वीक्ष्य नयनानन्दमाययौ ॥ ६॥ शुद्धस्फटिकसङ्काशं कर्णान्तगतलोचनम् । प्रस्फुरन्मञ्जुचन्द्रास्यं मायानिर्मितविग्रहम् ॥ ७॥ शान्तस्वरूपं सरितामधीश्वरे बालं शयानं प्रलये सुरेश्वरम् । तं पुण्डरीकाक्षमिव स्थितं परं सस्वर्णहारं विपिने विलोकने ॥ ८॥ दिव्यं तं बालकं नीत्वा राजा स्वगृहमाययौ । लालितः पालितस्तेन विशेषेण जनप्रियः ॥ ९॥ स वृद्धिमगमत्तत्र शुक्लपक्षे यथोडुराट् । मापजोऽतिविशालाक्षः समुद्रकरशोमितः ॥ १०॥ सुतस्य लीलापटुतां विलोकयन् सर्वे प्रसन्ना भुवि तस्य भूपतेः । तद्द्रोहिणं मन्दमतिं तु मन्त्रिणं अज्ञातभावञ्च विना निरीश्वरम् ॥ ११॥ अपुत्रस्य सुतो जातः अय्यप्पस्य प्रभावतः । तेन पुत्रवती जाता राज्ञी राजमनोरमा ॥ १२॥ दुर्मन्त्री मन्त्रयामास मर्मवाक्यगणैरलम् । राज्ञ्यै पन्तलराजस्य कैकय्या इव मन्धरा ॥ १३॥ युवराजपदे राजा चाय्यप्पस्याभिषेचनम् । करिष्यति सुशीलस्य शूरवीरस्य साम्प्रतम् ॥ १४॥ त्वत्पुत्रोपस्थितौ देवि परपुत्रस्य शासनम् । कथं सहे विशालाक्षि स्वदेशस्य दुरात्मनः ॥ १५॥ तद्विघ्नस्तु त्वया कार्यो युवराजाभिषेचने । न चेदय्यप्पदासत्वं त्वत्पुत्रस्योररीकुरु ॥ १६॥ उपायं कथये तुम्यं तस्य विघ्नकरं परम् । कुक्षौ मे शूलपीडास्ति चेति राज्ञे निवेदय ॥ १७॥ अहं कपटवैद्यानां मेलनं कारये तव । तैस्तु वर्णितभैषज्यं शार्दूलीपय एव हि ॥ १८॥ वैद्योक्तं तु नृपं गत्वा कथयिष्यामि शोभने । राज्ञीपीडानिवृत्यर्थं शार्दूलीपय औषधम् ॥ १९॥ अनेन विधिना देवि चाय्यप्यस्य विनाशनम् । भवेत्तत्क्षीरलाभाय गमने गिरिकानने ॥ २०॥ अप्येतदहितं वाक्यं हितं मत्वा तु भामिनी । कापट्यं दर्शयामास स्वपत्युस्सन्निधौ सती ॥ २१॥ कुक्षौ शूलरुजं निरूप्य रमणी भूपस्य पार्श्वं गता व्याघ्रीस्तन्यरसेन शूलशमनं सम्बोधयन्ती शुचा । सत्यं तद्वचनं विचार्य नृपतिः स्तन्याय संसेवकान् सर्वत्राशु दिशासु तत्क्षणमहो सम्प्रेषयन्प्रोक्तवान् ॥ २२॥ शार्दूलप्रवरेभसेवितवनं गत्वा तु यूयं भटाः शार्दूलीपयसो हरेत सुचिरं राज्ञीमनोमोदकम् । अप्राप्तं यदि तत्पयोऽश्वकदिनादूर्ध्वं भवन्तो गृहान् आयास्यन्ति तदा भवेन्मदसिना पञ्चत्वमत्रैव वः ॥ २३॥ राजाज्ञाञ्च निशम्य भीतिमगमन् सर्वे च तत्सेवकाः भीतान् सर्वजनान् निरीक्ष्य भगवान् प्रोवाच तत्र स्थितान् । यूयं स्वीयगृहेषु तिष्ठत सुखं गच्छाम्यहं केवलं शार्दूलीस्तनजन्यशुभ्रपयसा सन्तोषये स्वामिनम् ॥ २४॥ शूराणां कुलभूषणं निखिलविच्छास्ता स्वधर्मस्य च अय्यप्पो भगवान् दयापरवशो गन्तुं वनं निर्ययौ । मार्गे भक्तजनैः समर्चिततनोः कान्त्या तमः संहरन् सह्याद्रेः पुलिनं पुरा सुविमलं प्राप्तःपरार्थेच्छया ॥ २५॥ तस्मिन्काननमध्यदेशविलसच्छायां गतश्छागिनां शङ्खं पूरितवान् मुकुन्दतनयः पाणौ स्थितं तत्क्षणम् । व्याघ्रास्तस्य निशम्य निष्ठुरतराः शब्दं समन्तादहो वव्रुस्तं सुरनायकं व्रजवने गोपीकुमारं यथा ॥ २६॥ श्रीकृष्णस्तु यथा व्रजादिविपिने गोभिश्च संवेष्टितः लक्ष्मीः सत्कमलोदरे भगवती भृङ्गैरलं वेष्टिता । चन्द्रश्चन्द्रिकया च सूर्यकिरणैरग्निस्तु धूमव्रजैः अय्यप्पश्च सुपुण्डरीकनिकरैर्बन्यैरसङ्ख्यैश्विरम् ॥ २७॥ श्रोत्रादीन्द्रियपुण्डरीकदमने दक्षस्तु योगी जनः अय्यप्पो ह्युभयोरलं सुदमने दृष्टप्रमाणं गतः । कर्षन् व्याघ्रकुलं मतङ्गसहितं वर्णी सदा शासकः सारासारविचारनीतिनिपुणः श्रीपन्तलं प्राप्तवान् ॥ २८॥ आश्चर्यं खलु पन्तलस्य नगरी संवेष्टिता सर्वशः व्याघ्रादिप्रवरैः प्रसारितनखैर्वन्यैर्महानिष्ठुरैः । अय्यप्पस्तु जहास भूमिपतितान् प्राणावशेषान् जनान् दृष्ट्वा मन्त्रिगणश्च राजमहिषी राजा च मोहं गतः ॥ २९॥ निश्शब्दां नगरीं विलोक्य दयया सत्वं गृहीत्वा वनं क्षिप्रं सोऽपि ययौ ततः शिवसुतः सह्यस्य मूर्ध्नि स्थितम् । यत्राद्यापि समाधियोगकलितो जेगीयमानो जनैः धर्मायाद्रिनिकेतने प्रतिदिनं सञ्चेष्टयन् वीक्ष्यते ॥ ३०॥ नारदस्तु समायातो राजशेखरपत्तने । शम्भोस्तनयवृत्तान्तं सर्वं तस्मै न्यवेदयत् ॥ ३१॥ गणेशः कार्तिकेयश्च अय्यप्पो मोहिनीसुतः । शङ्करस्य त्रयःपुत्राः पितृतुल्यपराक्रमाः ॥ ३२॥ मायामानुषरूपेण त्वद्दास्यमुररीकृतम् । हरिशङ्करभक्तानां कलहं वीक्ष्य भूतले ॥ ३३॥ तयोर्भेदनिरासाय चावतीर्णो विशाम्पते । कपटं तव भामिन्या कारितं देवमायया ॥ ३४॥ मनुष्यबुद्धिमय्यप्पे त्यक्त्वा देवत्वमाचर । तेन ते कीर्तिरत्यन्ता भविष्यति महीतले॥। ३५॥ देवर्षेर्वाक्यमाकर्ण्य ज्ञातं तद्वैभवं पुनः । दर्शनायाथ देवस्य प्रयत्नं कृतवान् तदा ॥ ३६॥ अय्यप्पस्य वियोगेन दुःखितः पन्तलः प्रभुः । जलान्नानि परित्यज्य स शिश्ये स्थण्डिले चिरम् ॥ ३७॥ स्वरूपं दर्शयामास अय्यप्पोऽपि महामनाः । मा शोकं कुरु भूप त्वं वसामि शबरीगिरौ ॥ ३८॥ कुम्भसम्भवमाहूय यज्ञं कारय ॥ यत्नतः । मदीयं मन्दिरं तत्र कारयेर्विश्वकर्मणा ॥ ३९॥ तन्मध्ये विग्रहं रम्यं पञ्चलोहेन कारय । तस्मिन्प्रतिष्ठा कर्तव्या ऋषिभिर्वेदपारगैः ॥ ४०॥ अवश्यं मम सानिध्यं भवेत्तत्र न संशयः । एतेन विधिनाराजन् मयि भक्तिःप्रजायते ॥ ४१॥ प्रतिवर्षन्तु सङ्क्रान्तौ माघमासस्य पार्थिव । महोत्सवस्त्वया कार्थः सह्यपृष्ठे ममाश्रमे ॥ ४२॥ आगमिष्यन्ति ये तत्र चोत्सवे ममसनिधौ । सर्वे ते सुखिनो भूप भविष्यन्ति न संशयः ॥ ४३॥ नारिकेलं च कर्पूरं पुष्पदीपादिपानकम् । एतानि प्रियवस्तूनि पूजने मम भूपते ॥ ४४॥ घृतस्नानेन सन्तुष्टो भविष्यामि विशेषतः । गोपयोमथितेनाशु पुनः पञ्चामृतेन च ॥ ४५॥ धर्मभ्रष्टास्तु या नार्यः पांशुला दोषदूषिताः । तासान्नैवाधिकारोऽस्ति प्रवेशे मम सन्निधौ ॥ ४६॥ पुरुषाणां गृहस्थानां ब्रह्मचर्यञ्च मण्डलम् । विधीयते प्रवेशार्थमुत्सवे दर्शने मम ॥ ४७॥ सदा हि दर्शनं पुण्यं माघमासे विशेषतः । मयि भक्तिञ्च लभते ततःशोकं परित्यज ॥ ४८॥ इत्युक्त्वान्तर्दधौ देवो वसतौ पन्तलप्रभोः । अथ दर्शनसन्तुष्टो देवदेव शिवात्मनः ॥ ४९॥ अय्यप्पतत्त्वविज्ञानी जातः पन्तलभूपतिः । गतशोकोऽतिधर्मात्मा भक्तस्तस्य महात्मनः ॥ ५०॥ यदुक्तं देवदेवेन कुम्भसम्भवयोगतः । तेन पन्तलभूपेन तत्सर्वं कृतमादरात् ॥ ५१॥ देवदानवगन्धर्वसिद्धचारणगुह्यकाः । आजग्मुर्दशने तस्य ऋषयो नारदादयः ॥ ५२॥ ईडिरेऽस्य यशोराशीनय्यप्पस्य महात्मनः । जातकौतुकरूपास्ते मणिकण्ठावलोकने ॥ ५३॥ इति श्रीमदय्यप्पगीतायां अय्यप्पयोगो नाम प्रथमोऽध्यायः ॥ १॥

अथ द्वितीयोऽध्यायः ।

शबरस्य गृहे जाता शबरी भाग्यशालिनी । चिरकालेन सह्याद्रौ ज्ञानाय तपसि स्थिता ॥ १॥ मोक्षेच्छया च सम्पन्ना शमादिगणशोभिता । नित्यानित्यविवेकेन फलभोगविरागतः ॥ २॥ सुशीला च सुरूपा च सुन्दरी चारुभाषिणी । प्रसन्नवदनाम्भोजा गुरुभक्तिपरायणा ॥ ३॥ आस्वाद्य पुष्पनिर्यासमुन्मत्ता भ्रमराङ्गना । तथा भक्तिरसेनेयं मत्ता सा शबरी वने ॥ ४॥ वाचक्नवीव सा पूर्वं याज्ञवल्क्यं शुचिस्मिता । जन्ममृत्युभिया देवी शास्तारं शरणं ययौ ॥ ५॥ पटबन्धासने शुद्धे स्थितं काञ्चनसन्निभम् । सम्पूज्य भूरिपुष्पेण पप्रच्छ त्वम्पदस्थितिम् ॥ ६॥ श्री अय्यप्प उवाच - आत्मा जीवस्तु गोस्वामी कर्ता क्षेत्रज्ञ इत्यपि । विश्वश्च वैजसः प्राज्ञस्त्वम्पदेन प्रकाशिताः ॥ ७॥ न जायते म्रियते वा कदाचिदात्मा तु देहे विमलप्रकाशः । प्रज्ञानराशिःपुरुषः पुराणः आकाशकल्पोऽविकृतोऽप्रमेयः ॥ ८॥ अवस्थात्रयवस्तूनि वेत्त्यसौ करणं विना । सौषुप्तस्थमभावश्च श‍ृणु त्वं ब्रह्मचारिणि ॥ ९॥ नाहं जानामि चेत्यत्र ज्ञानमेव प्रकाशते । अहं जानामि चेत्यस्मिन् वाक्येऽपि ज्ञानमुच्यते ॥ १०॥ ज्ञानधारा त्वविच्छिन्ना वीक्ष्यते तत्त्वदर्शिभिः । नोदेति नास्तमेत्येषा सैवात्मा त्वं विचारय ॥ ११॥ यथा दधिगतं सर्पिस्तिलेषु च रसो वरः । पुष्पेषु पुष्पनिर्यास आत्मा देहे व्यवस्थितः ॥ १२॥ नित्यः सर्वगतोऽनन्तः सत्तामात्रैकगोचरः । शाश्वतोऽतिपुराणोयमचलोऽयं सनातनः ॥ १३॥ सव्यान्याक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । हृद्देशे तु पुनः प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ १४॥ स्थूलभोगेन विश्वस्य सूक्ष्मेण तैजसस्य च । आनन्देन तु प्राज्ञस्य त्रिधा तृप्तिं निबोधय ॥ १५॥ शास्ता गोस्वाम्यहं देहे कर्ताहमिति मां विदुः । ये जनास्ते तु जीवज्ञाः पण्डितास्तत्त्वदर्शने ॥ १६॥ श्रीकृष्णोऽहं शिवःसाक्षी क्षेत्रज्ञश्शाश्वतोऽस्म्यहम् । अय्यप्पोऽहमनन्तोऽहमात्मारामोऽहमच्युतः ॥ १७॥ त्वम्पदस्य तथावाच्यो लक्ष्योऽहं प्रकृतेः परः । सच्चिदानन्दरूपोऽहं विश्वात्मा विश्वसम्भवः ॥ १८॥ इति श्रीमदय्यप्पगीतायां शास्तृयोगो नाम द्वितीयोऽध्यायः ॥ २॥

अथ तृतीयोऽध्यायः ।

श्री शबरी उवाच - व्यवहारे सदा सर्वैभेदतो युष्मदस्मदी । प्रयुज्यते सदा योगिन्नभेदः कथमेतयोः ॥ १॥ श्री अय्यप्प उवाच - अहं त्वमिति निर्देशे द्वैतमेव प्रकाशते । सोऽहमित्यपि निर्देशे चाद्वैतं प्रतिपाद्यते ॥ २॥ शिवो भवति पूजारिः वन्दते च शिवं शिवः । अशिवः को भवेत्कर्ता शिवः कर्म कदाभवेत् ॥ ३॥ अद्वैतचिन्तापरमेशभक्तिर्द्वैतस्यनिन्दा विषये विरक्तिः । मनोजवं बाधितुमात्तशक्तिर्यस्यैव तस्यैव जनस्य मुक्तिः ॥ ४॥ माण्डूक्यश्रुतिगीतेन तत्त्वेनात्मा प्रपद्यते । द्वैतजातं तथा सर्वं गगने नीलिमादिवत् ॥ ५॥ आत्मानमखिलाधारमवाङ्मनसगोचरम् । अव्यक्तं निर्गुणं सत्यं मत्वा धीरो न शोचति ॥ ६॥ मेघो नश्यति वर्षेण भोजनेन तथा क्षुधा । द्वैतं नश्यति बोधेन यथा स्वप्नमनोरथः ॥ ७॥ ब्रह्मभिन्नं जगन्नास्ति नास्ति जन्मजरामृतिः । सुखदुःखादिकं नास्ति अस्तिब्रह्मनिरामयम् ॥ ८॥ प्रपञ्चरहितं विष्णुं निरीहं निरुपद्रवम् । निरञ्जनं निराकारं मत्वा धीरो न शोचति ॥ ९॥ यथा पटगतं चित्रं पटादन्यन्न विद्यते । तथाचात्मगतं विश्वमात्मनोऽन्यन्न विद्यते ॥ १०॥ मायामलिनसत्त्वेन कल्पितां भेदभावनाम् । मायायाः शुद्धसत्त्वेन दूरीकुरु महामते ॥ ११॥ ब्रह्मा विष्णुः शिवः शक्तिर्जीवोगणपती रविः । देवतान्नञ्च प्राणादिर्मायया खलु निर्मितम् ॥ १२॥ जीमूतेन विना वृष्टिर्भूतलेन विना कृषिः । मायया च विना सृष्टिः पयसा रहितं दधि ॥ १३॥ तावाञ्जननसम्भीतिः पुरुषस्य विशेषतः । आत्मानमजरं नित्यं यावन्नैवावगच्छति ॥ १४॥ शुष्कतर्कविवादेन व्यर्थं नयति पूरुषः । कालं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमिहेश्वरः ॥ १५॥ अध्यात्मचिन्तया नूनं सत्सङ्गेनाथ विद्यया । यतेत स्वात्मलाभाय धीरो मोक्षपरायणः ॥ १६॥ विचारेण विना देवि प्रपञ्चो न हि नश्यति । तस्माद्विचारः कर्तव्यः स्वात्मलाभस्य हेतवे ॥ १७॥ इयं वेदशिरोविद्या प्रोक्ता दुःखनिवृत्तये । अनया विलयं याति सञ्चितं कर्म यत्कृतम् ॥ १८॥ इति श्रीमदय्यप्पगीतायां अध्यात्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥

अथ चतुर्थोऽध्यायः ।

मणिकण्ठोपदेशेन न तृप्तां वनचारिणी । भूयः पप्रच्छ सम्पूज्य मायामनुजविग्रहम् ॥ १॥ श्री शबरी उवाच - कर्मशान्तिर्मनश्शान्तिर्वासनाक्षय एव च । कथं भवेत्सरोजाक्ष अय्यप्प वदतांवर ॥ २॥ श्री अय्यप्प उवाच - भक्तिज्ञानविरागेण विचारेण च शोभने । अयमासाद्यते देवि अथवा गुरुसेवया ॥ ३॥ भजनं भक्तिरित्याहुर्निर्गुणे सगुणेऽपि च । ईश्वरे चारविन्दाक्षि मायाविनि वनेचरि ॥ ४॥ श्रवणं कीर्तनं तस्य चार्चनं पादसेवनम् । वन्दनं स्मरणं देवि सख्यञ्चात्मनिवेदनम् ॥ ५॥ नवधा सगुणे प्रोक्ता सप्तधाऽगुणशालिनी । सर्वोपकारिणी नूनं सेवनीया प्रयत्नतः ॥ ६॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७॥ बीजाद्वृक्षस्ततो बीजं भक्तेर्ज्ञानं ततश्च सा । साधूनां सङ्गतिर्बीजं भक्तिवृक्षस्य भामिनि ॥ ८॥ भक्तिज्ञानविरागाणां वर्षयन् जगतीतले । चरतीह महाभागो नभोमण्डलमेघवत् ॥ ९॥ छायापुष्पफलैश्शाखी सेवते शरणागतान् । साधुस्त्वनागतांश्चापि भक्तिज्ञानधनादिभिः ॥ १०॥ सज्जनो दुर्जनश्चेति भेदतो मन्यते जनः । सर्वं च स्वजनं साधुर्मन्यतेऽभेदचिन्तया ॥ ११॥ दहनात्मप्रकाशेन सूर्यो। वारयते तमः । वचोभिश्शीतलैस्साधुर्हृत्स्थं वारयते हि तत् ॥ १२॥ जन्मक्लेशो जराक्लेशः क्लेशो दुर्जनमित्रता । शम्भोर्भजनमक्लेशः क्लेशोभूरिधनस्पृहा ॥ १३॥ मद्भक्तं दयया युक्तं धर्मात्मानं शुभे भज । भक्तिशास्त्रप्रवक्तारं सन्तं सन्ततमादरात् ॥ १४॥ यतितीर्थं सतीतीर्थं तीर्थं साधुसमागमः । वेदवाक्यं सदातीर्थं नान्यत्तीर्थं भजेन्नरः ॥ १५॥ पूजा विप्रस्य कर्तव्या चान्नवस्त्रजलादिभिः । विप्रस्यैव प्रभावेण तरेत्संसारसागरम् ॥ १६॥ सूर्योदयं विना देवि शर्वरी न प्रयास्यति । विना भक्त्युदयं नॄणामहङ्कारो न यास्यति ॥ १७॥ आत्मवत्प्रेम कर्तव्यं सर्वप्राणिषु निर्मले । तस्य पावनभावेन संसारं तारयेज्जनः ॥ १८॥ मदात्मकं जगत्सर्वं वीक्ष्य मत्पूजनं कुरु । मन्मना मन्नमस्कारा पत्रपुष्पफलादिभिः ॥ १९॥ इति श्रीमदय्यप्पगीतायां भक्तियोगो नाम चतुर्थोऽध्यायः ॥ ४॥

अथ पञ्चमोऽध्यायः ।

श्रीअय्यप्पौवाच - परोक्षञ्चापरोक्षञ्च द्विविधं ज्ञानमुच्यते । वैदिकं लौकिकञ्चेति तदपि द्विविधं भवेत् ॥ १॥ वेदे परोक्षं प्रायेणानुमानादौ च लौकिकम् । अपरोक्षं महावाक्ये लौकिकन्तु घटादिषु ॥ २॥ तत्रापि द्विविधं प्रोक्तं दृढं चाप्यदृढं शुमे । अपरोक्षं दृढं ज्ञानमलं निःसृतिहेतवे ॥ ३॥ अस्तिब्रह्मेति यज्ज्ञानं परोक्षं परिकीर्तितम् । अखण्डानन्दरूपोऽहं शिवोऽहमितिचापरम् ॥ ४॥ अभेदेऽपि च भेदोऽस्ति जीवात्मपरमात्मनोः । तुषारजलभेदोऽपि विद्यते जगतीतले ॥ ५॥ अमेदवोधो विमलो भेदो मायाप्रकल्पितः । विद्याविद्यास्वरूपेण व्यापिनी सा च मोहिनी ॥ ६॥ शरणागतिहीनस्य नरस्य दुरतिक्रमा । शरणागतभक्तस्य माया दूरनिवासिनी ॥ ७॥ ज्ञानेन सदृशं लोके पावनं न हि भामिनि । तत्स्वयं योगसंसिद्धहृदये जायते शुमे ॥ ८॥ अभेददर्शनं ज्ञानमज्ञानं भेददर्शनम् । आद्यं स्यान्मोक्षलाभाय द्वितीयं जन्ममृत्यवे ॥ ९॥ गवामनेकवर्णानां क्षीरस्येवैकवर्णता । क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १०॥ निष्क्रियं वासनाहीनं भेदत्रयविलक्षणम् । आत्मानं वेद वेदेन सद्गुरोश्चिरसेवया ॥ ११॥ आदौ नास्ति हि यद्वस्तु चान्तकालेऽपि नास्ति तत् । मध्यकाले कथं जातं रज्जुसर्प इवस्थितम् ॥ १२॥ ताप्यतापकभेदेन सुविभात्यखिलं जगत् । प्रत्यगात्मतयाभाति ज्ञानाद्वेदान्तवाक्यजात् ॥ १३॥ शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । प्रमाताचप्रमाणञ्च प्रमेयञ्च फलं तथा ॥ १४॥ इति सप्तविधो भेदश्चैतन्ये व्यवहारतः । सुविजानीहि देवि त्वं वर्तते न तु सत्यतः ॥ १५॥ श्री शबरी उवाच - कथं सप्तविधो भेदः प्रत्यगात्मनि शाश्वते । भगवन् सर्ववेदज्ञ सर्वं चर्णय सद्गुरो ॥ १६॥ श्री अय्यप्प उवाच - मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते । मायासम्बन्धतश्चेशो जीवश्चाविद्यया युतः ॥ १७॥ प्रमातृचैतन्यमपि प्रसङ्गतः प्रमातृचैतन्यमतःपरं शुभे । निरूप्यतेऽन्तःकरणेन संयुतं अन्यच्च तद्वृत्तियुतं प्रमाणकम् ॥ १८॥ अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते । फलं प्रोक्तं सुविज्ञातं चैतन्यं श्रुतिसम्मतम् ॥ १९॥ इति सप्तविधो भेदश्चैतन्ये व्यवहारतः । ऐक्यं ब्रह्मणि सर्वस्यानैक्यं भवति मायया ॥ २०॥ इति श्रीमदय्यप्पगीतायां ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः ॥ ५॥

अथ षष्ठोऽध्यायः ।

श्री अय्यप्पौवाच - दृष्टानुश्रविकेष्वेष विषयेषु शुभप्रदः । वितृष्णस्य वशीकारसंज्ञा वैराग्यमुच्यते ॥ १॥ तरणीव तु वैराग्यं तरुणि भवसागरे । तरणाय दृढा नूनं गुणवैतृष्ण्यमप्यथ ॥ २॥ अवश्यं गन्तारोऽधिकदिनमुषित्वापि विषयाः वियोगे को भेदस्त्यजति न जनो यः स्वयममून् । व्रजन्तस्स्वातन्त्र्यादतुलपरिदुःखाय मनसः स्वयं त्यक्त्वा ह्येते शमसुखमनन्तं विदधति ॥ ३॥ अनेककाले स्वर्गीयान्भोगान् भुक्त्वापि चाब्रवीत् । ऐलः सम्राड्विनिर्विण्णो गाथां वैराग्यकारिणीम् ॥ ४॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ ५॥ स्वार्थस्याकोविदं धिङ्मां मूर्खपण्डितमानिनम् । योऽयमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ ६॥ शिवप्रसादो निर्वेदः सुखशान्तिप्रदो महान् । येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ७॥ तीव्रवैराग्ययोगेन धर्ममेघः समाधिराट् । कालज्ञस्य निरीहस्य योगिराजस्य जायते ॥ ८॥ समाधौ जातमात्रे तु समुदेत्यात्मचन्द्रमाः । वर्षयन्निव पीयूषं क्षुभिताम्बोधिमध्यगात् ॥ ९॥ मातापितृसुतादीनामस्तित्वं नास्ति चात्मनः । व्यर्थं विषयगर्तेषु पतन्ति सुरमानवाः ॥ १०॥ मोषणे ज्ञानरत्नानां प्रविष्टा देहपत्तने । कामः क्रोधो मदो लोभो देहिनामविवेकिनाम् ॥ ११॥ माता कस्य पिता कस्य कस्य भार्या प्रिये वद । जन्माभावे तु मातृत्वं पितृत्वञ्चात्मनः कथम् ॥ १२॥ हरिणश्च गजो मत्तः पतङ्गश्चापि भृङ्गराट् । एकैकविषयोन्मत्ता म्रियन्ते शफरी पुनः ॥ १३॥ विषयेष्वपि सर्वेषु मत्ता मरणधर्मिणः । जीवन्ति कथमल्पेऽपि चेत्याश्चर्यं हि मानवाः ॥ १४॥ मानवस्य शरीरं हि न जातं क्षुद्रकर्मणे । कृच्छ्राय तपसे चैव प्रेत्यानन्तसुखाय च ॥ १५॥ वैराग्यन्तु विना देवि भक्तिमागोपजीविनः । ते यथा सुखमिच्छन्ति मरीचिजलमज्जनात् ॥ १६॥ कामिनीकाञ्चनत्यागी त्यागी भवितुमर्हति । व्याघ्रचर्मावृतेनैव खरो नास्ति मृगेश्वरः ॥ १७॥ कनकघटपटानां स्वच्छमुर्वीरुहाणां पनसपरिमलानामन्धसां भाजनानाम् । गजतुरगभटानां वर्जनं वर्जनं नो अपि तु सुयुवतीनां वर्जनं वर्जनं स्यात् ॥ १८॥ इति श्रीमदय्यप्पगीतायां विरागयोगो नामषष्ठोऽध्यायः ॥ ६॥

अथ सप्तमोऽध्यायः ।

श्रीअय्यप्प उवाच - कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते । उपादानं किमस्तीह विचारोऽयं विधीयते ॥ १॥ विनिश्चयो भवेन्नित्या नित्यवस्तुविवेकतः । नित्यबोधस्वरूपोऽहमात्माहं प्रकृतेः परः ॥ २॥ प्रकृतिश्च प्रधानञ्च माया गुणवती तु या । विद्याऽविद्यास्वरूपेण व्यापिनी जगदम्बिका ॥ ३॥ प्रकृतिर्विकृतिश्चैव भवेत्तन्मात्रपञ्चकम् । अहङ्कारमहत्तत्वे मूला चाविकृतिस्स्वयम् ॥ ४॥ महत्तत्त्वादहकारस्ततस्तन्मात्रपञ्चकम् । भूतात्मकं ततो जज्ञे व्योमादिजगदात्मकम् ॥ ५॥ ज्ञानकर्मेन्द्रियाणि स्युर्दशैकञ्च मनस्स्मृतम् । विकाराः षोडश प्रोक्तास्ततोऽन्यः पुरुषस्स्मृतः ॥ ६॥ मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ ७॥ ऊर्णनाभिर्व विश्वस्य कारणं परमेश्वरः । उपादानं निमित्तञ्च वैलक्षण्यन्तु साङ्ख्यतः ॥ ८॥ क्लेशकर्मविपाकाद्यैरपरामृष्ट ईश्वरः । पुंविशेषोऽत्र योगेऽपि पुरुषोत्तम उच्यते ॥ ९॥ ईश्वरस्सर्वभूतानां शबर्यात्मनि तिष्ठति । विहितप्रतिषिद्धेषु प्रवृत्तिष्वपि प्रेरयन् ॥ १०॥ ब्रह्म केवलमद्वैतं न यत्करणगोचरम् । अलक्षणमरूपञ्च वेदान्तेषु सुनिश्चितम् ॥ ११॥ तद्विष्णुस्तच्छिवस्साक्षादादित्यस्तच्च चन्द्रमाः । तदेव शाश्वतं सत्यं तदहं त्वञ्च भामिनि ॥ १२॥ बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् । जीवत्वमीश्वरत्वञ्च तथा बह्मणि कल्पितम् ॥ १३॥ मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्सन्तोषश्चतुर्थस्साधुसङ्गमः ॥ १४॥ विचारेण विना देवि नान्योपायोऽस्ति सौकरः । जिज्ञासोरात्मलाभाय वेदे वादे च मानिनि ॥ १५॥ इदं सर्वं जगद्वस्तु रज्ज्वां सर्प इवात्मनि । जन्ममृत्युयुतं शान्ते हाटके कटकादिवत् ॥ १६॥ जलन्न पुनरायाति सुपीतमयसा खलु । द्वैतन्न पुनरायाति चाद्वैतेन सुबाधितम् ॥ १७॥ ब्रह्मसत्यं जगन्मिथ्या मायामयमनादिमत् । सुविचारेण यत्सत्यं तदात्म त्वं मनीषिणि ॥ १८॥ इति श्रीमदय्यप्पगीतायां विचारयोगो नाम सप्तमोऽध्यायः ॥ ७॥

अष्टमोऽध्यायः ।

अय्यप्पगीतां सुश्रोतुं नारदादिमुनीश्वराः । सह्यपर्वतमायाता विनीताः पुष्पपाणयः ॥ १॥ साधुसाध्विति सम्बुध्या प्रणमन्तः परस्परम् । बन्धमोक्षव्यवस्थार्थमय्यप्पशरणङ्गताः ॥ २॥ सुभगा शबरी श्रोत्री प्रणम्य हरिमातृकम् । जगाद वचनं तस्मै सखी दुःखेन दुर्मनाः ॥ ३॥ इयन्तु युवती देव मत्सखी चारुभाषिणी । विरौति पतिशोकेन सेवाभक्तिपरायणा ॥ ४॥ उपदेशामृतेनैनां सिञ्च त्वं त्रिजगद्गुरो । अन्योपायन्न पश्यामि शोकमोहनिवृत्तये ॥ ५॥ श्री अय्यप्प उवाच - किं रोदिपि वरारोहे भर्ता कुत्र गतस्तव । जडेषु यदि भर्तृत्वं सर्वमेतज्जडात्मकम् ॥ ६॥ चैतन्ये यदि भर्तृत्वं चैतन्यन्तु त्वमेव हि । उभयोरपि भतृत्वमगतं किं वियुज्यते ॥ ७॥ माता कस्य पिता कस्य कस्य भार्या प्रियो वद । जन्माभावे तु मातृत्वं पितृत्वञ्च कथं भवेत् ॥ ८॥ सर्वशोकान् परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वशोकेभ्यस्तारयिष्यामि शोभने ॥ ९॥ मरणं प्रकृतिस्वभावतो विकृतिर्जीवनमम्बुजेक्षणे यदि चाल्पमपि श्वसन्नसावसुभृद्भाग्यपरम्परावृतः ॥१०॥ अतस्त्वं प्रभजात्मानं शान्तमव्यक्तमच्युतम् । भयशोकविनिर्मुक्तं सर्वदुःखनिवृत्तये ॥ ११॥ सारासारविशेषज्ञाः परापरविदो जनाः । न शोचन्ति मृते देवि नापि शोचन्ति जीविते ॥ १२॥ शोकमोहौ जराव्याधिः कामक्रोधदुरात्मताः । ममत्वञ्च वियोगश्च देहधर्मो न चात्मनि ॥ १३॥ सर्वं दुःखमयं विद्धि सुखं वैषयिकं हि यत् । संयोगेऽमृतमेवास्तु वियोगे विषमेव तत् ॥ १४॥ विषं हन्ति हि भोक्तारं द्रष्टारं नास्ति हन्ति तत् । द्रष्टारमपि भोक्तारं विषयो हन्ति तत्क्षणम् ॥ १५॥ देहात्मबुद्धियोगेन लभन्ते जननम्मृतिम् । ब्रह्मात्मबुद्धियोगेन शाश्वतं पदमव्ययम् ॥ १६॥ परमानन्दचिन्मात्रमाद्यन्तरहितं शिवम् । निजस्वरूपमात्मानं भावयेच्छोकशान्तये ॥ १७॥ धर्मशास्त्रोपदेशेन शोकमोहविवर्जिता । प्रसन्नातिसुशीलासौ बभूव शबरी सखी ॥ १८॥ इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे निर्ममयोगो नामाष्टमोऽध्यायः ॥ ८॥

अथ नवमोऽध्यायः ।

शयरी उवाच - सर्वेषामपि मन्त्राणां को मन्त्रश्श्रेयसे प्रभो । बद मामरविन्दाक्ष अय्यप्प विदुषां वर ॥ १॥ श्री अय्यप्प उवाच - हंसमन्त्रो महामन्त्रः प्राणमन्त्रोऽयमुच्यते । प्राणानां गतिमध्ये तु स्वयम्भूर्मन्त्रसम्मतः ॥ २॥ प्रपञ्चमतिविस्तीर्णं जराव्याधिसुपीडितम् । जन्ममृत्युजराव्याघ्रैर्नादितं गहनं वनम् ॥ ३॥ हित्वा ब्रह्मणि संशुद्धे हन्ति यातीतिविद्यया । अस्मिंल्लोके सतां वृन्दैस्स हंस इति कथ्यते ॥ ४॥ व्यत्ययेन तु सोऽहं स्यादद्वैतश्रुतिभास्करः । सर्वद्वैतमृगं हन्तुं मृगराडिव शोभने ॥ ५॥ हंसमन्त्रो महामन्त्रः सोऽहं तेनैव निर्मितः । हकारश्च सकारश्च हित्वा भवति मन्त्रराट् ॥ ६॥ विंशत्येकसहस्त्राणि षट्शतानि भवार्णवे । जीवो जपति सर्वेषु शरीरेषु दिवानिशम् ॥ ७॥ हकारेण बहिर्याति सकारेण विशेत्पुनः । हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ ८॥ प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ९॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ १०॥ ॐ च द्वादशसाहस्रं प्रत्यहं यो जपेन्नरः । तस्य द्वादशभिर्मासैः परमात्मा प्रकाशते ॥ ११॥ प्रणवार्थश्शिवस्साक्षी विष्णुरूपोऽहमव्ययः । ये येऽर्थाः प्रणवे भान्ति ते सर्वे मयि संस्थिताः ॥ १२॥ एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १३॥ प्राणिनां सर्वधर्माणां शास्तारमपि कारणम् । प्रणवेशं हि मां ज्ञात्वा सर्वपापैः प्रमुच्यते ॥ १४॥ प्रणवेन प्रणश्यन्ति जन्मदुःखजरादयः । सुशीले प्रणवे चित्तं स्थापय त्वं प्रयत्नतः ॥ १५॥ एकाक्षरस्वरूपेण वेदशास्त्रेषु मानिनि । सर्वसिद्धिप्रदानाय तिष्ठामि भगवत्प्रिये ॥ १६॥ आचारः प्रथमो धर्मो धर्मसंशासकोऽस्म्यहम् । नैवाचारविहीनस्य सिद्धिर्मन्त्रेण सत्वरम् ॥ १७॥ आचारेण तु पूतस्य पुरुषस्य विशेषतः । सिद्धिस्सञ्जायते शीघ्रं वेदशास्त्रानुसारतः ॥ १८॥ इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे मन्त्रयोगो नाम नवमोऽध्यायः ॥ ९॥

अथ दशमोऽध्यायः ।

श्री शबरी उवाच - को धर्मस्सर्ववर्णानां बन्धविध्वंसकारकः । वक्तव्यं भगवन्मह्यमन्यः को वक्तुमीश्वरः ॥ १॥ श्री अय्यप्प उवाच - निःश्रेयसं यतस्सिध्येत्पुनरभ्युदयो यतः । दशलक्षणधर्मस्तु सर्वेषामुपकारकः ॥ २॥ सुखे दुःखे गते धैर्यं तथा मानापमानयोः । इन्द्रियाणां स्वधर्मेषु चालनं दमनं दमः ॥ ३॥ प्रतीकारक्षमत्वेऽपि विद्रोहसहनं क्षमा । परस्वहरणं चौर्यमस्तेयं तदभावतः ॥ ४॥ कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोचरणीयम् । मापतेः पदयुगं स्मरणीयं लीलया भववनं तरणीयम् ॥ ५॥ महती शुद्धता शौचं स्वदेहमनसोरपि । शममृज्जलगन्धैश्च अनुष्ठेयं सदा नृभिः ॥ ६॥ इन्द्रियाणामधर्मेषु प्रवृत्तीनां निवारणम् । प्रवर्तनं स्वधर्मेषु निग्रहञ्चावधारय ॥ ७॥ निर्लज्जस्य च लोकेऽस्मिन्निन्दा भवति सन्ततम् । ततो लज्जा स्वधर्मश्च कीर्तिता नितरांशुमे ॥ ८॥ अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । अर्थशास्त्रं पुराणश्च विद्या ह्येताश्चतुर्दश ॥ ९॥ कार्याकार्यविचारेषु शास्त्रमेव विशिष्यते । अतो विद्या स्वधर्मस्य लक्षणं कीर्तिता मया ॥ १०॥ यथार्थकथनं सत्यं भूतानां हितमेव च । लौकिके परमार्थे च हरिश्चन्द्रेतिहासवत् ॥ ११॥ क्रोधो द्वेषो महापापी नरकद्वारविश्रुतेः । एतस्माद्विपरीतोऽसावक्रोधो धर्मलक्षणम् ॥ १२॥ क्रोधमूलो मनस्तापः क्रोधस्संसारबन्धनम् । धर्मक्षयकरः क्रोधस्ततः क्रोधं परित्यजेत् ॥ १३॥ धर्मनाशो यदा देवि चाधर्मश्चैधते यदा! तदा धर्मस्य शास्ताहं भविष्यामि मनोहरे ॥ १४॥ अकामश्चात्मकामो वा मां भजेद्धर्मपालकम् । शरणागतशास्तारं शबरीगिरिनायकम् ॥ १५॥ मातरं पितरं वापि भजेद्भक्तिपरायणः । गुरूणां गुरुपत्नीनामतिथीनां गवामपि ॥ १६॥ कर्माशुभं परित्यज्य शुभं कर्म समाचरेत् । अन्यस्य गुणदोषाणामविचार्य दिवानिशम् ॥ १७॥ साधूनां समचित्तानां सेवा कार्या तपस्विनि । कामक्रोधादिदोषाणां शमनं तेन जायते ॥ १८॥ अन्येषामपि धर्माणां सेवाधर्मों विशिष्यते । सेवया वशमायाति त्रैलोक्यं सचराचरम् ॥ १९॥ यत्र धर्मस्तु तत्राहं यत्राहं तत्र देवताः । विभूतयस्सुरा यत्र वसन्ति वरवर्णिनि ॥ २०॥ इति श्रीमदय्यप्पगीतायां अय्यप्प शबरीसंवादे धर्मयोगो नाम दशमोऽध्यायः ॥ १०॥

अथैकादशोऽध्यायः ।

श्री शबरी उवाच - कर्म किञ्च शुभं प्रोक्तमशुभ कर्म किम्प्रभो । सर्वं मे सुविनीतायै वद त्वं करुणाकर ॥ १॥ श्री अय्यप्प उवाच - सकामैस्स्वर्गसाम्राज्यमकामैश्चात्मतोषणम् । शुभं कर्म च निष्कामं सकाममशुभं स्मृतम् ॥ २॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति चात्मवन्तो यतीश्वराः ॥ ३॥ न कर्मणा प्रजावित्तैस्त्यागेनैवामृतं शुभे । कर्मणामपरित्यागे फलत्यागो विशिष्यते ॥ ४॥ श्री शबरी उवाच - वैदिकं कर्म देवेश सकामाय निरूपितम् । अशुभं तत्कथं प्रोक्तं भवता केवलात्मना ॥ ५॥ श्री अय्यप्प उवाच - स्वर्गकामो यजेतात्र सकामाय निरूपितम् । वैदिकं कर्म वामाक्षि यद्यपि श्रुतिचोदितम् ॥ ६॥ कर्माकमविकर्मेति वेदवादो न प्राकृतः। ॥ वेदस्येश्वररूपत्वात्तत्र मुह्यन्ति पण्डिताः ॥ ७॥ परोक्षवादो वेदोऽयमनभिज्ञानुशासनम् । कर्माणि कर्ममोक्षाय विधत्ते ह्यौषधं यथा ॥ ८॥ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथामण्डलवर्तिनाम् ॥ ९॥ स्वर्गादिकफलं तुच्छं कामिनां विषयात्मनाम् । नश्वरञ्च भयव्याप्तं शुभे तच्च शुभेतरत् ॥ १०॥ न ज्ञानभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । तोषयेत्सर्वकर्माणि ज्ञानी तानि समाचरन् ॥ ११॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः । नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥ १२॥ अहङ्कारं परित्यज्य कर्ताहमिति शोभने । कर्तव्यं कुरु लोकानां कल्याणाय निरन्तरम् ॥ १३॥ रक्षणाय च वेदानां शिक्षणाय सुरद्विषाम् । अवतीर्णोऽस्मि देशेऽस्मिन् चन्द्रशेखरतेजसा ॥ १४॥ पापं हन्ति विषं हन्ति विषयानपि दुर्गुणान् । शूलरोगादि सर्व च हन्ति मे दर्शनं शुभम् ॥ १५॥ चतुर्णां पुरुषार्थानां साधिका जगतीतले । चरित्रस्यापि कीर्तेर्मे सुभगे शरणागतिः ॥ १६॥ कर्मासक्तो यजेच्छक्तिं ज्ञानासक्तो यजेद्गुरुम् । मोक्षासक्तो यजेच्छम्भुं सर्वासक्तस्तु मां यजेत् ॥ १७॥ फलेच्छारहितं कर्म यत्तु निष्कामिना कृतम् । तत्सर्वं मङ्गलं देवि सर्वमन्यद्विडम्बनम् ॥ १८॥ इति श्रीमदय्यप्पगीतायां कर्मयोगो नामैकादशोऽध्यायः ॥ ११॥

अथ द्वादशोऽध्यायः ।

श्री अय्यप्प उवाच - अद्रोही पुण्यशीलश्च ब्रह्मचारिव्रते स्थितः । मन्नामजपचित्तात्मा गुरुसेवापरायणः ॥ १॥ ज्ञानविज्ञानपूतात्मा सुराणामपि दुर्लभम् । प्राप्नोति परमं स्थानं चिन्मयं निर्गुणं शिवम् ॥ २॥ शुभवैराग्यमास्थाय प्राणायामविधानतः । अहिंसया च भूतानां मुनिवृत्या जितेन्द्रियः ॥ ३॥ पञ्चक्लेशनिवृत्यर्थं पुण्येन बहुजन्मनाम् । यतते स्वात्मलाभाय विचारेण समाधिना ॥ ४॥ मद्भक्तलक्षणं देवि प्राणिनामुपकारिता । कर्मणा मनसा वाचा सर्वान्प्रति च नम्रता ॥ ५॥ काम एव महाशत्रुस्सर्वेषामुपरि स्थितः । भक्त्यास्य जयमायाति भक्तस्य मम भामिनि ॥ ६॥ जिते कामे जितः सर्वः क्रोधादिर्दुर्गुणः शुमे । अमलात्मा ततश्शान्तो योगिराजो भविष्यति ॥ ७॥ ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत । इति वैदिकसिद्धान्ते विशदं विपिनेचरि ॥ ८॥ अन्योन्यमुपकारेण जीवनं शुद्धजीवनम् । अतो दानं प्रशंसन्ति देवा गन्धर्वमानवाः ॥ ९॥ सुवर्णं रजतं वस्त्रं मञ्जूषापशुकम्बलम् । वापी च सदनं क्षेत्रं भूषणं वाहनादिकम् ॥ १०॥ नैतानि सममन्नेन दत्तेनापि विवेकिने । अन्नदानेन सन्तुष्टो भविष्यामि विशेषतः ॥ ११॥ आत्मा तु निर्गुणस्साक्षान्निर्विकारोऽयमव्ययः । मायामयमिदं विश्वं त्रैगुण्यं वेत्ति पण्डितः ॥ १२॥ गुणातीतपदं प्राप्य शान्तो भवति योगिराट् । तस्मात्त्वमरविन्दाक्षि स्वात्मानं निर्गुणं स्मर ॥ १३॥ आत्मतत्त्वं न जानाति लोकतत्त्वविचक्षणः । पण्डितोऽपि स मूर्खो हि जन्ममृत्युवशङ्गतः ॥ १४॥ रजो धूनय सत्त्वेन रजसा च तमो जय । समाधिना जयेस्सत्त्वं तत्त्वं वनचरेश्वरि ॥ १५॥ सत्त्वतो ज्ञानमायाति रजसो लोभतस्करः । प्रमादमोहौ भवतस्तथाज्ञानं तमोगुणात् ॥ १६॥ सत्त्वादूर्ध्वगतिर्भन्द्रे रजसा मध्यवर्तनम् । तमसोऽधोगतिर्देवि गुणानां वशवर्तिनाम् ॥ १७॥ गुणेभ्योऽन्यन्न कर्तारं दर्शकश्चानुपश्यति । आत्मानं वेत्ति तत्त्वेन तदा ब्रह्मपदं व्रजेत् ॥ १८॥ कर्ताहञ्च सुमोक्ताहं सुखितो दुःखजीवनः । इति तद्गुणमाहात्म्यात् ज्ञायते व्यवहारतः ॥ १९॥ इति श्रीमदय्यप्पगीतायां गुणयोगो नाम द्वादशोऽध्यायः ॥ १२॥

अथ त्रयोदशोऽध्यायः ।

श्री अय्यप्प उवाच - यथा वृक्षस्य बीजेऽस्मिन्महान् वृक्ष उपस्थितः । तथा ब्रह्मणि सर्वे च भूचराः खेचरादयः ॥ १॥ बीजादपि सुसूक्ष्माया शक्तिरत्र विराजते । तथा ब्रह्माणि माया तु चानिर्वाच्यपदे स्थिता ॥ २॥ बीजाद्भिन्ना न तच्छक्तिर्विचारेण विना तु या । दृश्यते तु तथा माया ब्रह्मभिन्ना न दृश्यते ॥ ३॥ वृक्षश्शाखा ततः पत्रं कुसुमानि फलानि च । हिरण्यगर्भस्सूत्रात्मा चेश्वरो जीवको विराट् ॥ ४॥ वृक्षाधस्स्था यथा छाया वातेन परिवर्तिता । सुखदुःखे तथा विश्वे कर्मणा परिवर्तिते ॥ ५॥ ब्रह्म वीजं जगद्वृक्षो जनितो मायया पुरा । अस्य बीजविचारेण पूर्णोऽहं पुरुषोत्तमः ॥ ६॥ अपो विना न वृक्षस्य जीवन जगदन्तरे । अय्यप्पेन विना जीवा न जीवन्ति जगत्त्रये ॥ ७॥ क्षुत्पिपसे च प्राणानां धर्मो दुःखं सुखं तथा । स्वान्तस्यैव न देहस्य सूक्ष्मस्य न हि देहिनः ॥ ८॥ जपाकुसुमसंसर्गान्मणौ तिष्ठति रक्तिमा । तथा हि देहसंसर्गात्सुखं दुःखमिहात्मनि ॥ ९॥ सत्सङ्गेन कुठारेण विचारेण च मानवि । मूलाज्ञानमहावृक्षं छित्वा कैवल्यमाचर ॥ १०॥ निर्वेदासिः करे यस्य संसारः किं करिष्यति । रागो यद्यस्ति पुन्देहे सच्छास्त्रं किङ्करिष्यति ॥ ११॥ रागद्वेषविहीनस्य भक्तस्य परमात्मनः । निर्वेदासिः करे यस्य सफलं वेद शासनम् ॥ १२॥ नित्यमेकाक्षरं योगी व्याहरन् ब्रह्म चोमिति । तदर्थं च हृदि ध्यायन् प्रयाणे परमं पदम् ॥ १३॥ जपयज्ञो महायज्ञो ज्ञानयज्ञस्ततः परम् । अग्निसेवनयज्ञस्तु स्वर्गमात्रफलप्रदः ॥ १४॥ ज्ञानेनाध्यात्मिकं दुःखमाधिभौतिकमेव च । अधिदैवं च हे देवि समूलञ्च प्रणश्यति ॥ १५॥ श्रवणं मननं तस्य निदिध्यासनमेव च । साधनानि मुमुक्षूणां श्रुतीनां गुरुवाक्यतः ॥ १६॥ गुरुतीर्थाम्भसि स्नातो विरागतिलकीकृतः । विचारधनुरादाय हिनस्त्यज्ञानतस्करम् ॥ १७॥ अनेन कृतकृत्यत्वमाप्नुयात्साधको यदि । सुशीलश्चाकृतद्रोहः सर्वभूतहिते रतः ॥ १८॥ इति श्रीमदय्यप्पगीतायां ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥

अथ चतुर्दशोऽध्यायः ।

श्री अय्यप्प उवाच - यस्य दानं दमो हिंसा तपस्सत्यमपैशुनम् । त्यागो दयाप्यलोलुप्त्वं क्षान्तिरक्रोधमार्दवम् ॥ १॥ हीरचापलमद्रोहो शुचित्वन्नातिमानिता । आर्जवञ्चाभयं यज्ञो ज्ञानयोगदृढा मतिः ॥ २॥ स्वाध्यायश्चित्तनैर्मल्यं क्षमा तेजो धृतिश्शुभे । मोक्षधर्मस्य तस्यैता दैवीप्रकृतिसम्पदः ॥ ३॥ पुण्यशीलस्य विप्रस्य तपसा बहुजन्मना । भाग्येन जायते दैवी प्रकृतिर्मोक्षदायिनी ॥ ४॥ दर्पोऽभिमानताज्ञानं क्रोधः परुषभाषणम् । अनीश्वरत्वं विश्वस्य ममत्वं भोगवस्तुषु ॥ ५॥ अधर्मेण धनप्राप्तौ रुचिस्सज्जनशत्रुता । विष्णुभक्तः शिवद्रोही शिवभक्तो हरिद्रुहः ॥ ६॥ कलहित्वञ्च दुर्बुद्धिः कामिन्यां काञ्चने रतिः । मायावी च सुरद्रोही परमार्थपराङ्मुखः ॥ ७॥ आसुरीप्रकृतेर्जातलक्षणं ह्यनुवर्णितम् । समासेन विशालाक्षि मोक्षमार्गभयङ्करम् ॥ ८॥ अनाचारेण शास्तारं भगवन्तं न पश्यति । अतो धर्मविचारेण कालं नयति बुद्धिमान् ॥ ९॥ माता धर्मः पिता धर्मो धर्मो नौर्भवसागरे । लोकेऽस्मिन्परलोके च धर्मस्सर्वस्य रक्षकः ॥ १०॥ प्राणत्यागे भयं नास्ति धर्मत्यागे भयं स्मृतम् । तस्मात्स्वधर्मो न त्याज्या सुखसाम्राज्यभास्करः ॥ ११॥ आसुरीं प्रकृतिं हित्वा दैवीं प्रकृतिमाश्रयेत् । आसुरी कुटिला दुष्टा दैवी मङ्गलशालिनी ॥ १२॥ प्रतिबिम्बं जले शुद्धे दृश्यते च कलानिधेः । परिशुद्धमनस्यात्मा दृश्यते तु तथा सताम् ॥ १३॥ सुभूषणादिकं व्यर्थं केवलं वसनं विना । सुव्याख्यानादिकं व्यर्थं निजात्मानुभवं विना ॥ १४॥ स्वात्मानुभवयुक्तस्य चाचार्यस्य प्रसन्नवाक् । सफला तु भवेदत्र शुक्तौ सुस्वातिबिन्दुवत् ॥ १५॥ सन्तोषेण विना सौख्यं न भूतं न भविष्यति । सन्तोषधनमादाय यथालाभेन तुष्यतु ॥ १६॥ आत्मा रामः क्षमा सीता क्रोधो रावणपत्तनम् । सागरः कामलोभादिर्हनुमान् ब्रह्मचिन्तनम् ॥ १७॥ सेवया जगदीशस्य गुरोश्च परमात्मनः । कामक्रोधादिकं सर्वं क्षणाज्जयति साधकः ॥ १८॥ इति श्रीमदय्यप्पगीतायां अमरासुरसम्पद्विभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥

अथ पञ्चदशोऽध्यायः ।

श्री अय्यप्प उवाच - श्रद्धालवोऽत्र सर्वत्र वैदिकेवधिकारिणः । तेषाञ्चोक्तफलं शान्तिं लभते ब्रह्मवादिनि ॥ १॥ संशयात्मा तु पापिष्ठस्सर्वेषामुपरि स्थितः । लोकेऽस्मिन्परलोकेऽपि न सुखं संशयात्मनः ॥ २॥ गुरुशास्त्रेषुविश्वासः श्रद्धा भवति सात्विकी । स्वर्गादिफलविश्वासो राजसी सा निगद्यते ॥ ३॥ प्रेतादिफलविश्वासश्श्रद्धा भवति तामसी । एवं हि त्रिविधा श्रद्धा प्रकारान्तरवर्णिता ॥ ४॥ अश्रद्धया कृतो यज्ञः पुण्यदानं तपश्च यत् । तत्सर्वं निष्फलं देवि श्रद्धाहीनेन कर्मणा ॥ ५॥ श्रद्धया देवदेवत्वमश्नुते दिवि सर्वदा । श्रद्धा प्रतिष्ठा लोकस्य श्रद्धा वित्तं महात्मनाम् ॥ ६॥ श्रद्धैव चक्षुर्लोकेऽस्मिन्प्रतिमा देवदर्शने । प्रत्यक्षेण च शास्त्रेण प्रत्यक्षं बाध्यते न हि ॥ ७॥ वृष्टिं विना यथा वर्षः कासारश्च जलं विना । श्रद्धां विना तथा धर्मी शोभते न शिवप्रिये ॥ ८॥ सर्वं दोषमयं विद्धि मायया रचितं हि यत् । परमात्मनि निर्दोषे श्रद्धा कार्या प्रयत्नतः ॥ ९॥ दोषोऽप्यस्ति गुणोऽप्यस्ति अदोषो नैव विद्यते । सुकोमलस्य पद्मस्य नाले भवति कण्टकः ॥ १०॥ गुणेषु रमते विद्वान् दोषेषु रमते शठः । पुष्पेषु रमते भृङ्गो गर्तेषु ग्रामसूकरः ॥ ११॥ शिवमक्षरमव्यक्तं करणानामगोचरम् । आत्मानमाखिलाधारं भावयेच्छान्तचेतसा ॥ १२॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धने विषयासक्तं मोक्षायाविषयं मनः ॥ १३॥ हित्वा तु विषयाभ्यासं ब्रह्माभ्यासेन सन्ततम् । मनोमर्कटवद्भ्रान्तमात्मनि स्यात्स्थिरं यदा ॥ १४॥ शुभ्रं ज्योतिर्मयं दिव्यं शाश्वतं निर्गुणं परम् । योगाग्निक्षालितस्वान्तस्तदा पश्यति साक्षिणम् ॥ १५॥ दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । इति वैदिकसिद्धान्ते दर्शितं नचिकेतसे ॥ १६॥ चतुर्णां पुरुषार्थानां मोक्षस्यैव प्रधानतः । नित्यत्वादरविन्दाक्षि त्रयाणां तदभावतः ॥ १७॥ श्रद्धया भज चात्मानं जरामरणवर्जितम् । सोऽहं सोऽहमिति प्राज्ञि जैगीषव्यं मुनिर्यथा ॥ १८॥ इति श्रीमदय्यप्पगीतायां विश्वासयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥

अथ षोडशोऽध्यायः ।

श्री अय्यप्प उवाच - अभूमिषु कथं सिद्धिः कुसूलस्थयवादिवत् । भूमिस्थस्य भवेत्सिद्धिर्बीजस्योर्वरभूमिषु ॥ १॥ श्री शबरी उवाच - भूमयः कति तत्त्वज्ञ का सिद्धिर्विदुषां वर । मुमुक्षणां हरीशात्मन् सर्वं वर्णय विस्तरात् ॥ २॥ श्री अय्यप्प उवाच - शुभेच्छा प्रथमा ज्ञेया द्वितीया सुविचारणा । तनुमानस्यपि ज्ञेया सत्त्वापत्तिश्चतुर्थिका ॥ ३॥ पुनः पञ्चम्यसंसक्तिः पदार्थाभावना पुनः । तुर्यगा सप्तमी देवि योगिनां मुक्तिदायिनी ॥ ४॥ शास्त्रसज्जनसम्पर्कान्मूढोऽहमिति या मतिः । वैराग्यपूर्विकेच्छायाश्शुमेच्छा सुमनोहरे ॥ ५॥ शास्त्रसद्गुरुसम्पर्कवैराग्याभ्यासपूर्विका । सदाचारप्रवृत्तिर्या सुभगे सुविचारणा ॥ ६॥ रक्तता चेन्द्रियार्थेषु विचारेण शुभेच्छया । यत्र सा तनुतामेयादनघे तनुमानसि ॥ ७॥ भूमित्रयकृताभ्यासाच्चित्ते च विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर्वरानने ॥ ८॥ भुवां चतुष्टयाभ्यासाद्या संसर्गयुता दशा । रूढसत्त्वचमत्काराद्देव्यसंसक्तिनामिका ॥ ९॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । बाह्याभ्यन्तरवस्तूनां षष्ठी भूमिरभावनात् ॥ १०॥ पञ्चमी भूमिमध्ये तु जीवन्मुक्तो विराजते । ब्रह्मानन्दरसं पीत्वा मत्तभ्रमरराडिव ॥ ११॥ षष्ठं भूतलमारुह्य शुष्कपत्रवदास्थितिः । स्वयं नचेष्टते योगी यथा तत्पवनेरितम् ॥ १२॥ भूमिषट्कचिराम्यासाद्द्वैतस्यानुपलम्भनात् । या स्वभावैकनिष्ठा सा तुर्या ज्ञेया च भूमिका ॥ १३॥ इयं हि जीवन्मुक्तेषु तुर्य्यावस्था निरूपिता । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ १४॥ सप्तमी भूमिका देवि योगिनां मुक्तिदायिनी । तत्र गत्वा चिरं विद्वानात्मारामो विराजते ॥ १५॥ कृतस्य करणं नास्ति मृतस्य मरणं यथा । मुक्तस्य जननं नास्ति अमृतस्य मृतियथा ॥ १६॥ भूमिकानां स्वरूपन्तु मया साधु निरूपितम् । तुभ्यं कमलपत्राक्षि कैवल्यप्राप्तिसाधनम् ॥ १७॥ इयं वेदशिरो विद्या गोपनीया प्रयत्नतः । न चाशुश्रुषवे देया पुत्रायाप्यविवेकिने ॥ १८॥ मुमुक्षुगुरुभक्ताय सुशान्ताय विवेकिने । आहूयापि च देयेयं विद्या कल्याणकारिणी ॥ १९॥ इति श्रीमदय्यप्पगीतायां भूमिकायोगो नाम षोडशोऽध्यायः ॥ १६॥

अथ सप्तदशोऽध्यायः ।

श्री अय्यप्प उवाच - साधनाभ्यासपाकेभ्यस्त्रिधा स्याच्छरणागतिः । तवैवाहं ममैवासौ स एवाहमिति स्थिता ॥ १॥ स्वामिसेवकभावेन चात्मभावनया पुनः । तव दासो मम स्वामी सोऽहमस्मि विचारतः ॥ २॥ नामगोत्रविनिर्मुक्तं सत्यमद्वैतभास्करम् । सोऽहं सोऽहमिति स्वान्ते भज मां चिन्मयं परम् ॥ ३॥ शुद्धोऽस्मि बुद्धोऽस्मि सनातनोस्मि संसारमायापरिवर्जितोऽस्मि । ब्रह्मस्वरूपोऽस्मि निरञ्जनोऽस्मि वेदान्ततत्त्वार्थविकासकोऽस्मि ॥ ४॥ सस्यानां शरणं वृष्टिर्मत्स्यानां शरणं जलम् । देवानां शरणं यज्ञः आर्तानां शरणं त्वहम् ॥ ५॥ सर्वोपनिषदां सारो ज्ञानविज्ञानसंयुतः । उपदिष्टो मया देवि त्वन्मोहो विगतो न वा ॥ ६॥ श्री शबरी उवाच - तृप्ताऽस्मि पुण्डरीकाक्ष तववाक्यामृतेन तु । कृतकृत्या न सन्देहो दयासिन्धो सुरेश्वर ॥ ७॥ देहबुद्ध्या तु दासी ते जीवबुद्ध्या त्वदंशकः । ब्रह्मबुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः ॥ ८॥ श्री अय्यप्प उवाच - वेदसारं परित्यज्य चान्यसारं वृणोति यः । मुक्ताफलं विहायासौ लोष्टं गृह्णाति दुर्मतिः ॥ ९॥ शान्तितुल्यं तपो नास्ति लोभतुल्यो न दुर्गुणः । कामतुल्यस्सतां वैरी मातृतुल्या न देवता ॥ १०॥ गुरुशास्त्रं विना ज्ञानं व्यञ्जनं लवणं विना । सुसन्ततिं विना भार्या भूषणं वसनं विना ॥ ११॥ धर्मं विना न पाण्डित्यं विना शीलं न यौवनम् । न शोभते विशालाक्षि वृक्षस्तु च्छदनं विना ॥ १२॥ स्वसंवेद्यं हि तद्ब्रह्मा कुमारी श्रीमुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ १३॥ न मोक्षो नभसः पृष्ठे न पाताले न भूतले । मोक्षो हि बिमलं चेतस्सम्यग्ज्ञानविबोधितम् ॥ १४॥ भक्तिभाजनमादाय गत्वा गुरुनदीतटे । विज्ञानपयसो देवि चात्मानमभिषेचय ॥ १५॥ आत्मानं चेद्विजानीयादहमस्मीति पूरुषः । किमिच्छन्कस्यकामाय शरीरमनुसञ्ज्वरेत् ॥ १६॥ सत्यं ज्ञानमनन्तं यद्ब्रह्मलक्षणमुच्यते । आत्मा तु सच्चिदानन्द एकत्वमुभयोरपि ॥ १७॥ तमेव शरणं गच्छ सर्वभावेन भामिनि । तत्प्रसादत्परां शान्तिमचिरेणाधिगच्छसि ॥ १८॥ इति श्रीमदय्यप्पगीतायां शरणागतियोगो नाम सप्तदशोऽध्यायः ॥ १७॥

अथाष्टादशोऽध्यायः ।

श्री शबरी उवाच - श्रेणी ते प्रथमा तु सर्वजगतां सन्धारिणी मेदिनी सोपानस्य तथाऽपरा सुविमला तत्त्वं जलं शोभनम् । तेजस्तस्य तृतीयका च तमसो राशेरलं भक्षकम् । भूयो वायुरलङ्करोति भगवन् व्योमस्थिता पञ्चमी ॥ १॥ षष्ठी तस्य विराजते तु रुचिरा श्रेणी तु वाणी शुभा भूयः पाणियुगञ्च मङ्गलमयी सास्यादनङ्गारिज । पादौ चापि सुगण्यते सुरगुरो श्रेणीपुनश्चाष्टमी पायुश्चेन्द्रियमस्य सुष्ठु नवमीसञ्जायते शङ्करी ॥ २॥ रम्यं ते खलु तस्य देव दशमी श्रेणी च शिश्नेन्द्रियं श्रोत्रं चात्र प्रचण्डशास्त्रकुशलञ्चैकादशी श्रेणिका । त्वग्भूयोऽपि च शोभनारसपतेस्तत्त्वं परं द्वादशी चक्षुश्चापि सुरूपदर्शनकरं जेगीयते श्रेणिका ॥ ३॥ घ्राणञ्चैव चतुर्दशी परतरं गन्धोद्वहं सा शुभा स्वाद्वस्वादुविचारणे च रसना जिह्वाग्रदेशस्थिता । श्रीणी पञ्चदशी मनोमननकृच्छ्रेणी वरा षोडशी बुद्धिर्बोधकरी सदाशुभकरी श्रेणी मनोमोदिनी ॥ ४॥ श्रेणी ते परिमार्जिता सकलदा कामप्रवाहानला सोपानस्य विराजतेऽतिजयिनी जीवात्मतत्त्वेन या । श्रीशेशात्मजनस्य पन्तलपतेरीशस्य शान्तिप्रदा इत्यष्टादशतत्त्वमच्युतपदस्थानं हि वन्दे मुदा ॥ ५॥ नीलालङ्करणैस्सुशोभिततनुर्विद्या विनोदप्रियो ब्रह्मोद्योतलसन्मुखेन तिमिरं दूरीकरोति स्वयम् । हस्ताग्रे कृतमुद्रया निजसुखं सम्बोधयन् शाश्वतं अय्यप्पो जयति प्रपञ्चपतितान् सन्तारयन् सन्ततम् ॥ ६॥ श्रीमाता परमात्मनो भगवतस्सम्मोहिनी मोहिनी कैलासाद्रिनिकेतनोऽस्य जनकश्श्रीविश्वनाथः प्रभुः । उत्तुङ्गे शबरीगिरौ परिलसन्नीलाम्बराडम्बरः अय्यप्पश्शरणागतान्निजजनान् रक्षन्मुदा शोभते ॥ ७॥ आत्मज्ञानविचारकार्यकुशले वेदार्थचिन्तामणौ आकारादिविवर्जितेऽपि सगुणे भक्तप्रियार्थे विभो । कान्तारे मृगयार्थमत्र चरतः शान्तस्य भक्तात्मनः आदौ पन्तलभूपतेर्निपतितं सच्चिसुखे दर्शनम् ॥ ८॥ लीलां तस्य नृपस्य वेश्मनि चिरं कृत्वा वनं संश्रितः अत्र त्वत्पदपङ्कजे निपतितुं चायान्त्यसङ्ख्या जनाः । त्वत्पादस्मरणं विधाय विधिवन्मत्तेभहिंसात्मनां श्रुत्वा शब्दमनन्यभक्तिविषया भक्ताश्शरण्ये त्वयि ॥ ९॥ पुत्रत्वं गतवान् भवानखिलविद्भूपस्य भाग्येन वै शौर्यं त्वद्गुणशान्तिदान्तिनिकरं संवीक्ष्य राज्ञी भिया । अय्यप्पो यदि मद्गृहे निजसुतो नाप्नोति राज्यासनं कापव्यं खलु निर्मितं भगवतश्शास्तुस्तया नाशने ॥ १०॥ अय्यप्पो जगतां गुरुस्सकलविद्वेदान्तवागीश्वरः मायानिर्मितराज्यभारविषये बैराग्यवानात्मक् । अद्वैतं सकलं चराचरमिदं विज्ञायते विद्यया । आत्मारामपदप्रबुद्धमनसो राज्यादिलाभेन किम् ॥ ११॥ त्वल्लीलास्थलिका विभाति पशुभिर्दैवैश्व वृन्दावनं भेदस्तत्र तु भोगरीतिरहिता वागीश्वरी राधिका । गोभिर्नैव तु पुण्डरीकनिचयैः पम्पा कलिन्दात्मजा । श्रीकृष्णस्तु न चेशविष्णुतनयो वंशी न वेदध्वनिः ॥ १२॥ आश्चर्यं तव विश्वनाथचरितं हत्वा सुरद्रोहिणं तुल्यं देवमनुष्यभूतनिकरं रामेण विश्वं पपौ । धर्मोपद्रवकारिदेहदहने प्रत्यक्षदावानलः त्वद्भक्तद्रुमकोटिरक्षणपटुः कादम्बिनीवात्मवान् ॥ १३॥ आनन्दाम्बुधिवर्धनं शिवगुरोः पापाग्निनिर्वापणं ध्यानं तस्य महात्मनो हृदि सतां कल्याणकल्पद्रुमम् । त्वन्नामस्मरणं हि सर्वसुखदं रूपं सदा मङ्गलं अय्यप्पस्य सुधर्मगोप्तुरमरैर्गीतस्य विश्वात्मनः ॥ १४॥ सत्यं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं कामक्रोधमदप्रभञ्जनकरं देदीप्यमानं सदा । चिन्मुद्रावलयेन वेष्टिततनोरानन्दराशेर्विभोः अय्यप्पस्य पदारविन्दयुगलं वन्दे मुनीन्द्रैर्नुतम् ॥ १५॥ विज्ञानाणवमौक्तिकोऽसि भगवन् ज्ञानप्रवालोऽथवा नीरक्षीरविवेकचारुकुशलो हंसोऽसि दुग्धार्णवे । त्वद्वक्त्रामलशीतला रसमयी वाणीशरच्चन्द्रिका शुद्धब्रह्मपरात्परोऽसि शबरी प्राणप्रियो राजसे ॥ १६॥ श्री अय्यप्प उवाच - सुसंवादात्मकं शास्त्रं प्रथतामावयोस्स्वयम् । कीर्तिस्त्वदीयालोकषु पर्वतायिष्यतेऽमुना ॥ १७॥ नमः श्रीविष्णुरूपाय शिवरूपाय तेजसे । अय्यप्पाय नमस्तुभ्यं नमः श्रीब्रह्मचारिणे ॥ १८॥ ॥ इति श्रीपूज्यपादस्वामीनारायणगिरिशिष्य अच्युतानन्दकृत श्रीमदय्यप्पगीतायां अय्यप्पशबरी- संवादे अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः ॥ १८॥ ॥ शरणमय्यप्पा ॥ Proofread by PSA Easwaran
% Text title            : Ayyappa Gita
% File name             : ayyappagItA.itx
% itxtitle              : ayyappagItA (svAmI achyutAnandavirachitA)
% engtitle              : ayyappagItA
% Category              : giitaa, deities_misc, ayyappa
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : deities_misc
% Author                : Swami Achyutanand 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : June 25, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org