॥ जीवन्मुक्ति गीता ॥

असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतंगमय ॥ सर्वभूतान्तरस्थ्याय नित्यमुक्तचिदात्मने । प्रत्यच्चैतन्यरूपाय मह्यमेव नमो नमः ॥ सर्वभूतानर्वर्तिने नित्यमुक्तचिद्स्वरूपिणे सर्वसाक्षिणे मह्यमेव स्वात्मन एव नमः । नम इति द्विरुक्तिः आदरार्थम् ॥ जीवन्मुक्तिश् फ़्ootnoteमुक्तो - खच या मुक्तिः सा मुक्तिः पिण्डपातने । या मुक्तिः पिण्डपातने सा मुक्तिः शुनिशूकरे फ़्ootnoteसूकरे - क॥ १॥ जीवन्मुक्तिरिति या मुक्तिरुच्यते सा यदि पिण्डपातन परा तर्हि सा मुक्तिः सूकरादिष्वपि प्रसक्ता भवतीत्यर्थः । पिण्डपातनं न जीवन्मुक्तिरिति भावः ॥ जीवः शिवः सर्वमेव भूतेष्वेवं फ़्ootnoteभूते भूते - ख व्यवस्थितः । एवमेवाभिपश्यन् हि फ़्ootnoteएवमेव पश्यति यो - ख जीवन्मुक्तः स उच्यते ॥ २॥ जीव इति यः सः सर्वभूतेष्वपि शिवत्वेनैव व्यवस्थितः शिव एव । तज्ज्ञानी जीवन्मुक्त इत्यर्थः ॥ एवं ब्रह्म जगत्सर्वमखिलं भासते रविः । संस्थितं सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ ३॥ यथा रविः सर्वं जगद्भासते एवं ब्रह्म सर्वभूतानामात्मत्वेन संस्थितं सदखिलं भासते प्रकाश्यति । एवमेवान्हिपश्यन् इत्यनुवर्तते । सः तादृशः ज्ञानी जीवन्मुक्त इत्युच्यते इत्यर्थः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । आत्मज्ञानी तथैवैको जीवन्मुक्तः स उच्यते ॥ ४॥ जलचन्द्रवज्जले चन्द्रः यथानेकधा दृश्यते तथैव एकः आत्म । उपाधिभेदेन इत्यध्याहारः.... एकधा बहुधा चैव दृश्यते । एवमात्मानं यो जानाति सः आत्मज्ञानी जीवन्मुक्त इत्युच्यते ॥ सर्वभूते स्थितं ब्रह्म भेदाभेदो न विद्यते । एकमेवाभिपश्यंश्च फ़्ootnoteपश्यति - खजीवन्मुक्तः स उच्यते ॥ ५॥ ब्रह्म सर्वभूतस्थितम् । यत्र भेदोऽभेदः भेदाभेदो न विद्यते । तदेकमेव । एवमभिपश्यंश्च यः स जीवन्मुक्त इत्युच्यते ॥ तत्त्वं क्षेत्रं व्योमातीतमहं क्षेत्रज्ञ उच्यते । अहं कर्ता च भोक्ता च फ़्ootnoteअहं कर्ता अहं भोक्ता - ख जीवन्मुक्तः स उच्यते ॥ ६॥ तत्त्वस्वरूपमेवास्ति । क्षेत्रमाकाशातीतं, परमात्म क्षेत्रज्ञः । कर्तृत्वं भोक्तृत्वं च तस्यैव । एवं यो विजानाति सः जीवन्मुक्त उच्यते ॥ कर्मेन्द्रियपरित्यागी ध्यानवर्जितचेतसः फ़्ootnoteचेतसम् - ख। अत्मज्ञानी तथैवेको जीवन्मुक्तः स उच्यते ॥ ७॥ कर्मेन्द्रियपरित्यागी स्वस्वव्यापाररहितानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चकुर्वन् तानि परित्यजतीत्यर्थः । तथ्हा चेतोऽपि विषयध्यानवर्जितं करोत्येवमद्वयं जानाति यः सः जीवन्मुक्तः ॥ तत्त्वं केवलं कर्म फ़्ootnoteकर्मो - खशोकमोहादिवर्जितम् । शुभाशुभपरित्यागी जीवन्मुक्तः स उच्यते ॥ ८॥ ज्ञानिना यत्कर्म क्रियते तच्छोकमोहादिवर्जितम् । तच्च केवलं शारीरपरिरक्षणायैव । एवं तेन शुभाशुभादिकं परित्यक्तं भवति । स जीवन्मुक्त उच्यते ॥ कर्मसर्वत्र आदिष्टं न जानामि च किंचन । कर्म ब्रह्म विजानाति जीवन्मुक्तः स उच्यते ॥ ९॥ यः आदिष्टं विध्युक्तम् कर्म न जानाति कर्तृत्वारोपेण कर्मन करोतीत्यर्थः । अत एव कर्म ब्रह्मस्वरूपमेवेति विजानाति सः जीवन्मुक्तः ॥ चिन्मयं व्यापितं सर्वमाकाशं जगदीश्वरम् । सहितं फ़्ootnoteसंस्थितम् - ख सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ १०॥ यः जगदीश्वरं चित्स्वरूपमित्याकाशव्यापिनमिति सर्वभूतसहितमित्यपि जानाति सः जीवन्मुक्त उच्यते ॥ अनादिवर्ति भूतानां फ़्ootnoteअनाद्य व्यक्तभूतानां - ख जीवः शिवो न हन्यते । निर्वैरः सर्वभूतेषु फ़्ootnoteसर्वभूतानां - ख जीवन्मुक्तः स उच्यते ॥ ११॥ सर्वेषु भूतेषु यः अनादिः जीवः सः शिव एव । अत एव सः न हन्यते । अतः सर्वेषु भूतेषु निर्वैरो यः जीवन्मुक्त उच्यते ॥ आत्मा गुरुस्त्वं विश्वं फ़्ootnoteगुरुस्त्वद्विश्वं च चिदाकाशो न लिप्यते । गतागतं फ़्ootnoteयतागतः - ख द्वयोर्नास्ति जीवन्मुक्तः स उच्यते ॥ १२॥ यः गुरुः आत्मा सः त्वं एव । स एव निर्लिप्तः चिदाकाशः । तद् एव सर्वम् । अत एव तस्य गतागतं गतमागतमागतं गतं वा न विद्यते । एवं यः आत्मानं सः जीवन्मुक्त इत्युच्यते ॥ गर्भ फ़्ootnoteअन्तर् - ख ध्यानेन पश्यन्ति ज्ञानीनां मन उच्यते । सोऽहं मनो विलीयन्ते जीवन्मुक्तः स उच्यते ॥ १३॥ गर्भध्यानेन अन्तर्ध्यानेन इत्यर्थः । एतादृशध्यानेन ज्ञानिनः यत्पश्यन्ति तदेव ज्ञानिनां मन उच्यते । इदमेव सोऽहं मनः । एतादृशमनोविशिष्टाः ज्ञानिनः । चिदाकाश इत्यनुवर्तते । तत्र विलीयन्ते । ते तत्र विलयं यान्तीत्यर्थः । एवं स्थितस्य आत्मतत्त्वस्य ज्ञानीत्यनुवर्तते । सः जीवन्मुक्त इत्युच्यते ॥ ऊर्ध्वध्यानेन पश्यन्ति विज्ञानं मन उच्यते । शून्यं लयं च विलयं जीवन्मुक्तः स उच्यते ॥ १४॥ ज्ञानिनः ऊर्ध्वध्यानेन समाधिना यत्पश्यन्ति तद्विज्ञानम् । तत्तेषां मन उच्यते । तदेव शून्यं लयम् । तदेव विज्ञानम् । तथात्मज्ञान्यात्मानं जानाति यः सः जीवन्मुक्त उच्यते ॥ अभ्यासे फ़्ootnoteआभाषे - ख रमते नित्यं मनो ध्यानलयं गतम् । बन्धमोक्षद्वयं नास्ति जीवन्मुक्तः स उच्यते ॥ १५॥ यस्य ज्ञानिनः मनः नित्यमभ्यासे श्रवणमनननिदिध्यासनाख्यतपसि रमते क्रीडति । यस्य मनः ध्यानलयं ध्ह्याने लयं गतं; यस्य बन्धमोक्षद्वन्द्वं नास्ति सः जिवन्मुक्त उच्यते ॥ एककी रमते नित्यं स्वभावगुणवर्जितम् । ब्रह्मज्ञानरसास्वादी फ़्ootnoteरसास्वादो - ख जीवन्मुक्तः स उच्यते ॥ १६॥ यस्य ज्ञानिनः मनः इत्यनुवर्तते । नित्यं स्वभावगुणवर्जितं प्रकृति गुणातीतं, सः ज्ञानी एकाकी रमते आत्मन्येव क्रीडति । ब्रह्मज्ञानरसास्वादी ब्रह्माख्यज्ञानरसास्वादी सः जीवन्मुक्त इत्युच्यते ॥ हृदि ध्यानेन पश्यन्ति प्रकाशं क्रियते मनः । सोऽहं हंसेति पश्यन्ति जीवन्मुक्तः स उच्यते ॥ १७॥ ये ज्ञानिनः हृदि ध्यानेन प्रकाशं पश्यन्ति तैः मनः क्रियते तेषां मनोऽभिव्यक्तं भवतीति यावत् । तदा ते सोऽहं हंसः इति पश्यन्ति । एवमात्मतत्त्वं पश्यन् जीवन्मुक्त इत्युच्यते ॥ शिवशक्तिसमात्मानं पिण्डब्रह्माण्डम् फ़्ootnoteशिवशक्तिर्ममात्मानो पिण्डनि ब्रह्माण्डम् - ख एव च । चिदाकाशं हृदं मोहं फ़्ootnoteकृतं सोऽहं - ख जीवन्मुक्तः स उच्यते ॥ १८॥ ज्ञानिनः शिवशक्तिसमात्मानं शिवशक्तिसमः यः आत्मा तमात्मानं महात्मानम् । पिण्डः शारीरम् । तेन सहितं ब्रह्माण्डं हृदं हृत्स्थं बन्धकं मोहं च चिदाकाशमिति चैतन्यमेव पश्यन्ति, य एवमात्मतत्त्वज्ञानी सः जीवन्मुक्त इत्युच्यते ॥ जाग्रत्स्वप्नसुषुप्तिं च तुरीयावस्थितं सदा । सोऽहं मनो विलीयेत फ़्ootnoteविलीयते - ख जीवन्मुक्तः स उच्यते ॥ १९॥ यस्य ज्ञानिनः सोऽहं मनः सोऽहमिति ध्यानैकापरं मनः जाग्रत्स्वप्नसुषुप्तिमतीत्य सदा तुरीयावस्थितं सच्चिदाकाशपरमात्मनि विलीयेत सः ज्ञानी जीवन्मुक्त इत्युच्यते ॥ सोऽहं स्थितं ज्ञानमिदं सूत्रेषु मणिवत्परम् फ़्ootnoteज्योतिरूपं निर्मलं - ख सूत्रमभित उत्तरम् - ग। सोऽहं ब्रह्म निराकारं जीवन्मुक्तः स उच्यते ॥ २०॥ इदं सोऽहं स्थितं ज्ञानं सूत्रेषु मणिवच्चिदाकाशे स्थितमित्यन्वयः । सोऽहं परं ब्रह्म निराकारम् । एवमात्मज्ञानी यः सः जीवन्मुक्त इत्युच्यते ॥ मन एव मनुष्याणां भेदाभेदस्य कारणम् । विकल्पनैव संकल्पं फ़्ootnoteसंकल्पो - ख जीवन्मुक्तः स उच्यते ॥ २१॥ विकल्पना इदमित्थमेवेत्यादि तत्त्वविरुद्धा कल्पना स एव संकल्प इति प्रसिद्धः । तदेव मनोरूपं सन्मनुष्यानामहं ममेत्यादि भेदाभेदव्यवहारकारणम् । एवं यो जानाति ज्ञानफलं च संकल्पराहित्यं तथा च यः सर्वथा संकल्परहितः । सः जीवन्मुक्त इत्युच्यते ॥ मन एव विदुः प्राज्ञाः सिद्धसिद्धान्त फ़्ootnoteविदुःप्राज्ञासिद्धसिद्धान्त - ख एव च । यदा फ़्ootnoteसदा - क दृढं तदा मोक्षो फ़्ootnoteमोक्ष - ख जीवन्मुक्तः स उच्यते ॥ २२॥ यत्प्राज्ञाः ज्ञानिनः विदुः किमिति । यदा मनः सदा दृढं भवति तदैव मोक्ष इति । स एव च सिद्धसिद्धान्तः । य एवं सिद्धान्तं वेद सः जीवन्मुक्त उच्यते ॥ योगाभ्यासी मनः श्रेष्ठोऽन्तस्त्यागी बहिर्जडः । अन्तस्त्यागी बहिस्त्यागी जीवन्मुक्तः स उच्यते ॥ २३॥ यो यो योगाभ्यासी योगमभ्यसति स सो मनः श्रेष्ठः मनसा श्रेष्ठः । एवं विधोऽयमन्तस्त्यागी अन्तस्थं सर्वमपि मायासंभूतं त्यजतीत्यन्तस्त्यागी । अत एव सः बहिः जडवदाचरति । एवं च सोऽन्तस्त्यागी बहिस्त्यागी च । स एव जीवन्मुक्त इत्युच्यते ॥ इति वेदान्तकेसरिणा श्रीदत्तात्रेय विरचिता जीवन्मुक्तगीता समाप्ता ॥ इति श्रीजयचामराजेन्द्रविरचिता जीवन्मुक्तगीताव्याख्या समाप्ता ॥
Encoded by Sovarel Vlad vlad at asea.ro
There are three sources used for the tekSht. Variation in them is marked in the footnote: क -- which seems to be the oldest version, along with a sanskrit commentary by Mysore Jayacamarajendra (see the colofon); ख -- Satcakra, collection of gitas, bengali script, with some different readings and reduplication of some consonants, ग -- a edition in Bengali from Vidyaratna by Kaliprasana Bhattacarya घ -- collection of gitas, bengali script. This tekSht is part of a volume of ``Bibliotheca Indica᳚, Romanian review, dedicated to Rishi Dattatreya as sanskrit source for ``Works of Dattatreya᳚ foreword, introduction and translation (from Sanskrit to Romanian) by Vlad Sovarel, book published by Herald Publishing House, Bucharest, Romania. The ``sanskrit source᳚ contains: - Avadhuta Upanishad, attributed to Dattatreya; encoded by Vlad Sovarel - Avadhuta Gita, attributed to Dattatreya, known also as Datta Gita; encoded by Vlad Sovarel - Darshana Upanishad, attributed to Dattatreya; encoded by Vlad Sovarel - Dattatreya Dhyana - Dattatreya Stotra, attributed to Narada, from Narada Purana - Dattatreya Tantra, attributed to Dattatreya; - Dattatreya Upanishad, attributed to Dattatreya; - Jivanmukti Gita, attributed to Dattatreya, along with a sanskrit commentary; encoded by Vlad Sovarel - Tripura Rahasya, attributed to Haritayana; - Yoga Shastra, attributed to Dattatreya; encoded by Vlad Sovarel

% Text title            : jivanamuktigItA
% File name             : jivanmuktigiitaa.itx
% itxtitle              : jIvanmuktigItA
% engtitle              : jIvanmukti gItA
% Category              : gItA, giitaa, dattAtreyAnandanAtha, Natha-Sampradaya
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Dattatreya / Natha Sampradaya
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sovarel Vlad vlad at asea.ro
% Proofread by          : Sovarel Vlad vlad at asea.ro
% Indexextra            : Dattatreya
% Latest update         : May 20, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP