॥ नहुषगीता ॥

॥ अथ नहुषगीता ॥
अध्याय १७७ वैशम्पायन उवाच । युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् । दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १॥ कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् । कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २॥ स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् । कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३॥ युधिष्ठिर उवाच । देवो वा यदि वा दैत्य उरगो वा भवान्यदि । सत्यं सर्पो वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४॥ किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम । किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५॥ सर्प उवाच । नहुषो नाम राजाऽहमासं पूर्वस्तवानघ । प्रथितः पञ्चमः सोमादायोःपुत्रो नराधिप ॥ ६॥ क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च । त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७॥ तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा । सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८॥ ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् । इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९॥ न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव । तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १०॥ षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव । नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११॥ प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम । अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२॥ युधिष्ठिर उवाच । ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः । अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ १३॥ वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् । सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४॥ सर्प उवाच । ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर । ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५॥ युधिष्ठिर उवाच । सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा । दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६॥ वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् । यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७॥ सर्प उवाच । चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि । शूद्रेष्वपि च सत्यं च दानमक्रोध एव च । आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८॥ वेद्यं यच्चाथ निर्दुःखमसुखं च नराधिप । ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९॥ युधिष्ठिर उवाच । शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २०॥ यत्रैतल्लक्ष्यतेसर्प वृत्तं स ब्राह्मणः स्मृतः । यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१॥ यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह । ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ २२॥ एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते । यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३॥ एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्व चित् । एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४॥ सर्प उवाच । यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः । व्यर्था जातिस्तदाऽऽयुष्मन्कृतिर्यावन्न दृश्यते ॥ २५॥ युधिष्ठिर उवाच । जातिरत्र महासर्प मनुष्यत्वे महामते । सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६॥ सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः । वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७॥ इदमार्षं प्रमाणं च ये यजामह इत्यपि । तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८॥ प्राङ्नाभिर्वर्धनात्पुंसो जातकर्म विधीयते । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९॥ वृत्त्या शूद्र समो ह्येष यावद्वेदे न जायते । अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३०॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते । सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१॥ यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते । तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२॥ सर्प उवाच । श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर । भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३॥
अध्याय १७८ युधिष्ठिर उवाच । भवानेतादृशो लोके वेदवेदाङ्गपारगः । ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १॥ सर्प उवाच । पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत । अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २॥ युधिष्ठिर उवाच । दानाद्वासर्पोवाच ।सत्याद्वा किमतो गुरु दृश्यते । अहिंसा प्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३॥ सर्पोवाच । दाने रतत्वं सत्यं च अहिंसा प्रियमेव च । एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४॥ कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते । सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५॥ एवमेव महेष्वास प्रियवाक्यान्महीपते । अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ६॥ एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् । यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ७॥ युधिष्ठिर उवाच । कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् । अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८॥ सर्प उवाच । तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः । मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९॥ तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः । अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १०॥ विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् । तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११॥ कामक्रोधसमायुक्तो हिंसा लोभसमन्वितः । मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२॥ तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते । गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ १३॥ सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् । नित्ये महति चात्मानमवस्थापयते नृप ॥ १४॥ जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् । फलार्थस्तात निष्पृक्तः प्रजा लक्षणभावनः ॥ १५॥ युधिष्ठिर उवाच । शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः । तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ १६॥ किं न गृह्णासि विषयान्युगपत्त्वं महामते । एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७॥ सर्प उवाच । यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् । करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८॥ ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ । तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९॥ मनसा तात पर्येति क्रमशो विषयानिमान् । विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २०॥ अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते । तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१॥ स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः । द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ २२॥ बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः । एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३॥ युधिष्ठिर उवाच । मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् । एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४॥ सर्प उवाच । बुद्धिरात्मानुगा तात उत्पातेन विधीयते । तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषिणी भवेत् ॥ २५॥ बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् । बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६॥ एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम् । त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥ २७॥ युधिष्ठिर उवाच । अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव । विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८॥ सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् । एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९॥ सर्प उवाच । सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् । वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३०॥ सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर । पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ ३१॥ कृतं कार्यं महाराज त्वया मम परन्तप । क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ ३२॥ अहं हि दिवि दिव्येन विमानेन चरन्पुरा । अभिमानेन मत्तः सन्कं चिन्नान्यमचिन्तयम् ॥ ३३॥ ब्रह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः । करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते । तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५॥ ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम । स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३६॥ तत्र ह्यगस्त्यः पादेन वहन्पृष्टो मया मुनिः । अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७॥ ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युत भूषणः । प्रपतन्बुबुधेऽऽत्मानं व्याली भूतमधोमुखम् ॥ ३८॥ अयाचं तमहं विप्रं शापस्यान्तो भवेदिति । अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९॥ ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः । युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४०॥ अभिमानस्य घोरस्य बलस्य च नराधिप । फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१॥ ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् । ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२॥ सत्यं दमस्तपोयोगमहिंसा दाननित्यता । साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ ४३॥ अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः । स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४॥ वैशम्पायन उवाच । इत्युक्त्वाऽऽजगरं देहं त्यक्त्वा स नहुषो नृपः । दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५॥ युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः । धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६॥ ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् । कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७॥ तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः । आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८॥ ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया । मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९॥ पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् । हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५०॥ ॥ इति नहुषगीता समाप्ता ॥ Mahabharata Vanaparva, adhyAya 177-178 Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : nahuShagItA
% File name             : nahuShagiitaa.itx
% itxtitle              : nahuShagItA
% engtitle              : nahuShagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Indexextra            : scanned
% Latest update         : January 12, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP