षड्जगीता
अध्यायः १६१
व्
इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः ।
पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् ॥ १॥
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २॥
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३॥
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४॥
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥ ५॥
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६॥
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७॥
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ।
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८॥
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः ।
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ॥ ९॥
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च ॥ १०॥
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११॥
विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२॥
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३॥
उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १४॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५॥
काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६॥
अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता ॥ १८॥
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९॥
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २०॥
आसीनश्च शयानश्च विचरन्नपि च स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१॥
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २२॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृत संयुक्तं तस्मादेतौ मताविह ॥ २३॥
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः ।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४॥
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५॥
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६॥
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७॥
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८॥
कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९॥
वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३०॥
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१॥
समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ ३२॥
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३॥
नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः ॥ ३४॥
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।
पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् ॥ ३५॥
सुचारु वेषाभिरलङ्कृताभिर्
मदोत्कटाभिः प्रियवादिनीभिः ।
रमस्व योषाभिरुपेत्य कामं
कामो हि राजंस्तरसाभिपाती ॥ ३६॥
बुद्धिर्ममैषा परिषत्स्थितस्य
मा भूद्विचारस्तव धर्मपुत्र ।
स्यात्संहितं सद्भिरफल्गुसारं
समेत्य वाक्यं परमानृशंस्यम् ॥ ३७॥
धर्मार्थकामाः सममेव सेव्या
यस्त्वेकसेवी स नरो जघन्यः ।
द्वयोस्तु दक्षं प्रवदन्ति मध्यं
स उत्तमो यो निरतिस्त्रिवर्गे ॥ ३८॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः ।
ततो वचः सङ्ग्रहविग्रहेण
प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९॥
ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषाम् अनुचिन्त्य सम्यक् ।
उवाच वाचावितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४०॥
निःसंशयं निश्चित धर्मशास्त्राः
सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातु कामस्य ममेह वाक्यम्
उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।
इह त्ववश्यं गदतो ममापि
वाक्यं निबोधध्वमनन्यभावाः ॥ ४१॥
यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समलोष्ट काञ्चनः
स मुच्यते दुःखसुखार्थ सिद्धेः ॥ ४२॥
भूतानि जाती मरणान्वितानि
जरा विकारैश्च समन्वितानि ।
भूयश्च तैस्तैः प्रतिबोधितानि
मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३॥
स्नेहे न बुद्धस्य न सन्ति तानीत्य्
एवं स्वयम्भूर्भगवानुवाच ।
बुधाश्च निर्वाणपरा वदन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४॥
एतत्प्रधानं न तु कामकारो
यथा नियुक्तोऽस्मि तथा चरामि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्तसर्वे ॥ ४५॥
न कर्मणाप्नोत्यनवाप्यमर्थं
यद्भावि सर्वं भवतीति वित्त ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्मादिदं लोकहिताय गुह्यम् ॥ ४६॥
ततस्तदग्र्यं वचनं मनोऽनुगं
समस्तमाज्ञाय ततोऽतिहेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७॥
सुचारु वर्णाक्षर शब्दभूषितां
मनोऽनुगां निर्धुत वाक्यकण्टकाम् ।
निशम्य तां पार्थिव पार्थ भाषितां
गिरं नरेन्द्राः प्रशशंसुरेव ते ।
पुनश्च पप्रच्छ सरिद्वरासुतं
ततः परं धर्ममहीन सत्त्वः ॥ ४८॥
॥ इति षड्जगीता समाप्ता ॥
Adhyaya number 161 in shAntiparva, Mahabharata critical edition
(Bhandarkar Oriental Research Institute BORI).
In Kinjavadekar's edition it is 167.
Sunder Hattangadi